43015: श्वसस्तुट् च¶
Padacheda: श्वसः | S | 5 | 1 |
तुट् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् comes optionally comes in the remaining senses after the word श्वस् and it takes the augment तुट्।
Vasu English Translation¶
The affix ठञ् comes optionally comes in the remaining senses after the word श्वस् and it takes the augment तुट्। The word श्वस् takes the affix त्यप् by sutra (4.2.10). This sutra ordains ठञ् ॥ When free from the scope of these rules, it takes tyu and tyul affixes also by (4.3.23). Thus श्वस् + तुट् + ठञ् = शौवस् + त् + इक (7.3.3) = शौवस्तिकः “belonging to to-morrow or ephemeral”. Otherwise श्वस्त्यः and श्वस्तनः ॥
Bhashya¶
श्वसस्तुट् च (1585) (ठञ्ञोऽधिकरणम्) (5451 आगमस्य टित्वकरणे आक्षेपवार्तिकम्॥ 1 ॥) - श्वसस्तुठ्यादेशानुपपत्तिरनादित्वात् - (भाष्यम्) श्वसस्तुटि कृते आदेशानुपपत्तिः। किं कारणम्? अनादित्वात्। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति॥ (तुडागमस्य पूर्वान्तत्वबोधकं भाष्यम्) एवं तर्हि पूर्वान्तः करिष्यते॥ (5452 पूर्वान्तत्वे दोषवार्तिकम्॥ 2 ॥) - पूर्वान्ते कप्रतिषेधः - (भाष्यम्) यदि पूर्वान्तः, कादेशस्य प्रतिषेधो वक्तव्यः। शौवस्तिकम्। तान्तादिति कादेशः प्राप्नोति। (परादित्वाभ्युपगभाष्यम्) अस्तु तर्हि परादिः। ननु चोक्तं श्वसस्तुठ्यादेशानुपपत्तिरनादित्वादिति॥ (5453 परादित्वाभ्युपगतदोषनिराकरणवार्तिकम्॥ 3 ॥) - सिद्धं त्वादिष्टस्य तुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? तुडादिष्टस्येति वक्तव्यम्॥ (5454 सिद्धान्तवार्तिकम्॥ 4 ॥) - संनियोगाद्वा - (भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत्प्राप्नोति? आदेशः॥
Kashika¶
विभाषेत्येव। श्वः शब्दाद् विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति। त्यप् प्रत्ययोऽप्यतो विहित ऐषमोह्यः श्वसोऽन्यतरस्याम् (४.२.१०५) इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शौवस्तिकः, श्वस्त्यः, श्वस्तनः॥
Siddhanta Kaumudi¶
श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥
Balamanorama¶
श्वसस्तुट् च - आसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः ।
Tattvabodhini¶
श्वसस्तुट् च - आसस्तुट् च । विभाषेत्यनुवर्तनादाह — ठञ्वास्यादिति ।ऐषमोह्रः॑इत्यादिना त्यबपि विकल्पेन विहितः । आभ्यां मुक्ते ठ्युटउलावपि स्त एव ।
Padamanjari¶
तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति - अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवतीति ।’सायंचिरम्’ इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥
Nyaas¶
तस्य {तस्य चेतीति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः (4.2.80) इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते - सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। एताभ्याम् इत्यादि। आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा सायञ्चिरम् (4.3.23) इत्यादिना टउटउलौ अपि भवतः॥
Prakriyasarvasvam¶
श्वश्शब्दाद् वा ठञ् । ठस्येके कृते तुडागमश्च । श्वस् तिक, द्वारादित्वादैच । शौवस्तिकम् । वेत्युक्तेः, श्वस्तनम् ॥
Sutra Prayogas¶
शौवस्तिकत्वं (भट्टिकाव्यम्): श्वसस्तुट् च इति ठन् तुडागमश्च।