41048: पुंयोगादाख्यायाम्¶
Padacheda: पुम्-योगात् | S | 5 | 1 |
आख्यायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The feminine affix ङीष् comes after a word when it expresses the name of a wife in relation to her husband.
Vasu English Translation¶
The feminine affix ङीष् comes after a word when it expresses the name of a wife in relation to her husband. Relation (yoga) with a male (punsa) is called पुंयोग ॥ Thus the wife of गणक ‘an astrologer’ is called गणकी, so also महामात्री ‘the wife of a chief minister’, प्रष्ठी ‘the wife of a chief’; प्रचरी &c. Thus the word गणक means an astrologer, a calculator or a mathematician; and the wife of such a person will be expressed by the word गणकी ॥ But if a woman is herself an astrologer &c, she will be called गणका ॥ (by टाप्) &c. Therefore when matrimonial relation is not denoted, this sutra will not apply.
Why do we say ‘in relation to a husband’? Observe देवदत्ता यज्ञदत्ता ‘two women of the names of Devadatta, and Yajnadatta, not wives of Devadatta and Yajnadatta.’
Why do we say “आख्या or a name”? The word formed will be the name of a woman whose husband is possessed of the quality denoted by the word, and not that the woman possesses that quality. In the case of a woman, therefore, the word is merely a Name or a Designation, and has no reference to the etymological meaning of the word. Moreover, the omission of the word आख्यायाम् would have made the sutra ambiguous, for the phrase पुं योगाद् also means ‘an effect produced by union with a man’ such as pregnancy. And words परिसृष्टा and प्रजाता would have required ई and not आ ॥
Vart:- Prohibition must be stated in the case of words like गोपालिक and the rest. Thus गोपालिका ‘the wife of a cow-herd’.
Vart: The affix चाप् comes after सूर्य in denoting the wife of Surya, when she is a celestial being. As सूर्या ‘the celestial wife of the god Surya’, while सूरी will denote a human wife of Surya, such as, Kunti &c. The affix चाप् makes the word acutely accented on the final: for the word सूर्य has acute on the initial, and had ङीष् been only prohibited and no specific affix ordained, then टाप् would have applied, and it would have left the accent unchanged. Hence a distinct affix चाप् is ordained.
Bhashya¶
पुंयोगादाख्यायाम् (1306) (ङीषधिकरणम्) (5171 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - गोपालिकादीनां प्रतिषेधः - (भाष्यम्) गोपालिकादीनां प्रतिषेधो वक्तव्यः -गोपालिका, पशुपालिका॥ किं पुनरिहोदाहरणम्? प्रष्ठी, प्रचरी॥ (आक्षेपभाष्यम्) कथं पुनरयं प्रष्ठशब्दोऽकारान्तः स्त्रियां वर्तते?। (समाधानभाष्यम्) तस्येदमित्यनेनाभिसंबन्धेन। यथैव ह्यसौ तत्कृतान् स्रानोद्वर्तनपरिषेकान् लभते, एवं प्रष्ठशब्दमपि लभते॥ (समाधानाक्षेपभाष्यम्) यद्येवं, (5172 आक्षेपसाधकवार्तिकम्॥ 2 ॥) - पुंयोगादाख्यायां तद्धितलुग्वचनम् - (भाष्यम्) पुंयोगादाख्यायां तद्धितस्य लुग् वक्तव्यः। तस्येदम् (4.3.12) इति प्राप्नोति॥ न तर्हीदानीमिदं भवति -प्राष्ठ्य इमाः, प्राचर्य इमा इति। भवति च। विभाषा लुग् वक्तव्यः। यदा लुक् तदा प्रष्ठी, यदा न लुक् तदा प्राष्ठी॥ (वार्तिकान्यथासिद्धिपरभाष्यम्) यद्येवं नार्थो लुका, विभाषा तद्धितोत्पत्तिः। यदा तद्धितोत्पत्तिः -तदा-प्राष्ठी। यदा न तद्धितोत्पत्तिः -तदा -प्रष्ठी॥ (वार्तिकप्रयोजनबोधकभाष्यम्) एवमपि लुग् वक्तव्यः। न ह्यन्तरेण तद्धितस्य लुकं परार्थे शब्दो वर्तते॥ (प्रत्याक्षेपभाष्यम्) यदि पुनस्तस्यामेव प्रष्ठशब्दो वर्तेत। कथं पुनस्तस्यामेवाप्रतिष्ठमानायां प्रष्ठशब्दो वर्तते? यथैव ह्यसावकुर्वती किंचित्पापं भर्तृकृतान् वधबन्धनादिक्लेशान् लभते, एवं प्रष्ठशब्दमपि लभते॥ (5173 पूर्वपक्षवार्तिकम्॥ 3 ॥) - सुबन्तसमासवचनाच्चाकारान्तानुपपत्तिः - (भाष्यम्) सुबन्तसमासवचनाच्चाकारान्तता नोपपद्यते। सुबन्तानां समासस्तत्रान्तरङ्गत्वाट्टाप्। टाप्युत्पन्ने समासः। स्थाशब्दः समस्येत। तत्र पुंयोगादाख्यायामकारान्तादितीकारो न प्राप्नोति॥ (5174 समाधानवार्तिकम्॥ 4 ॥) - सिद्धं तु स्त्रियाः पुंशब्देनाभिधानात् - (भाष्यम्) सिद्धमेतत्। कथम्? स्त्रियाः पुंशब्देनाभिधानात्। स्त्री पुंशब्देनाकारान्तेनाभिधीयते॥ (प्रथमवार्तिकोक्ताक्षेपनिरासभाष्यम्) ननु चोक्तं पुंयोगादाख्यायां तद्धितलुग् वचनमिति॥ नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति -नातस्तद्धितोत्पत्तिर्भवतीति, यदयं पुंयोगादाख्यायामिति ईकारं शास्ति॥ (ज्ञापकाक्षेपभाष्यम्) नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। येऽनीकारास्तद्धितास्तदर्थमेतत्स्यात्॥ (ज्ञापकसाधकभाष्यम्) यत्तर्ह्याख्याग्रहणं करोति। न हि तद्धितान्तमाख्या भवति॥ (तृतीयपक्षोपस्थापकं भाष्यम्) अथ वा पुनरस्तु -तस्येदमित्यनेनाभिसंबन्धेन। ननु चोक्तम् -पुंयोगादाख्यायां तद्धितलुग्वचनमिति। नैष दोषः। नावश्यमयमेवाभिसंबन्धो भवति -तस्येदमिति। अयमप्यभिसंबन्धो भवति -सोऽयमिति। कथं पुनरतस्मिन् सः इत्येतद्भवति? चतुर्भिः प्रकारैरतस्मिन् सः इत्येतद्भवति - तात्स्थ्यात्, तार्द्धम्यात्, तत्सामीप्यात्, तत्साहचर्यादिति। तात्स्थ्यात्तावत् -मञ्ञ्चा हसन्ति, गिरिर्दह्यते॥ तार्द्धम्यात् -जटिनं यान्तं ब्रह्मदत्त इत्याह। ब्रह्मदत्ते यानि कार्याणि जटिन्यपि तानि क्रियन्त इत्यतो जटी ब्रह्मदत्त इत्युच्यते॥ तत्सामीप्याद् -गङ्गायां घोषः, कूपे गर्गकुलम्॥ तत्साहचर्यात् -कुन्तान् प्रवेशय, यष्टीः प्रवेशयेति॥ (द्वितीयवार्तिकखण्डनभाष्यम्) अथ वा पुनरस्तु तस्यामेव प्रष्ठशब्दः। ननु चोक्तम् -सुबन्तसमासवचनाच्चाकारान्तानुपपत्तिः इति। नैष दोषः॥ (5175 परिभाषावार्तिकम्॥ 5 ॥) - गतिकारकोपपदानां कृद्धिः सह समासवचनम् - (भाष्यम्) गतिकारकोपपदानां कृदि्भः सह समासो भवतीत्येषा परिभाषा कर्तव्या॥ (परिभाषाप्रयोजनभाष्यम्) कानि पुनरस्याः परिभाषायाः प्रयोजनानि? (5176 प्रयोजनवार्तिकम्॥ 