41042: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु

Padacheda: जानपद-कुण्ड-गोण-स्थल-भाज-नाग-काल-नील-कुश-कामुक-कबरात् | S | 5 | 1 |

वृत्ति-अमत्र-अवपन-अकृत्रिम-अश्राणा-अस्थौल्य-वर्ण-अनाच्छादन-अयोविकार-मैथुनेच्छा-केशवेशेषु | S | 7 | 3 |

Sutrartha

जानपद, कुण्ड, गोण, स्थल, भाज, नाग, काल, नील, कुश, कामुक, कबर — एतेभ्यः एकादशभ्यः शब्देभ्यः यथासङ्ख्यम् — वृत्तिः, अमत्रा, आवपना, अकृत्रिमा, श्राणा, स्थौल्यम्, वर्णः, अनाच्छादनम्, अयोविकारः, मैथुनेच्छा, केशवेश — एतेषु अर्थेषु स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । जानपदादिभ्यः एकादशभ्यः प्रातिपदिकेभ्यः वृत्त्यादिषु अर्थेषु स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् — <listsp> 1. “जानपद”-शब्दात् वृत्तिः (उपजीविका, to make a living) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “जानपद + ङीष् → जानपदी वृत्तिः” । “जानपद”-शब्दः अञ्-प्रत्ययान्तः अस्ति अतः अस्मात् टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् अस्मिन् सूत्रे तस्य ग्रहणं कृतम् अस्ति । वृत्तिभिन्नेषु अर्थेषु तु अवश्यं ङीप्-प्रत्ययः विधीयते । 2. “कुण्ड”-शब्दात् अमत्रम् (पात्रविशेषः, to denote name of a specific vessel) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “कुण्ड + ङीष् → कुण्डी” (bowl / pitcher / कमण्डलुः इत्यर्थः) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । 3. “गोण”-शब्दात् आवपनम् (धान्यानां सङ्कलनार्थम् प्रयुक्त: स्यूतः उत पात्रम्, a bag or a vessel used to collect the grains) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “गोण + ङीष् → गोणी” (grain-sack) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । 4. “स्थल”-शब्दात् अकृत्रिमा भूमिः (naturally occurring, not modified land) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “स्थल + ङीष् → स्थली” (grain-sack) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । 5. “भाज”-शब्दात् पक्वम् अन्नम् (cooked food item, like vegetables or rice) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “भाज + ङीष् → भाजी” (cooked, ready to eat food) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । यथा, “भाजा” = अपक्वाः शाकाः । 6. “नाग” इति शब्दात् स्थूला (fat, overweight) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “नाग (गजः) + ङीष् → नागी”(female elephant). “नाग”-शब्दः ‘सर्पः ‘ अस्मिन् अर्थे अपि प्रयुज्यते, परन्तु तत्र स्थूलः इति सन्दर्भः नैव विद्यते अत्र अजन्तलक्षणः टाप्-प्रत्ययः एव भवति, येन “नागा” (सर्पिणी) इति शब्दः सिद्ध्यति । 7. “काल”-शब्दात् वर्णः अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “काल + ङीष् → काली” (a black-colored person or object) । अन्येषु अर्थेषु अजन्तलक्षणः टाप्-प्रत्ययः एव भवति । 8. “नील”-शब्दात् अनाच्छादनम् (आच्छादनभिन्नार्थः / something that is not worn on the body) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । अत्र वार्त्तिककारः अनाच्छादनम्-शब्दस्य अर्थं स्पष्टीकरोति — <!नीलादोषधौ प्राणिनि च; संज्ञायां वा!> । अतः “नील”-शब्दात् ओषधिः अथवा प्राणी अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । एवमेव, संज्ञानिर्देशार्थम् विकल्पेन ङीष्-प्रत्ययः भवति ।यथा, “नील + ङीष् → नीली ओषधिः / नीली वडवा / नीली गौः” । अन्येषु अर्थेषु तु टाप् एव भवति, यथा “नीला शाटिका, नीला नदी, नीला लेखनी” — आदयः । 9. “कुश”-शब्दात् अयोविकारः (लोहनिर्मितम् यन्त्रम्, an instrument made of iron, E.g. axe) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । “कुश + ङीष् → कुशी” । अन्येषु अर्थेषु टाप्-प्रत्ययः एव भवति । 10. “कामुक”-शब्दात् मैथुनेच्छावती (lustful woman) अस्मिन् अर्थे स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । यद्यपि सूत्रे केवलम् “मैथुनेच्छा” इति निर्दिश्यते; तथापि अत्र तद्गुणवत्याः स्त्रियः निर्देशार्थम् एव ङीष्-प्रत्ययः भवति (न हि केवलायाः इच्छायाः निर्देशार्थम्) इति अत्र काशिकाकारेण स्पष्टी क्रियते । यथा “कामुक + ङीष् → कामुकी” (lustful woman) । अन्येषु अर्थेषु तु टाप् एव भवति, यथा “कामुका” = मैथुनभिन्नः कामः (यथा, धनादिकस्य इच्छा) यस्याः वर्तते सा स्त्री । 11. “कबर”-शब्दात् केशवेशवती (a woman with non-conventional hair style) । यद्यपि सूत्रे केवलम् “केशवेशा” इति निर्दिश्यते; तथापि अत्र तद्गुणवत्याः स्त्रियः निर्देशार्थम् एव ङीष्-प्रत्ययः भवति (न हि केवलायाः केशवेशायाः निर्देशार्थम्) इति अत्र न्यासे निर्दिष्टम् अस्ति । यथा “कबर + ङीष् → कबरी” (a woman with non-conventional hair style) । अन्येषु अर्थेषु तु टाप् एव भवति ।

