43006: दिक्पूर्वपदाट्ठञ् च

Padacheda: दिक्-पूर्वपदात् | S | 5 | 1 |

ठञ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And the affix ठञ् also (as well as यत्) comes in the remaining senses after the word अर्द्ध when the prior term denotes a direction.

Vasu English Translation

And the affix ठञ् also (as well as यत्) comes in the remaining senses after the word अर्द्ध when the prior term denotes a direction. By च, the affix यत् is also used. This debars अण् ॥ Thus पूर्वार्ध्यम्, पौर्वार्धिकम्, दक्षिणार्ध्यम् or दाक्षिणार्द्धिकम् ॥

The word पद is used in the sutra in order to prevent ambiguity. Had the sutra stood merely as दिक्पूर्वाट् ठञ्च, it might have meant (1.1.68), ‘Ardha preceded by the word दिक् takes ठञ् also’, for then स्वरूपविधि would have applied, and दिगर्धे जातः would have taken the affix.

Kashika

दिक्पूर्वपदादर्धान्तात् प्रातिपदिकात् ठञ् प्रत्ययो भवति चकाराद् यत् च शैषिकः। अणोऽपवादः। पौर्वार्धिकम्, पूर्वार्ध्यम्। दाक्षिणार्धिकम्, दक्षिणार्ध्यम्। पदग्रहणं स्वरूपविधिनिवारणार्थम्॥

Siddhanta Kaumudi

चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥

Balamanorama

दिक्पूर्वपदाट्ठञ् च - दिक्पूर्वपदायट्ठञ् च । अर्धादित्येव । परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात् ।

Tattvabodhini

दिक्पूर्वपदाट्ठञ् च - दिक् । पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः ।

Padamanjari

अणोऽपवाद इति । सौत्रीं प्राप्तिमभिप्रेत्यैतदुक्तम्,’सपूर्वपदाट्ठञ् वक्तव्यः’ इत्युक्तत्वात् । पदग्रहणमित्यादि ।’दिक्पूर्वात्’ इत्युच्यमाने स्वरूपविधिः स्यात्, ततश्च दिगर्धे जात इत्यत्रेव स्यात् । पदग्रहणे तु सति - पद्यतेऽनेनेति पदम्, दिशः पदं पूर्वमस्मादिति निपातनात्समासः ॥

Nyaas

पौर्वार्द्धिकम् इति। पूर्वस्मिन्नर्थे जातः। ` तद्धितार्थ` (2.1.50) इत्यादिना समासः,ततस्तद्धितः। अथ पदग्रहणं किमर्थम्, दिक्पूर्वादित्येवोच्येत? इत्याह - पदग्रहणम् इत्यादि। असति हि पदग्रहणे स्वरूपविधिः स्यात्, ततश्च दिगर्द्धे जात इत्यत्रैव स्यात्। पदग्रहणे तु सति यन्नाम किञ्चिद्दिक्सम्बन्धिः पूर्वपदं तस्य ग्रहणमुपपन्नं भवति॥

Prakriyasarvasvam

दिक्पूर्वपदादर्थाट्ठञ् यच्च । पौवार्धिकम् । पूर्वार्ध्यम् ॥