6 ॥) - प्रयोजनं क्तादल्पाख्यायाम् - (भाष्यम्) अभ्रविलिप्ती, सूपविलिप्ती। सुबन्तानां समासः। तत्रान्तरङ्गत्वाट्टाप्। टाप्युत्पन्ने समासः। विलिप्ताशब्दः समस्येत। तत्र क्तादल्पाख्यायाम्, (4.1.51) अकारान्तादिति ङीष् न प्राप्नोति॥ (5177 द्वितीयं प्रयोजनवार्तिकम्॥ 7 ॥) - जातेर्ङीष्विधाने - (भाष्यम्) जातेर्ङीष्विधाने प्रयोजनम् -व्याघ्री, कच्छपी। सुबन्तानां समासः। तत्रान्तरङ्गत्वाट्टाप्युत्पन्ने समासः। घ्राशब्दः समस्येत। तत्र जातेरस्त्रीविषयादयोपधात् (4.1.63) अकारान्तादिति ङीष् न प्राप्नोति॥ (5178 तृतीयं प्रयोजनवार्तिकम्॥ 8॥) - समासान्तस्य णत्वे - (भाष्यम्) समासान्तस्य णत्वे प्रयोजनम्। वक्ष्यति -प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तप्रतिषेधार्थमिति। तस्मिन् क्रियमाणे -माषवापिणी, व्रीहिवापिणी। सुबन्तानां समासः। तत्रान्तरङ्गत्वान्नकारान्तत्वान्ङीप्। ङीप्युत्पन्ने समासः। वापिनीशब्दः समस्येत। तत्र समासान्तस्येति णत्वं न प्राप्नोति॥ (5179 चतुर्थं प्रयोजनवार्तिकम्॥ 9 ॥) - कृदन्तात्तद्धिते वृद्धिस्वरौ च - (भाष्यम्) कृदन्तात्तद्धिते वृद्धिस्वरौ च प्रयोजनम्। सांकूटिनम्, व्यावक्रोशी। अत्रावयवादुत्पत्तिः प्रसज्येत। गतिकारकोपपदानां कृदि्भः सह समासो भवतीति न दोषो भवति॥ (परिभाषाऽऽक्षेपभाष्यम्) सत्यामप्येत्सयां परिभाषायामवयवादुत्पित्तिः प्राप्नोति। किं कारणम्? प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति॥ (परिभाषान्तरेण समाधानभाष्यम्) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति संघातादुत्पत्तिर्भविष्यति॥ (परिभाषान्तरेण परिभाषाखण्डनभाष्यम्) यदि तर्ह्येषा परिभाषास्ति, नैतदस्याः परिभाषायाः प्रयोजनं भवति, एतयैव सिद्धम्॥ (परिभाषोपपादकभाष्यम्) न सिध्यति। किं कारणम्? अप्रातिपदिकत्वात्। कृत्त्वात् प्रातिपदिकसंज्ञा भविष्यति॥ ननु चेदानीं प्रातिपदिकसंज्ञायामप्येतया परिभाषया इह शक्यमुपस्थातुम्। नेत्याह। इह हि मूलकेनोपदंशं भुङ्क्ते इति वाक्येऽपि लुक् प्रसज्येत्॥ स्वरे च दोषः स्यात् -प्रकारकः, प्रकरणम्। गतिकारकोपपदात् कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो न स्यात्॥ नैष दोषः। द्वे अत्र प्रातिपदिकसंज्ञे, अवयवस्यापि समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसंज्ञा तदाश्रयः स्वरो भविष्यति॥ (दोषापादकभाष्यम्) इहापि तर्हि -सांकूटिनं, व्यावक्रोशीति द्वे अत्रापि प्रातिपदिकसंज्ञे, अवयवस्यापि समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसंज्ञा तदाश्रया अवयवादुत्पत्तिः प्रसज्येत॥ (आक्षेपभाष्यम्) अवयवादुत्पत्तौ सत्यां को दोषः? कौम्भकारेयो न सिध्यति, अवयवस्य वृद्धिस्वरौ स्याताम्। (सिद्धान्तभाष्यम्) तस्मात्प्रयोजनमेवैतदस्याः परिभाषायाः, उभाभ्यां तु खलु सिध्यति॥ (5180 प्रासङि्गकपूर्वपक्षवार्तिकम्॥ 10 ॥) अवदातायां तु ङीप्प्रसङ्गः॥ (भाष्यम्) अवदातायां ङीप् प्राप्नोति। अवदाता ब्राह्मणी। वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति॥ (समाधानभाष्यम्) नैष वर्णवाची। किं तर्हि? विशुद्धवाची। आतश्च विशुद्धवाची॥ एवं ह्याह - त्रीणि यस्यावदातानि विद्या योनिश्च कर्म च। एतच्छिवं विजानीहि ब्राह्मणाग्र्यस्य लक्षणम्॥ इति। (अतिव्याप्तिपरिहारभाष्यम्) सूर्याद्देवतायां चाब् वक्तव्यः -सूर्यस्य स्त्री -सूर्या। देवतायामिति किमर्थम्? सूरी॥
