43019: छन्दसि ठञ्

Padacheda: छन्दसि | S | 7 | 1 |

ठञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas), the word वर्षा takes the affix ठञ् , in the remaining senses.

Vasu English Translation

In the छन्दस् (Vedas), the word वर्षा takes the affix ठञ् , in the remaining senses. This debars ठक्. The form will be the same, but there will be difference in accent. As नभश्च नभस्यश्च वार्षिकावृतू ॥ The word ऋतु here means “month,” i. e. Nabha and Navasya are two rainy months.

Kashika

वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ठकोऽपवादः। स्वरे भेदः। नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑कावृ॒तू (तै० सं० ४.४.११.१)॥

Siddhanta Kaumudi

वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥

Padamanjari

नभश्च नभस्यश्च वार्षिकावृत् इति ।’तस्येदम्’ इत्यत्रार्थे प्रत्ययः, ऋतुशब्दश्च ऋत्ववयवयोर्मासयोर्वर्तते, वर्षर्तोरेतौ मासाववयवावित्यर्थः ॥

Prakriyasarvasvam

शेषे जाताद्यर्थे वर्षाभ्यष्ठञ् स्यात् । नभश्च नभस्यश्च वार्षिकावृतू । वर्षासु भवौ मासावित्यर्थः ।