43012: श्राद्धे शरदः¶
Padacheda: श्राद्धे | S | 7 | 1 |
शरदः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् comes in the remaining senses after the word शरद् when expressing श्राद्ध।
Vasu English Translation¶
The affix ठञ् comes in the remaining senses after the word शरद् when expressing श्राद्ध। This debars अण् (4.3.16). The word श्राद्धे means the ‘funeral oblation’; and not श्रद्धावान् पुरुषः ‘a faithful or believing person’. Thus शारदिकं श्राद्धं ‘the autumnal Sraddha’. When not meaning ‘Sraddha’, it will be शारदम् ॥
Kashika¶
शरच्छब्दाट् ठञ् प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः। ऋत्वणः (४.३.१६) अपवादः। श्राद्ध इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः,अनभिधानात्। शारदिकं श्राद्धम्। शारदमन्यत्॥
Siddhanta Kaumudi¶
ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥
Balamanorama¶
श्राद्धे शरदः - श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननुकालाट्ठ॑ञित्येव सिद्धे किमर्थमिदमित्यत आह — ऋत्वण इति ।सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि॑ति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् ।
Tattvabodhini¶
श्राद्धे शरदः - श्राद्धमिति । भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः ।प्रज्ञाश्रद्धार्चाभ्योऽणः॑इति मत्वर्थीयेन व्युत्पादितः श्रद्धातान्पुरुषस्तु न गृह्रते, अनभिधानात् ।
Padamanjari¶
श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति’प्रज्ञाश्रद्धार्चा’ इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ।ल्र्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह - अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं ततत्र भवमिति भवे प्रत्यययः ॥
Nyaas¶
ऋत्वणोऽपवादः`इति। सन्धिवेलादिसूत्रेण (4.3.16) प्राप्तस्य। `{श्राद्ध इति न कर्म गृह्रते इत्येव मूलपाठो दृश्यते।श्राद्ध इति कर्म गृह्रते - पदमञ्जरी।} श्राद्धं इति न कर्म गृह्रते इति। क्रियाविशेषः कश्चित् शास्त्रोक्तेन विधिना साध्यः श्राद्धग्रहणेन गृह्रते, न तु श्रद्धावान् पुरुषः। कुत एतत्? तस्य प्रत्ययेनानाभिधानात्। शारदिकशब्देन ह्रभिधानशक्तिस्वाभाव्यात् कर्मण एवाभिधानम्, न पुरुषस्य॥
Prakriyasarvasvam¶
अस्माच्छ्राद्धे वाच्ये ठञ् । शारदिकं श्राद्धम् । शारदोऽन्यः ॥