Kashika¶
पुंसा योगः पुंयोगः। पुंयोगात् हेतोर्यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतम्, तस्माद् ङीष् प्रत्ययो भवति। गणकस्य स्त्री गणकी। महामात्री। प्रष्ठी। प्रचरी। पुंसि शब्दप्रवृत्तिनिमित्तस्य संभवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते। पुंयोगादिति किम्? देवदत्ता। यज्ञदत्ता। आख्याग्रहणं किम्? परिसृष्टा। प्रजाता। पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते॥ गोपालिकादीनां प्रतिषेधः॥ गोपालकस्य स्त्री गोपालिका॥ सूर्याद् देवतायां चाब् वक्तव्यः॥ सूर्यस्य स्त्री देवता सूर्या। देवतायामिति किम्? सूरी॥
Siddhanta Kaumudi¶
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी ।<!पालकान्तान्न !> (वार्तिकम्) ॥ गोपालिका । अश्वपालिका ।<!सूर्याद्देवतायां चाप् वाच्यः !> (वार्तिकम्) ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥
Laghu Siddhanta Kaumudi¶
यापुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्। गोपस्य स्त्री गोपी। पालकान्तान्न (वार्त्तिकम्) -
Balamanorama¶
पुंयोगादाख्यायाम् - पुंयोगात् । पुंयोगादिति हेतौ पञ्चमी । आख्यायामिति पञ्चम्याः सप्तम्यादेशः,सुपां स्थाने सुपो भवन्तीति वक्तव्य॑मित्युक्तेः । आख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचक इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात्पुंस इति लभ्यते । तथाच आख्यायामित्यनेन पुंसि प्रसिद्धाच्छब्दादिति लभ्यते । पुंयोगादिति स्त्रियामित्यत्रान्वेति । तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदा — या पुमाख्येत्यादिना । ङीषिति । ‘अन्यतो ङीष्’ इत्यतस्त दनुवृत्तेरिति भावः ।वोतो गुणवचना॑दिति पूर्वसूत्रे तुगुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकान्ङीप् लब्ध इति न तत्राऽस्यानुवृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः,आतोऽनुपसर्गे कः॑ । तज्जायायां तु गोरक्षणाऽभावेऽपि तद्भार्यात्वात्तद्व्यपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वान्ङीषियस्येति चे॑त्यकारलोप इति भावः । हरेः स्त्री, शम्भोः स्त्रीत्यादौ न ङीष्, स्त्रीप्रत्ययविधिप्रकरणेऽत इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा । तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता आश्रूः मातुलानी वा गौपीति स्यादिति वाच्यम्,अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपी॑ति बाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि कैकयी देवकीत्यादयस्तु गौरादौ पाठआ इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम् । प्रसूता । अयं हि शब्दो जातप्रसवामाहा । स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष् । अत्रगोपालकादीनां प्रतिषेधः॑ इति वार्तिकम् । अत्र आदिपदेन अआपालिकेत्यादयः पालकान्ता एव गृह्यन्ते, भाष्ये तेषामेवोदाहरणात् । तदाह — पालकान्तान्नेति ।