सूत्रनिर्माणम्

प्रकृतसूत्रे विद्यमानयोः शब्दयोः वचनम् भिन्नम् अस्ति । तस्य स्पष्टीकरणम् एतादृशम् —

  1. “जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात्” — इति प्रथमः शब्दः समाहारद्वन्द्वेन निर्मितः अस्ति; अतः अत्र एकवचनम् प्रयुक्तम् अस्ति ।

  2. “वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु” — इति द्वितीयः शब्दः इतरेतरद्वन्द्वेन निर्मितः अस्ति; अतः अत्र बहुवचनम् प्रयुक्तम् अस्ति ।

Vasu English Summary

The affix ङीष् is used after the 11 words जानपद etc. in the sense of ‘profession’ etc. 1. जानप् 2. कुण्ड 3. गोण 4. स्थल 5. भाज 6. नाग 7. काल 8. नील 9. कुश् 10. कामुक and 11 कबर ; the affix ङीष् is employed when the sense is that of 1. ‘profession or living’ 2. ‘a bowl’ 3. ‘a sack or vessel for keeping grain’ 4. ‘a natural spot of ground’ 5. ‘a cooked food or rice-gruel’ 6. ‘stout’ 7. ‘black-coloured’ 8. ‘blue-coloured other than cloth’ 9. ‘a plough-share’ 10. ‘a libidinous female’ 11. ‘a fillet or braid of hair’, respectively.

Vasu English Translation

The affix ङीष् is used after the 11 words जानपद etc. in the sense of ‘profession’ etc. 1. जानप् 2. कुण्ड 3. गोण 4. स्थल 5. भाज 6. नाग 7. काल 8. नील 9. कुश् 10. कामुक and 11 कबर ; the affix ङीष् is employed when the sense is that of 1. ‘profession or living’ 2. ‘a bowl’ 3. ‘a sack or vessel for keeping grain’ 4. ‘a natural spot of ground’ 5. ‘a cooked food or rice-gruel’ 6. ‘stout’ 7. ‘black-coloured’ 8. ‘blue-coloured other than cloth’ 9. ‘a plough-share’ 10. ‘a libidinous female’ 11. ‘a fillet or braid of hair’, respectively. Thus जानपदी ‘a profession’, otherwise जानपदी, the difference being in accent only. For this word is formed by adding the affix अञ् to janapada, by sutra (4.1.86), as it belongs to Utsadi class of words: in forming the feminine the affix ङीप् will be added in this latter case, thus throwing the acute accent on the first syllable.

