43010: द्वीपादनुसमुद्रं यञ्¶
Padacheda: द्वीपात् | S | 5 | 1 |
अनु-समुद्रम् | S | 0 | 0 |
यञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix यञ् comes in the remaining senses after the word द्वीप , which is near the sea.
Vasu English Translation¶
The affix यञ् comes in the remaining senses after the word द्वीप , which is near the sea. The word द्वीप occurs in the list of Kachchhadi (4.2.133), and would have taken अण्; and by sutra (4.2.134), it would have taken वुञ् also. The present sutra debars both those affixes, when the word द्वीप means अनुसमुद्र or ‘near the sea’.
Thus द्वैप्यम् ‘living on or relating to an island’. As द्वैप्यं भवन्तोऽनुचरन्ति चक्रम् ॥
Why do we say अनुसमुद्रं ? Observe द्वैपकम् or द्वैपम् (4.2.133) and (4.2.134). The word ‘anu-samudra’ is an Avyayibhava compound (2.1.15).
Kashika¶
समुद्रसमीपे यो द्वीपः, तस्माद् यञ् प्रत्ययो भवति शैषिकः। कच्छादिपाठाद् (४.२.१३३) अणो मनुष्यवुञः (४.२.१३४) चापवादः। द्वैप्यम्। द्वैप्यं भवन्तोऽनुचरिन्त चक्रम्। अनुसमुद्रमिति किम् ? द्वैपकम्। द्वैपमन्यत्॥
Siddhanta Kaumudi¶
समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥
Balamanorama¶
द्वीपादनुसमुद्रं यञ् - द्वीपादनु ।अनुसमुद्र॑मिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम्, विद्यमानादित्यध्याहार्यम् । तदाह — समुद्रस्य समीपे इति । द्वैप्येति ।यञश्चे॑ति ङीप् तु न,अनपत्याधिकारस्थान्ने॑ति तन्निषेधात् ।
Tattvabodhini¶
द्वीपादनुसमुद्रं यञ् - द्वीपादनु । समुद्रं समया अनुसमुद्रम् ।अनुर्यत्समया॑इत्यव्ययीभावः । सप्तम्यन्तं चेदम्, विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह -समुद्रसमीपे यो द्वीप इति । कच्छाद्यणो मनुष्यवुञश्चापवादोऽयम् । अनुसमुद्रं किं । द्वैपमन्यत् । कच्छाद्यण् । द्वैपको मनुष्यः ।मनुष्यतत्स्थो॑रिति वुञ् । द्वैप्येति ।यञश्चे॑ति ङीब्न भवति,अपत्याधिकारस्थादेव यञो ङी॑बिति प्रागेवोक्तत्वात् ।
Padamanjari¶
अनुसमुद्रमिति । ठनुर्यत्समयाऽ इत्यव्ययीभावः । सप्तम्यन्तं चैतद्, तद् द्वीपस्य विशेषणम्, तदाह - समुद्रसमीपे यो द्वीप इति ॥
Nyaas¶
अनुसमुद्रम् इति। समुद्रं समयाऽनुसमुद्रम्। अनुर्यत्समया (2.1.15) इत्यव्ययीभावः। अणो मनुष्यवुञश्चापवादः इति। कच्छादिभ्यश्च (4.2.133) इति प्राप्तस्याणः। मनुष्यतत्स्थयोर्वुञ् (4.2.134) इति प्राप्तस्य वुञः॥
Prakriyasarvasvam¶
समुद्रसमीपे समुद्रान्तर्वा यो द्वीपस्तस्माद् यञ् स्यात् । द्वैप्यो दाशः शको वा । अन्यत्र द्वैपो नद्यां वेतसः ॥