पुंयोगलक्षण ङी॑षिति शेषः । गोपालिकेति । गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः, कर्तरि ण्वुल्, ‘युवोरनाकौ’ इत्यकादेशः । ‘णेरनिटि’ इति णिलोपः । गवां पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषे षष्ठी, उत ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । न तावदाद्यः, प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दादुत्पन्नसुपः परत्वेन असुप इति निषेधात्प्रत्ययस्था॑दिति इत्त्वानुपपत्तेः । नचाऽस्तु कर्मणि षष्ठीत#इ द्वितीयः पक्षः,गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्वपत्तेः॑ इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासदुत्पन्नस्य टापः सुपः परत्वाऽभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यं,तृजकाभ्यां कर्तरी॑ति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम् — गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गोपाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्त्वात्सुब्लुक् । गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात् । नह्यत्र टाप् सुपः परः, केन व्यवधानात् । अस्तु वा शेषषष्ठआ समासः, एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठआ समासप्रवृत्तेः । अत एव प्रकृतसूत्रेउपपदमतिङि॑ति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ठआ समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम् ।सूर्याद्देवतायामिति । देवताभूतायां स्त्र पुंयोगाद्वर्तमानात्सूर्यशब्दाच्चाप् वक्तव्य इत्यर्थः ।गुयोगा॑दिति ङीषोऽपवादः । चपावितौ । सूर्येति । चापि सवर्णदीर्घः । देवतायां किमिति । सूर्यस्त्रियां देवतात्वाऽव्यभिचारात् प्रश्नः । सूरी कुन्तीति । ङीषिसूर्यतिष्ये॑ति यकारलोपः,यस्येति चे॑त्यकारलोपः । मानुषीयमिति । इयं कुन्ती मानुषी, न तु देवतेत्यर्थः । एतच्च महाभारतादौ स्पष्टम् । नचसूर्याद्देवतायां ने॑त्येवोच्यतां, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यं, टापि हि सति पित्त्वादनुदात्तत्वम्अनुदात्तौ सुप्पित्तौ॑ इत्युक्तेः । चापि तु ‘चितः’ इत्यन्तोदात्तत्वमिति भेदः ।
Tattvabodhini¶
पुंयोगादाख्यायाम् - पुंयोगादाख्यायाम् । इह॒पु॑मिति लुप्तषष्ठीकं पृथक् पदं, तच्चावर्तते ।पुंयोगा॑दिति हेतौ पञ्चमी ।आख्याया॑मिति तु पञ्चम्यर्थे सप्तमीत्याशयेनाह — — या पुमाख्येत्यादि ।पुमाख्या॑ -पुंवाचकः शब्दः ।पुंयोगात् स्त्रियां वर्तते॑ इत्यनेन गौणी वृत्तिरुक्ता । यदा तु मुख्यार्थात्तस्येदम्इत्यण्, तदागौपी॑त्येव भवति । योगः — संबन्धः । स चेहदन्पतिभाव एवेति नाग्रहः, किं तु जन्यजनकभावोऽपि गृह्रते, सङ्कोचे मानाऽभावात् । तेनकौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभू॑दिति भट्टिप्रयोगः सङ्गच्छते । केकयस्य दुहिता केकयी ।जनपशब्दात्क्षत्त्रियाद॑ञित्यपत्यप्रत्यये तुकैकेयीतो भरत॑इति स्यात् । न चेहअतश्चे॑ति तद्वाजाकारस्य लुक्शङ्क्यः,न प्राच्यभर्गादी॑ति प्रतिषेधात् । तथा च कालिदासः — ॒कैकेयि । कामाः फलितास्तवे॑ति । एतेनदेवकी॑व्याख्याता । पुंयोगात् किम्, देवदत्ता । अयं हि संज्ञाशब्दः स्वभावात्स्त्रियमाह, न तु पुंवाचकशब्दयोगात् । आख्यायां किम्, प्रसूता । अयं हि जातपर्सवामाह । स च पर्सवो गर्भधारणद्वारा पुंयोगनिमित्तक इत्यस्तीह पुंयोगः, किं तु नायं पुंसो वाचक इति न ङीष् । सूर्याद्देवतायां चाब्वाच्वः । सूर्याद्देवतायामिति । ङीषोऽपवादः । सूरीति ।सूर्यतिष्ये॑ति यलोपः ।