  1. So also कुण्डी ‘bowl-shaped vessel’, otherwise कुण्डा ‘a name of Durga’. (3) गोणी ‘a sack’ यत्र धान्यादि प्रक्षिप्य नीयते otherwise गोणा, a particular name. (4) स्थली ‘a place not prepared by artificial improvement’; otherwise स्थला as स्थलयोदकं परिगृह्णन्ति ॥ (5) भीजा ‘cooked’, otherwise भाजा, (6) नागा ‘a stout woman’, otherwise नागा ॥ The word नाग when a guna-vachana word i.e a word expressive of quality, in the sense of ‘stoutness’, takes the affix nish in the feminine; otherwise टाप् when expressing general qualities. When it is a jati-vachana word it takes ङीप् under all circumstances. (7) काली ‘a black-coloured female’, otherwise काला ‘cruel’ (8) नीली ‘a blue-coloured animal or indigo’ The word अनाच्छादन in the sutra is rather too wide, it should be confined to the two senses above indicated i. e. when it applies to a plant called indigo or to animals’. Such as नालागौः, or नीली वडवा; or when it denotes appellative as नीली ॥ In other cases we have नीला ‘a blue-coloured cloth’. (9) कुशी ‘a plough share’, otherwise कुशा ‘a rope or a kind of grass’ (10) कामुकी ‘a libidinous or lustful woman’ otherwise कामुका ‘a woman desirous of wealth’. (11) कबरी ‘a fillet or braid of hair’, otherwise कबरा ‘mixed, variegated’.

Bhashya

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् (1304) वृत्त्यमत्रावपनाकृत्रिमाश्राणआस्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु (5166 नियमवार्तिकम्॥ 1 ॥) - नीलादोषधौ - (भाष्यम्) नीलादोषधाविति वक्तव्यम्। नीली ओषधिः॥ (5137 विधिवार्तिकम्॥ 2 ॥) - प्राणिनि च - (भाष्यम्) प्राणिनि चेति वक्तव्यम्। नीली गौः, नीली वडवा॥ (5168 विकल्पवार्तिकम्॥ 3 ॥) - वा संज्ञायाम् - (भाष्यम्) वा संज्ञायामिति वक्तव्यम्। नीली, नीला॥

Kashika

जानपदादिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासंख्यं ङीष् प्रत्ययो भवति। जा॒न॒प॒दी भवति वृत्तिश्चेत्। जान॑पदी अन्या। स्वरे विशेषः। उत्सादिपाठादञि कृते ङीप्, आद्युदात्तत्वं भवति। कुण्डी भवति, अमत्रं चेत्। कुण्डान्या। गोणी भवति,आवपनं चेत्। गोणान्या। स्थली भवति, अकृत्रिमा चेत्। स्थलान्या। भाजी भवति, श्राणा चेत्। पक्वेत्यर्थः। भाजान्या। नागी भवति, स्थौल्यं चेत्। नागान्या। नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम्। जातिवचनात् तु जातिलक्षणो ङीषेव भवति। नागी। काली भवति, वर्णश्चेत्। कालान्या। नीली भवति, अनाच्छादनं चेत्। नीलान्या। न च सर्वस्मिन्नाच्छादन इष्यते। किं तर्हि? नीलादोषधौ, प्राणिनि च। नीली ओषधिः। नीली गौः। नीली वडवा। संज्ञायां वा । नीली, नीला। कुशी भवति, अयोविकारश्चेत्। कुशान्या। कामुकी भवति, मैथुनेच्छा चेत्। कामुकान्या। मैथुनेच्छावती भण्यते, नेच्छामात्रम्। कबरी भवति, केशवेशश्चेत्। कबरान्या॥

Siddhanta Kaumudi

एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वे टिड्ढा (SK470) इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । गुरोश्च हलः (SK3280) इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः ॥<!नील्या अन्वक्तव्यः !> (वार्तिकम्) ॥ इत्यन् । अनाच्छादनेऽपि न सर्वत्र किंतु ।<!नीलादौषधौ !> (वार्तिकम्) ॥ नीली ।<!प्राणिनि च !> (वार्तिकम्) ॥ नीली गौः ।<!संज्ञायां वा !> (वार्तिकम्) ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥

Balamanorama

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु - जानपद । जानपदेत्यादि कबरादित्यन्तमेकं पदम् । समाहारद्वन्द्वात्पञ्चमी । जानपदीति । जनपदे भवेत्यर्थः । वृत्तिश्चेदिति । जीविका गम्या चेदित्यर्थः । ननूत्सादित्वादञि ङीपैव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — उत्सादित्वादिति ।अनुदात्तौ सुप्पितौ॑ इति ङीप्याद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति । पिठरं स्थाल्युखा कुण्डम् इत्यमरः ।पात्राऽमत्रे च भाजन॑मिति च कुण्डशब्दस्य स्त्रीत्वमपि ङीष्विधिसामर्थ्यात् ।पिठरे तु न ना कुण्ड॑मिति विआः । कुण्डाऽन्येति । दहनीयेत्यर्थः । तदेव विशदयति-कुडि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोरप्रत्ययः स्याद्भावकर्णणोः स्त्रियामिति तदर्थः । ननुअमृते जारजः कुण्डो मृते भर्तरि गोलकः॑ इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह — यस्त्विति । जातिलक्षण इति । जातेरस्त्रीविषया॑दिति जातिनिमित्तर इत्यर्थः । नन्वमत्रेऽपि वाच्ये कुण्डशब्दाज्जातिलक्षणङीषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव ङीषिति नियमार्थं तदिति वाच्यम्, एवं सति मनुष्यजातिविशेषवाचित्वे ङीषोऽनुत्पत्तेरित्यत आह — अमत्रे हीति ।जातेरस्त्रीविषया॑दित्यनित्यस्त्रीलिङ्गान्ङीष् विहितः । अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः,पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्व॑मिति स्वीकारात् ।कुण्डी कमण्डलौ जारात्पतिपत्नीसुते पुमान् इति मेदिनीकोशाच्च । तथाच कुण्डशब्दाज्जातिलणङीषप्राप्त #एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि ङीष् निर्बाध इति भावः । आवपनं चेदिति । ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्पूर्वाद्वपेर्ल्युट् । गोणाऽन्येति । कस्याश्चिदिदं नाम । अकृत्रिमा चेदिति । इदामीन्तनपुरुषपरिष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः । स्थलाऽन्येति । कृत्रिमेत्यर्थः ।स्थलयोदकं परिगृह्णन्ति॑ इति यजुर्वेदे । भाजीति । भज्यते सेव्यते इति कर्मणि घञ् । ‘घञजबन्ताः पुंसि’ इति तु प्रायिकम् । श्राणा चेदिति ।यवागूरुष्णिका श्राणा॑ इत्यमरः । भूजाऽन्येति । अश्राणेत्यर्थ #ः ।श्रा पाके॑क्तः ।संयोगादेरातो धातोर्यण्वतः॑ इति निष्ठानत्वम्, णत्वं च । पक्तेत्यर्थः । नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह — गजवाचीति । वर्णश्चेदिति । वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः । वर्णविशिष्टा चेदिति यावत् । अन्यथा कालशब्दस्यगुणे शुक्लादयः पुंसि॑ इति पुंस्त्वापात्तात् । सूत्रे वर्णा इति च्छेदः । अर्शाअद्यजन्तट्टाप् । कालाऽन्येति । क्रौर्ययुक्तेत्यर्थः । संज्ञाशब्दो वा । अनाच्छादनं चेदिति । वस्त्रभिन्नं गवादिकमित्यर्थः । नीलाऽन्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषोऽप्रसक्तिरेव,नीलादोषधौ, प्राणिनि चे॑ति नियमस्य वक्ष्यमाणत्वादित्यत आह — नील्यारक्तेति । नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह — नील्या अनिति ।तेन रक्तं रागा॑दित्यत्रेदं वार्तिकम् । नीलीशब्दादन्प्रत्यये सतियस्येति चे॑ति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात्नीलादोषधौ प्राणिनि चे॑ति नियमे सत्यपि ङीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छदानाग्रहणमिति भावः । ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वान्ङीष् स्यादित्याशङ्क्य आह — अनाच्छादनेऽपीति ।नीवादोषधौ प्राणिनि चे॑ति वार्तिकमेतत् । नीलादनाच्छादनेऽपि भवन्ङीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः । एवं च नीला कुण्डीत्यादौ न ङीषिति भावः । ‘संज्ञायां वा’ इत्यपि वार्तिकम् । संज्ञायामुक्त विषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः । अयोविकारश्चेदिति । फाला इति प्रसिद्धः । कुशाऽन्येति छन्दोगसूत्रेप्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसूत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वक्तस्समाभज्जते॑ इति प्रसिद्धा । कामुकीति । कामयितुं शीलमस्या इति विग्रहेलषपते॑त्यादिना कमेरुकञ् । मैथुनेच्छावती चेदित्यर्थः । अर्शाअद्यजन्ताट्टाप् । कामुकान्येति । धनादीच्छावतीत्यर्थः ।

