43018: वर्षाभ्यष्ठक्¶
Padacheda: वर्षाभ्यः | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठक् comes in the remaining senses after the word वर्षा।
Vasu English Translation¶
The affix ठक् comes in the remaining senses after the word वर्षा। This debars अण् of (4.3.16). Thus वार्षिकमनुलेपनम् । The ठक् has the force of साधु &c of (4.3.43) here.
Kashika¶
वर्षाशब्दाट् ठक् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्॥
Siddhanta Kaumudi¶
वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु (SK1418) इति साध्वर्थे ॥
Balamanorama¶
वर्षाभ्यष्ठक् - वर्षाभ्यष्ठक् । तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः,अप्सुमनःसमासिकतावर्षाणां बहुत्व॑मिति लिङ्गानुशासनसूत्रात् ।स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षाषु साध्विति हितकारीत्यर्थः । ननुतत्र साधु॑रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह — कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः ।
Padamanjari¶
वार्षिकं वास इति ।’कालात्साधुपुष्प्यत्पच्यमानेषु’ इति साध्वर्थे ठक् ॥
Nyaas¶
अथ किमर्थं ठग्विधानम्,कालाट् (4.3.11) ठञैव सिद्धत्वात्ुभयत्रापि तदेव रूपमिति? नैवम्; ठकि सति प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्, ठञि तु सति ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वम्॥
Prakriyasarvasvam¶
वार्षिकम् ॥
Sutra Prayogas¶
वार्षिकं (रघुवंशम्): वर्षाभ्यष्ठक् इति ठक्प्रत्ययः।
वार्षिकेषु (रघुवंशम्): वर्षाभ्यष्ठक् इति ठक्प्रत्ययः।