43016: संधिवेलाद्यृतुनक्षत्रेभ्योऽण्

Padacheda: संधिवेला-आदि-ऋतु-नक्षत्रेभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes in the remaining senses after the words संधिवेला etc. and the words expressing ‘season’ and ‘asterism’.

Vasu English Translation

The affix अण् comes in the remaining senses after the words संधिवेला etc. and the words expressing ‘season’ and ‘asterism’. The word कालात् is to be read into the sutra. All the words must be expressive of time. This debars ठञ् ॥ The repetition of अण् debars छ also in the case of those words, which are Vriddha in this list (4.2.114). Thus (1) सान्धिवेलम्, सान्ध्यम् (2) ग्रैष्मम्, शैशिरम् (3) तेषम्, पौषम् are examples of sandhivela season and asterisms respectively.

The affix अण् is added to संवत्सर when denoting ‘fruit’ and ‘festival’, as सांवत्सरं फलं or पर्व ॥

1 संधिवेला, 2 संध्या, 3 अमावास्या, 4 त्रयोदशी, 5 चतुर्दशी, 6 पञ्चदशी, 7 पौर्णमासी, 8 प्रतिपद्, 9 संवत्सरात्फलपर्वणोः ॥

Kashika

कालादित्येव। संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् प्रत्ययो भवति शैषिकः। ठञोऽपवादः। अण्ग्रहणं वृद्धाच्छस्य (४.२.११४) बाधनार्थम्। संधिवेलादिभ्यस्तावत् — सांधिवेलम्। सांध्यम्। ऋतुभ्यः — ग्रैष्मम्। शैशिरम्। नक्षत्रेभ्यः — तैषम्। पौषम्॥ संधिवेला। संध्या। अमावास्या। त्रयोदशी। चतुर्दशी। पञ्चदशी। पौर्णमासी। प्रतिपत्। संवत्सरात् फलपर्वणोः (ग०सू० १०२)। सांवत्सरं फलम्। सांवत्सरं पर्व॥

Siddhanta Kaumudi

संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ (गणसूत्रम् -) संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥

Balamanorama

संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् - सन्धिवेलां । कालवृत्तिभ्य इति ।कालाट्ठ]ञित्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैषमिति । तिष्ये भवादीत्यर्थः ।तिष्टपुष्ययोर्नक्षत्राऽणी॑ति । यलोपः । तिष्ये जात इत्यर्थेश्रविष्ठाफल्गुनी॑ति लुग्वक्ष्यते । सन्धिवेलादिगणं पठति — सन्धिवेलेत्यादि । संवत्सरात्फलपर्वणोरिति । गणसूत्रमिदम् ।

Tattvabodhini

संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् - सन्धिवेला । अण्ग्रहणं तु छबाधनार्थम् । अन्यथासन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः॑ इत्यक्ते पौर्णमासीशब्दात्वृद्धाच्छः॑स्यात् । वचनं तु ठञो बाधनाय स्यादिति भावः । तैषमिति । तिष्याद्भवादावण् । जातार्थे तुश्रविष्ठाफाल्गुनी॑ति लुक्स्यात् ।सूर्यतिष्ये॑त्यत्रतिष्यपुष्ययोर्नक्षत्राऽणि॑इति वचनाद्यलोपः ।

Padamanjari

अण्ग्रहणं वृद्धाच्चस्य बाधनार्थमिति । असत्यण्ग्रहणे सन्धिवेलादिभ्यो यथाविहितमित्युच्यमाने यद्यप्यारम्भसामर्थ्यात्कालाट्ठञ् न भवति; तथापि सन्धिवेलादिषु पठितात्पौर्णमासीशब्दात्स्वात्यादेश्च वृद्धाच्छः स्याद्, वचनं तु कालाट्ठञो बाधनार्थं स्यात् । तस्मादण्ग्रहणं कर्तव्यं वृद्धाच्छस्य बाधनार्थम् । सौवातमिति । ठत सातत्यगमनेऽ सुपूर्वात् ठज्यतिभ्यां चऽ इतीण् प्रत्ययः, स्वात्या युक्तः काल इत्यण्, तस्य’लुबविशेषे’ इति लुप्, ततो भवादावर्थेऽनेनाण्,’न य्वाभ्याम्’ इति वृद्धिप्रतिषेधः, ऐजागमश्च । जातार्थे तु’श्रीविष्टाफल्गुनी, इति लुकि स्वातिरिति भवति । तैषमिति । अत्रापि जातार्थे पूर्ववल्लुका भवतव्यमिति भवादौ प्रत्ययः, ठ्तिष्यपुष्ययोर्नक्षत्राणि यलोपः’ इति यलोपः । संवत्सरात्फलपर्वणोरिति । सांवत्सरं फलं पर्व वा, सांवत्सरिकमन्यत् ॥

Nyaas

ठञोऽपवाद-ट इति। **कालाट्ठञ्** (4.3.11) इति प्राप्तस्य। अथाण्ग्रहणं किमर्थम्, यथाविहितमेवोच्येत,तेनैवमुच्यमाने न प्राप्नोतीत्याशङ्कनीयम्, यदि ठञ् स्यात् पुनर्वचनमनर्थकं स्यात्, तस्माद्वचनप्रामाण्याद्यो विहितो न स प्राप्नोति, ठञ्प्रत्ययेन बाधितत्वात् स एव भविष्यति, स वाच्य? इत्यत आह - `अण्ग्रहणम् इत्यादि। सन्धिवेलादिषु पौर्णमासीशब्दो वृद्धः पठते। स्वातिरिति नक्षत्रशब्दो वृद्धोऽस्ति। तत्र यद्यण्ग्रहणं न क्रियेत, ताभ्यां परत्वाट्ठञा छे बाधिते पुनर्वचनाच्छ एव स्यात्। तस्मात् तनपि बाधित्वा वृद्धादणेव यथा स्यादित्येवमर्थं पुनरण्ग्रहणम्। तैषम्, पौषम् इति। तिष्यपुष्पशब्दाभ्यां नक्षत्रेण युक्तः कालः (4.2.3) इत्यण्, तस्याणो लुबविशेषे (4.2.4) इति लुप्, ततोऽनेनाण्, तिष्यपुष्ययोर्नक्षत्राणि` (वा।808) इति यलोपः।`संवत्सरात्फलपर्वणोः`इति। संवत्सरशब्दादण्भवति फले पर्वणि चाभिधेये। सांवत्सरं फलम्, सावंत्सरं पर्व वा। सांवत्सरिकमन्यत्॥

Prakriyasarvasvam

एभ्यः कालाट्ठञि प्राप्तेऽण् सन्धिवेलासन्ध्यात्रयोदशीचतुर्दशीपञ्चदशीपौर्ण- मास्यमवास्याप्रतिपद्भ्यः । सन्धिवेलायां भवं सान्धिवेलम् । सान्ध्यम् । तुल्यार्थौ । प्रातिपदः । प्रतिपदशब्दात् तु कालाट्ठञि प्रातिपदिकश्चन्द्रः । ‘संवत्सरात् फलपर्वणोः’ (ग. सू.) सांवत्सरं फलं पर्व वा । ऋतुभ्यस्तु ग्रैष्मम् । शैशिरम् । ग्रीष्मस्य पूर्वो भागः पूर्वग्रीष्मः । तत्राण् ॥

Sutra Prayogas

  • सान्ध्य (शिशुपालवधम्): संधिवेलाद्यतुनक्षत्रेभ्योऽण् इत्यण्प्रत्ययः।