Padamanjari¶
पुंसा योगः पुंयोग इति । योगः उ सम्बन्धः । पुंयोगाद्धेतोरिति । हेतौ पञ्चमीं दर्शयति । आख्याग्रहणं गुणभूतेनापि पुंसैव सम्बध्यते; अन्येन सम्बन्धासम्भवात् । गणकादयो हि शब्दाः पुंयोगात्स्त्रियां वर्तमाना न पुंयोगस्याख्या भवन्ति, स्त्रियां च पुंयोगमन्तरेण न प्रवर्तन्ते इति स्त्रिया अपि नाक्यास्तदाह - पुंस आख्याभूतमिति । बूतग्रहणेनैतद्दर्शयति - यत्प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, सम्प्रति तु पुंयोगाद्धेतोः स्त्रियां वर्तत इति । गणकीत्यादि । गणयतीति गणकः, ण्वुल । प्रतिष्ठते प्रष्ठः,’प्रष्ठो’ ग्रगामिनिऽ इति षत्वम् । कथं पुनरेते पुंशब्दाः ? इत्यत आह - पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवादिति । गणयति प्रतिष्ठत इति व्युत्पत्या पुंसि रूईढा एते, न स्त्री गणयति प्रतिष्ठते वा । महामात्रशब्दस्यापि प्रवृत्तिनिमितं हस्तिपकानामाज्ञापनम् । हस्तिपकाधिपतिर्हि महामात्रः । या तु स्वयं गणयति प्रतिष्ठते वा, न तस्यां पुंयोगाच्छब्दप्रवृत्तिः, अपि तर्हि स्वयमेव क्रियासम्बन्धादिति टापैव तत्र भाव्यम् । कथं तर्हि स्त्रियां प्रवृत्तिरित्य आह - तद्योगादिति । कोऽर्थः ? तस्येदमिति सम्बन्धादिति चेतद्धितो भवेत् । ङीषेव बाधक- स्याच्चेन्नित्यं बाधः प्रसज्यते ॥ गणकस्येयमिति भेदसम्बन्धे विवक्षिते’तस्येदम्’ इति तद्धितः प्राप्नोति । अथ नाप्राप्ते तद्धिते ङीषारभ्यमाणस्तस्य बाधक इत्युच्यते, कदाचिदपि तद्धितो न स्यात, उभयमपि त्विष्यते - प्राष्ठी, प्रष्ठीति ? स्यान्मतमेतत् - ठेतदेव ङीष्विधानं ज्ञापकम् - भेद विवक्षायामपि तद्धितमन्तरेण प्रष्ठादयः स्त्रियां वर्ततेऽ इति । तेन’न केवला प्रकृतिः प्रयोक्तव्या’ इति नियमोऽत्र बाध्यते, सति हि तद्धिते प्राष्ठीत्यणि ङीबेव सिद्धः, तस्य चोदातनिवृत्तिस्वरेणोदातत्वमिति किं ङीष्विधानेनेति ? तन्न; येऽनीकारान्तास्तद्धिताः - भानोरियं भानवीयेति, तदर्थमेतत्स्यात् । एवं तर्ह्याख्याग्रहणं ज्ञापकम् - नात्र तद्धितोत्पतिरिति, न हि तद्धितान्तः प्रकृत्यर्थे पुंसि वर्तते ? एवमपि ज्ञापकेन तद्धितस्य नित्यं बाधात्प्राष्ठीति न स्यात् । तस्माद् दुष्ट एवायं पक्षः । एवं तर्हि यथा - मञ्चाः क्रोशन्ति, गौर्वाहीकः, गङ्गायां घोषः, यष्टीः प्रवेशयेत्यादौ तात्स्थाताद्धर्म्यातत्सामीप्यातत्साहचर्याच्चातस्मिन्नपि तत्वाध्यारोपेण तच्छब्दप्रवृत्तिस्तद्वदत्रापि प्रष्ठादिसाहचर्यातच्छब्दप्रवृत्तिर्भविष्यति ? तत्राभेदेन भेदसम्बन्धस्य निवृतत्वान्न तद्धितप्रसङ्गः । विवक्षिते च भेदे तद्धितोत्पत्या प्राष्ठीत्यादि भविष्यति ? तत्राहुः - यस्त्वया धर्मश्चरितव्यः सोऽनया सहेति भार्यायाः शास्त्रसिद्धं साहचर्यमिति तस्यामेवैतन्ङीष्विधानमिति । भट्टिकाव्ये तु दुहितृष्वपि दृष्टः प्रयोगः -‘कौसल्यया’ सावि सुखेन रामः प्रक्केकयीतो भरतस्ततोऽभूत्ऽ इति, केकयस्य दुहिता केकयी, जनपदशब्दादपत्यप्रत्यये तु कैकयीति प्राप्नोति, न च तस्य ठातश्चऽ इति लुक्, न