Tattvabodhini

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु - जानपदीति । जनपदे भवा । वृत्तिश्चेदिति । वर्ततेऽनयेति वृत्तिर्जीविका.कुण्डीति ।अस्त्री कमण्डलुः कुण्डी॑त्यमरः । कुण्डाऽन्येति । क्रियाशब्दोऽयम् । अत एवाह — कुडि दाह इत्यादि । यस्तु घटपर्यायः कुण्डशब्दः स न प्रत्युदाहरणम् ।पठिरः स्थाल्युखा कुण्ड॑मिति तस्य नपुंसकत्वात् । अग्न्यालयादिपर्यायोऽपि कुण्डशब्दो नपुंसकलिङ्गे नियतः ।कुण्डमग्न्यालये मानभेदे देवलाशये॑इति मेदिनीकोशात् । आवपनं चेदिति । आङ्पूर्वाद्वपेरधिकरणे ल्युट् । ओप्यते निक्षिप्यते धान्यं यस्मिन् । गोणाऽन्येति । यस्या यादृच्छिकं नाम । अकृत्रिमेति । यथासैषा स्थली यत्र विचिन्वता त्वा॑मिति स्थलाऽन्येति । कृत्रिमा — पुरुषेण संस्कृता । श्राणा — पक्वा ।प्राणिनि च । अयोविकार इति ।फाल॑इति प्रसिद्धः । कुशाऽन्येति । छन्दोगाः स्तोत्रीयागणनार्थानौदुम्बरान् शङ्कून्कुशा॑इति व्यवहरन्ति ।अतःकृकमी॑ति सूत्रे प्रसिद्ध एवाऽयम् । कामुकाऽन्येति । मैथुनादन्यद्धनादिकं कामयितुं यस्याः शीलं सेत्यर्थः ।लषपते॑त्युकञ् ।

Padamanjari

वर्ततेऽनया सा वृत्तिः उ जीविका । स्वरे विशेष इति । तमेव दर्शयति - उत्सादिपाठादञि कृत इति । अमत्रमुभाजनम् । कुण्डान्येति । क्रियाशब्दोऽयम् ।’कुडि दाहे’ ,’गुरोश्च हलः’ इत्यकारप्रत्ययः । अवटपर्यायस्तु कुण्डशब्दो नपुंसके नियतः । यस्तु’पत्यौ जीवति कुण्डः स्यात्’ इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव - कुण्डीयं न गोलीति । अमत्रवाचिनस्तु जातिशब्दादपि स्त्रीविषयत्वान्ङीष् विधीयते । आवपनं चेदिति । यत्र धान्यादि प्रक्षिप्य नीयते सा गोणी, यस्याः पुनर्यादृच्छिकं नाम सा गोणा । स्थलान्येति । कृत्रिमा पुरुषव्यापारेण निष्पादिता, यथा - स्थलयोदकं परिगृह्णन्तीति । भाजीति ।’भज विश्राणने’ चुरादिः,’ण्यासश्रन्थो युच्’ इति युचि प्राप्तेऽसमादेव निपातनात् स्त्रियामप्येरच् । श्राणेति ।’श्रा पारे’ , क्तः,’संयोगादेः’ इति नत्वम् । स्थौल्यं चेदिति । द्रव्ये वर्तमानस्य नागशब्दस्य स्थौल्यं चेत्प्रवृत्तिनिमितमित्यर्थः । नागशब्दो गुणवचन इति । गजवाची नागशब्दस्तत्सहचरितं स्थोल्यमुपादाय स्त्र्यन्तरे प्रयुक्त उदाहरणम् । सर्पे दृष्टस्तद्गतं दैर्घ्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणमित्यर्थः । वर्णश्चेदिति । प्रवृत्तिनिमितमित्यर्थः । कालान्येति । यस्या यादृच्छिकीयं संज्ञा । नीलान्येति । नील्या रक्ता शाटी,’नील्या अन्वक्तव्यः’ इत्यन् । अयोविकारश्चेदिति ।’फाल’ इति यस्याभिधानम् । कुशान्येति । च्छन्दोगाः स्तोत्रिया गणनार्थानौदुम्बरान् शङ्कून’कुशा’ इति व्यवहरन्ति । कामुकान्येति । यस्या मैथुनादन्यत्कामयितुं शीलम् । मैथुनेच्छावतो भण्यत इति । कामुकशब्दस्य’लषपतपद’ इति कर्तरि व्युत्पादितत्वात्, इच्छामात्रे वृत्यभावात् । सूत्रे तु प्रवृत्तिनिमितमात्रं निष्कृष्योक्तम् । मैथुने इच्छा यस्याः सा मैथुनेच्छेति व्यधिकरणपदो बहुव्रीहिराश्रयणीय इति भावः । केशवेश इति । केशसन्निवेशविशेष इत्यर्तः ॥

