43011: कालाट्ठञ्

Padacheda: कालात् | S | 5 | 1 |

ठञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ठञ् comes in the remaining senses after the words denoting time.

Vasu English Translation

The affix ठञ् comes in the remaining senses after the words denoting time. This debars अण् ॥ The affix छ which comes after Vriddha words is prohibited by this sutra. Thus मासिकः ‘monthly’ आर्द्धमासिकः ‘bi-monthly’, सांवत्सरिकः ‘annual’.

The words which denote time even indirectly, also take this affix. As कादम्बपुष्पिकं, व्रैहिपलालिकम् ॥ The word काल governs all the subsequent sutras upto 25. (तत्र जातः).

Kashika

कालविशेषवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथंचिद् गुणवृत्त्यापि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। ब्रैहिपलालिकम्। तत्र जातः (४.३.२५) इति प्रागतः कालाधिकारः॥

Siddhanta Kaumudi

कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग -इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः (SK1393) इति यावत्कालाधिकारः ॥

Laghu Siddhanta Kaumudi

कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। अव्ययानां भमात्रे टिलोपः (वार्त्तिकम्) । सायम्प्रातिकः। पौनःपुनिकः॥

Balamanorama

कालाट्ठञ् - कालाट्ठञ् ।कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण॑मिति ‘तदस्य परिमाणं’ ‘सङ्ख्यायाः’ इति सूत्रभाष्ये स्पष्टम् । तदाह — कालवाचिभ्य इति । सायंप्रातिकः पौनःपुनिक इति । ‘अव्ययानां भमात्रे’ इति टिलोपः ।सायञ्चिर॑मिति ठ्युठ्युलौ तु न भवतः, ‘नस्तद्धिते’ इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः ।

Tattvabodhini

कालाट्ठञ् - कालाट्ठञ् । स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी — प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात् । किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह -कालावाचिभ्य इति । यत्तुस्वरूपस्य पर्यायाणां च न ग्रहण ॑मिति पदमञ्जर्यादिषु स्थितम् । तदसत् ।कालिकः संबन्धः॑,कालिकी व्याप्ति॑रित्यादिप्रयोगाऽनापत्तेः । न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात् । गौणमुख्यन्यायस्त्विह नाश्रीयते । तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः । अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः । न च पुष्पदिशब्दानां कालो मुख्य एवार्थः,लुबविशेषे॑इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात् ।लुबविशेषे॑इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक् । एवं स्थितेकालवाचिभ्य॑इति मूलस्यकालप्रतिपादकेभ्यः॑इति फलितोऽर्थः ।

Padamanjari

कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः । इह’गौणमुख्ययोर्मुख्ये सम्प्रत्ययः’ इति न्यायान्मुख्यया वृत्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्या कालवृतेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह - यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति - गुणवृत्यापीति । परत्र परशब्दप्रवृतेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च’लुबविशेषे’ इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ॥

Nyaas

कालविशेषवाचिनः इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि (4.3.16) सूत्रेणाणो विधानमनर्थकं स्यात्; प्राग्दीव्यतोऽण् (4.1.83) इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्।इह केचिच्छब्दा मुख्यया वृत्त्या काले वर्तन्ते - मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या - कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह - यथा कथञ्चित् इति। येन केनचित्प्रकारेणेत्यर्थः। गुणवृत्त्याऽपि इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या।प।4)? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे (4.3.16) प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्॥

Prakriyasarvasvam

कालवाचिभ्यः शेषे ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । लक्षणया कालवृत्तिभ्योऽपीष्टम् ‘ कदम्बपुष्पमिति लक्षणया प्रावृट् । तत्र भवं, कादम्ब- पुष्पिकम् । एवं शरद्भवं, व्रीहिपलालिकम् ॥ <karika>कार्त्तिकेयो विवस्वानित्यस्ति कार्त्तिकमासजे । तत्र कालाट्ठञि प्राप्ते ढो मृग्य इति वामनः ॥ २३९ ॥ शार्वरं तम इत्याद्यप्यसाध्वेवेति सोऽब्रवीत् । वस्तुतश्चेत् कार्त्तिकिको भानुः शार्वरिकं तमः ॥ २४० ॥ एवं पाविक इत्येव पार्वणश्चन्द्र इत्यसत् । स्याद् वा चातुर्दशं रक्ष इतिवच्छेष इत्यणि ॥ २४१ ॥</karika>

Sutra Prayogas

  • प्रास्थानिकं (रघुवंशम्): कालाट्टञ् इति ठञ्प्रत्ययः।

  • शाश्वतः (कुमारसम्भवम्): कालाट्ठञ् इति ठञपवादः।