प्राच्यभर्गादीति प्रतिषेधातत् । तस्मात्सोऽयमित्यभिसम्बन्ध इत्ययमेव पक्षो ग्राह्यः । यद्वा - यथा स्वामिदासौ पचत इति स्वामिनः संविधातृत्वात्पक्तृत्वम्, दासस्य तु साक्षात्; तथा पुरुषः साक्षात्प्रतिष्ठते स्त्र्यपि संविधातृत्वात्पुरुषगतायाः प्रस्थानक्रियायास्तस्यामारोपात्प्रतिष्ठत इति, तस्यामेव प्रष्ठशब्दो व्युत्पाद्यते, न तु पुरुषे व्युत्पादितः सन् तेन सहाभेदोपचारातस्यां वर्तते । न चैतावता पुंयोगादेव हेतोः स्त्रियां वर्तत इत्यस्य हानिः, साक्षात्स्वयमकर्तृत्वात् । अत्र पक्षे प्रस्थ इति स्थिते सुबन्तस्य समासः, सुप् च संख्यानिमितम्, प्रातिपदिकं च पूर्वं लिङ्गमभिधते, पश्चात्सङ्ख्यामिति तन्निमितसुबपेक्षात्समासात्प्रागेवोतरपदात्स्थशब्दाट्टाप्प्रसङ्गः, न च स्थशब्दादप्यनेनैव ङीष् लभ्यते, प्रष्ठशब्दो हि पुंस आख्या, न तु स्थशब्दमात्रम्, ? नैष दोषः;’गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेः’ इति कृदन्तावस्थायामेव समासः, सा पुंस आख्येति ङीष् भविष्यति । परिभाषाप्रयोजनानि ठुपपदमतिङ्ऽ इत्यत्र प्रतिपादितानि । देवदतेति । स्त्रिया एव कस्याश्चिदेषा संज्ञा - परिसृष्टा, प्रजातेति । प्रसूतेत्यर्थः । पुंयोगादेते शब्दाः स्त्रियां वर्तन्त इति । परिसर्गः, प्रसवः, प्रजन इत्यर्थान्तरम् । स च न पुंयोगमन्तरेण सम्भवति, तस्मात्पुंयोगाद्धेतोः स्त्रियां वर्तते । परिसृष्टा प्रजातेति । द्वौ प्रकृतौ । एते शब्दा इति बहुवचनं तु एवंजातीयकाः शब्दाः प्रसूतादयस्तदपेक्षं द्रष्टव्यम् । गोपालिकादीनामिति । सिद्धये इति शेषः । सूर्याद्देवतायां चाब्वक्तव्य इति । ङीष एव प्रतिषेधे वक्तव्याअ चाब्विधानमन्तोदातार्थम् । सूर्यशब्दोऽयमाद्यौदातः, तत्र टापि सति आद्यौदातत्वमेवावतिष्ठेन । सूरीति । सूर्यस्य स्त्री मानुषी कुन्त्यादिः,’सूर्यतिष्य’ इति यलोपः ॥
Nyaas¶
पुंयोगात् इति। विभाषा गुणेऽस्त्रियाम् (2.3.25) इति हेतौ पञ्चमी। योगः = सम्बन्धः। आख्यायाम् इति। पञ्चम्यर्थ एषा व्यत्ययो बहुलम् (3.1.85) इति सप्तमी। आख्यायतेऽनया प्रातिपदिककार्थ इति श्रुत्याऽऽख्या। पुंस आख्यायाम् इति। पुंसो वाचकभूतमित्यर्थः। तद्धि पुंयोगाद्धेतोः सम्प्रति स्त्रियां वर्तते; न पुंसि। अतीत ए काले पुंसो वाचकमासीत्, अतो भूतग्रहणम्। एतदुक्तं भवति - यत् प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, पश्चात्तु पंयोगाद्धेतोः स्त्रियां वर्तते तस्मान् ङीष्भवतीति। कथं पुनर्योगे गुणभावमापन्नस्य पुंस आख्याग्रहणं विशेषणं युज्यते, स्त्रियामित्यनुवृत्तेः स्त्रिया एव? नैतदस्ति; यो हि पुंयोगात् स्त्रियां वर्तते सोऽवश्यं स्त्रियमचष्ट इति विशेषणमिदमदनर्थमकमेव स्यात्। पुंयोगस्य तर्हीदं विशेषणम्? न; असम्भवात्। न सम्भवत्येव हि तत् प्रातिपदिकं यत् पुंयोगाद्धेतोः पूर्वं स्त्रियां वर्तते, पुंयोगस्य चाख्याभूतं भवति। गणकादयो हि ये शब्दाः पुंयोगात् स्त्रियां वर्तन्ते ते सर्वे एव वाचकाः प्रागभूवन्, न पुंयोगस्य। ये तु पुंयोगादयः शब्दाः पुंयोगस्य वाचकाः, ते पुंयोगात् स्त्रियां न वर्तन्त एव। न चेह कश्चित् तथाविधोऽन्य प्रकृतः, नापि श्रूयते, यस्याख्याग्रहणेन सम्बन्धः स्यात्। तस्माद्गुणभूतस्यापि पुंस