Sutras 41 - 60¶
- 41041: षिद्गौरादिभ्यश्च
- 41042: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
- 41043: शोणात् प्राचाम्
- 41044: वोतो गुणवचनात्
- 41045: बह्वादिभ्यश्च
- 41046: नित्यं छन्दसि
- 41047: भुवश्च
- 41048: पुंयोगादाख्यायाम्
- 41049: इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्
- 41050: क्रीतात् करणपूर्वात्
- 41051: क्तादल्पाख्यायाम्
- 41052: बहुव्रीहेश्चान्तोदात्तात्
- 41053: अस्वाङ्गपूर्वपदाद्वा
- 41054: स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्
- 41055: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च
- 41056: न क्रोडादिबह्वचः
- 41057: सहनञ्विद्यमानपूर्वाच्च
- 41058: नखमुखात् संज्ञायाम्
- 41059: दीर्घजिह्वी च च्छन्दसि
- 41060: दिक्पूर्वपदान्ङीप्