Nyaas

वर्तते यया सा वृत्तिरिति जीवनोपायो वृत्तिशब्देनेहोच्यते। जनपदे भावा वृत्तिर्जानपदी। उत्सादिभ्योऽञ् (4.1.86) इत्यञ्। जनापद्यन्या इति।टिड्ढाणञ् (4.1.15) इति ङीबेव भवति। स्वरे विशेषः इति। ङीषि सति प्रत्ययस्वरेणान्तोदात्तत्वं भवति। ङीपि तु सत्याद्युदात्तत्वम्; जानपदस्य ञित्स्वरेणाद्युदात्तत्वात्। अमत्रम् इति। भाजनम् = पात्रम्। कुण्डाऽन्या इति। क्रियाशब्दोऽयमित्याहुः।कुडि दाहे (धातुपाठः-270), गुरोश्च हलः (3.3.103) इत्यकारतप्रत्ययः,`अजाद्यतष्टाप्` (4.1.4) । यस्तु द्रव्यवचनः कुण्डशब्दः स नित्यं नुपंसक एव वर्तत इति प्रत्युदाहर्त्तुं न युक्त इति। आवपनम् इति। भाजनविशेष उच्यते, यत्र धान्यादि प्रक्षिप्य नीयते। गोणाऽन्या इति। सा पुनर्यस्या इदं यादृच्छिकं नाम। अकृत्रिमा इति। पुरुषव्यापारदिभिर्न निर्वृत्तेत्यर्थः। स्थलाऽन्या इति। या पौरुषेयी। भाजी इति। भज विश्राणने (धातुपाठः-1733) चुरादिणिच्। ण्यासश्रन्थो युच् (3.3.107) इति युच् प्राप्नोति। अस्मादेव निपातनादङ्, अङन्तान्ङीष्। श्राणा इति। श्रा पाके (धातुपाठः-810) इत्यस्मात् क्तः। {संयोगादेरातो धातोर्यण्वतः`इति सूत्रम्}संयोगादेर्धातोर्यण्वतः` (8.2.43) इतिनत्वम्, अट्कुप्वाङनुम्व्यवायेऽपि (8.4.2) इति णत्वम्। नागशब्दः इत्यादि। नागशब्दो द्विविधः - जातिवचनः, गुणवचनश्च। ततर् स्थौल्यग्रहणादिह न जातिवचनो ङीषमुत्पादयति, न हि जातिवचनस्य स्थौल्यमभिधेयं सम्भवति; नापि गुणान्तरवचनः; न हि गुणान्तरशब्दान्नागवचनान्ङीषन्ताद्गुणान्तरं प्रतीयते, अपि तु स्थौल्यमेव। तस्माद्यदाऽसौ स्थौल्यं गुणमभिधाय द्रव्ये वर्तते तदा ङीषमुत्पादयति, नान्यथा। अन्यत्र इत्यादि। स्थौल्यादग्यत्र गुण एव दैध्र्यादौ वर्तमानो नागशब्दो यदा द्रव्यं विशिनाष्टि तदा टापमुत्पादयति। जातिवचनात्तु इत्यादि। हस्तित्वादिजातिवचनात् जातरेस्त्रीविषयात् (4.1.63) इत्यादिना ङीष्भवति। वर्णश्चेत् इति। द्रव्ये वर्तमानो यदि वर्णस्तस्य प्रयृत्तिनिमित्तं भवतीत्यर्थः। कालाऽन्या इति। यस्या यादृटच्छिकसंज्ञा। नीलाऽन्या इति। आच्छादनं शाटिकादि। अनाच्छादने, न सर्वत्र। किं तर्हि? नीलादौषदधौ प्राणिनि च इति। शब्दशक्तिस्वाभाव्यात्,तत्रैव नीलशब्दस्य वृत्तेः। अथ वा मनोरौ वा (4.1.38) इत्यतो वाग्रहणमिहानुवर्तते, सा च व्यवस्थितविभाषा , तेनानयोरेवार्थयोस्ततो भविष्यति, नान्यत्रेति। संज्ञायामेव इति। अनाच्छादन एवायं विकल्पः। एषोऽपि तत एव वाग्रहानुवृत्तेर्लभ्यते। अयोविकारः इति। विशिष्ट एव फालः इति यस्य नामधेयम्। कुशाऽन्या इति। तदाकृतिरेव काष्ठादिमयी। कामुकाऽन्या इति। सा पुनर्यस्या मैथुनादन्यद्वस्तु कामयितुं शीलम्। मैथुनेच्छवती भण्यते इति। मत्वर्थीयाकारान्तस्य मैथुनेच्छाशब्दस्योपादानात्। केशवेशः`इति। एतदाख्ये विशिष्ट एव। `कवराऽन्या इति। वर्णोऽस्या` अस्तीति मतुप्, तस्या लोपादभेदोपचाराद्वा द्रव्ये यो वर्तते स वेदितव्यः॥

