43017: प्रावृष एण्यः¶
Padacheda: प्रावृषः | S | 5 | 1 |
एण्यः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix एण्य comes in the remaining senses after the word प्रावृष।
Vasu English Translation¶
The affix एण्य comes in the remaining senses after the word प्रावृष। This debars the अण् of the last sutra, though ‘pravrish’ is a season-denoting word. Thus प्रावृषेण्यो बलाहकः “the belonging to the rainy season.”
Kashika¶
प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। प्रावृषेण्यो बलाहकः॥
Siddhanta Kaumudi¶
प्रावृषेण्यः ॥
Laghu Siddhanta Kaumudi¶
प्रावृषेण्यः॥
Balamanorama¶
प्रावृष एण्यः - प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृट्-वर्पर्तुः । तत्र भवादिरित्यर्थः । जाते तु ठब् वक्ष्यते । प्रक्रियालाघवार्थं णकारोच्चारणम् ।
Tattvabodhini¶
प्रावृष एण्यः - प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रवर्षतीति प्रावृट्नहिवृती॑ति दीर्घः । तत्र भवः । जाते तु ठपं वक्ष्यति ।रषाभ्यां॑मिति सिद्धे प्रक्रियालाघवार्थं णकारोच्चारणमित्याहुः । किंच प्रावृषएण्यमाचक्षाणः प्रावृषेण् इत्यत्र णकारश्रवणार्थमपि तत् । ण्यन्तात्क्विपि टिलोपणिलोपयलोपाः ।
Padamanjari¶
प्रवर्पतीति प्रावृट्, क्विपि’नहिवृत्ति’ इत्यादिना दीर्घः । प्रावृषेण्य इति । भवार्थे प्रत्ययः, जाते तु प्रावृषष्ठपं वक्ष्यति । रषाभ्याम्ऽ इत्येव सिद्धे प्रत्यये णकारोच्चारणम् - प्रावृषेण्यमाचष्टे प्रावृषेण्ययतेः क्विप्, णिलोपः,’लोपो व्योर्वलि’ इति यलोपः, प्रावृषेणित्यत्र णत्वार्थम् ; अन्यथा’पदान्तस्य’ इति प्रतिषेधः स्यात् ॥
Nyaas¶
अथ किमर्थं प्रत्यये मूर्धन्यः पठते, न रषाभ्याम् (8.4.1) इत्येनैव णत्वं भविष्यति? नैवं शक्यम्, इह हि न स्यात् - प्रावृषेणिति पदान्तत्वात्॥
Prakriyasarvasvam¶
प्रावृषेण्यम् ॥ प्रावृषेण्यम् ॥
Sutra Prayogas¶
प्रावृषेण्यं (रघुवंशम्): प्रावृष एण्यः इत्येण्यप्रत्ययः।
प्रावृषेण्यैरिव (भट्टिकाव्यम्): प्रावृप एण्यः इति एण्यः।