Praudhamanorama

आवपनं चेदिति। ओप्यते निक्षिप्यते धान्यं यस्मिन्। गोणान्येति। यस्या यादृच्छिकं नाम। अकृत्रिमेति। यथा—‘सैषा स्थली यत्र विचिन्वता त्वाम्’ इति। स्थलान्येति। कृत्रिमा- पुरुषेण संस्कृता। यथा- स्थलयोदकं परिगृह्णन्ति। श्राणा -पक्वा। अयोविकार इति। फाल इति प्रसिद्धः। कुशान्येति। छन्दोगाः स्तोत्रीयगणनार्थान् औदुम्बरान् शङ्कून् कुशा इति व्यवहरन्ति, ‘अतः कृकमिकंस’ इति सूत्रे, ‘हानौ तूपायनेति’ व्याससूत्रे, ‘कुशा वानस्पत्या स्थ ता मा पात’ इति श्रुतौ च प्रसिद्ध एवायम्।

Vartika

नीलादोषधौ प्राणिनि च ।

Sutra Prayogas

  • स्थली (रघुवंशम्): जानपदकुण्डगोणस्थल- इत्यादिना अकृत्रिमार्थे ङीष्।

  • स्थलीम् (रघुवंशम्): जानपदकुण्डगोणस्थलभाजनागनागरादपः इत्यादिना ङीप्।

  • स्थलीम् (कुमारसम्भवम्): जानपदकुण्डगोणस्थल… इत्यादिना ङीष्।

  • स्थलीं (किरातार्जुनीयम्): जानपदकुण्डगोण… इत्यादिना अकृत्रिमार्थे ङीप् ।

  • स्थलीर् (किरातार्जुनीयम्): जानपद- इत्यादिना अकृत्रिमार्थे ङीप्।

  • काली (किरातार्जुनीयम्): जानपदकुण्डगोण… इत्यादिना ङीप् ।

  • स्थलीः (किरातार्जुनीयम्): जानपदकुण्डगोण… इत्यादिना अकृत्रिमार्थे ङीप्।

  • कनकस्थलीः (शिशुपालवधम्): जानपद- इत्यादिना अकृत्रिमार्थे ङीष्।

  • स्थलीषु (शिशुपालवधम्): जानपदकुण्ड… इत्यादिना अकृत्रिमार्थे ङीष्प्रत्ययः।

  • कबरीं (शिशुपालवधम्): जानपदकुण्डगोण… इत्यादिना ङीष्।

  • कबरी (शिशुपालवधम्): जानपद- इत्यादिना ङीप्।

  • कालीः (शिशुपालवधम्): जानपद… इत्यादिना ङीप्।