एवानेन सम्बन्धो विज्ञायते। गणकी इत्यादि। गणयतीति गणक,ण्वुल्। प्रतिष्ठित इति प्रष्ठः, आतश्चोपसर्गे (3.1.136) इति कः। प्रष्ठोऽग्रगामिनि (8.3.92) इति निपातनान्मूर्धन्यः। सर्व एते पुंसो वाचकाः। पुंयोगात्तु यदोत्तरकालं स्त्रियां वर्तन्ते तदैतेभ्यो ङीष्। पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवात् इति। गणनादिक्रियास्वभावं यद्गणकादिशब्दानां प्रवृत्तिनिमित्तं तस्य पुंसि सम्भवः, न स्त्रियाम्, नापि नपंसके। तस्मात् पुंसि शब्दे एते। पुंसो वाचका एते शब्दा इत्यर्थः। कथं तर्हि स्त्रियां वर्तन्ते? इत्याह - तद्योगात् इत्यादि। तद्योगः = तस्यायमिति सम्बन्धः, स्वस्वामिभावलक्षणः। तस्मादेते पुंशब्दा अपि स्वभावतः स्त्रियां वर्तन्ते। यथैव तद्योगात् स्त्रियां स्नानोद्वर्तनपरिषेकादीन् लभते तथा ताच्छब्द्यमपि।देवदत्ता इति। अत्र देवदत्तशब्दसंज्ञकेन पुरुषेण योगाद्देवदत्तशब्दः स्त्रियां न वर्तते। किं तर्हि? स्वत एव, तस्या हीयं संज्ञा कृता। परिसृष्टा, प्रजाता इति। प्रसूतेत्यर्थः। निर्लुठितगर्भेति यावत्। परिसृष्टप्रजातशब्दौ स्त्रियां वर्तमानो प्रसवनिमित्तमुपादाय प्रवर्तेते। परिसर्गः, प्रजनः, प्रसव इत्येकार्था एते शब्दाः। तस्य च प्रसवस्य पुंयोगो निमित्तम्, तेन विना तदभावात्। तस्मात् पुंयोगाद्धेतोः स्त्रियां वर्तत इति। वर्तत इति। न तु पुंशब्दाख्य इति ईकारो न भवतीति। एते शब्दाः इति। बहुवचनं येऽन्येऽप्येवंजातीयाः शब्दास्तानपेक्ष्य वेदितव्यम्; अन्यथा हि परिसृष्टप्रजातशब्दयोर्द्वित्वदेतौ शब्दाविति वक्तव्यं स्यात्।गोपालिकादीनां प्रतिषेधो वक्तव्यः इति। सिद्ध्ये इति वाक्यशेषः। गोपालिकादीनां शब्दानां सिद्धये ङीब्प्रतिषेधः। स तु वोतो गुणवचनात (4.1.44) इत्यतो वेत्यनुवृत्तेस्तस्य व्यवस्थितविभाषात्वमाश्रित्य प्रतिपाद्यः।सूर्याद्देवतायां चाव्वक्तव्यः`इति। ननु च ङीष एव प्रतिषेधो वक्तव्यः, ङीषि प्रतिषिद्धे टाब्भविष्यति, टापि च सूर्येति सिध्यत्येव? नैतदेवम्; यद्यपि हि रूपं सिद्ध्यति, स्वरतु न सिध्यति, यस्मात् सूर्यशब्दोऽयमाद्युदात्तः। तथा हि `राजसूयसूर्यः (3.1.114) इत्यत्र क्यबन्तो निपातितः, ततः क्यपः पित्त्वादनुदात्तत्वम्। धातोस्तु सुवतेः सर्तेर्वा धातुस्वरेणान्तोदात्तत्वम्। तत्र टापि सत्यनुदात्तत्वं स्यात्, तु सत्यन्तोदात्तता भवति। पित्करणं तु ङ्याप्प्रातिपदिकात् (4.1.1) इत्यत्र सामान्यग्रहणार्थम्। सूरी`इति। सूर्यस्य स्त्री मानुषी सूरी, ङीषेव भवति, `सूर्यतिष्यागस्त्यमस्त्यानाम् (6.4.149) इति यलोपः॥
Praudhamanorama¶
तथा च गौणी वृत्तिरिति भावः। यदा तु मुख्यार्थात् ‘तस्येदम्’ इत्यण् तदा ‘गोपी’इत्येव भवति। पुंयोगश्चेह दाम्पत्यभाव एव गृह्यत इत्येके। वस्तुतस्तु सङ्कोचे मानाभावाज्जन्यजनकभावोऽपि गृह्यते। तथा च भट्टिः— ‘कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभूत्॥’ इति। केकयस्य दुहिता केकयी। ‘जनपदशब्दात्’ इत्यपत्यप्रत्यये अञि तु कैकेयीति स्यात्। न च तस्य ‘अतश्च’ इति लुक्, ‘न प्राच्यभर्गादि’ इति निषेधात्। तथा च कालिदासः- ‘कैकेयि कामाः फलितास्तव।’ इति। एतेन देवकी व्याख्याता।
Prakriyasarvasvam¶
या पुमाख्या पुंयोगाल्लक्षणया स्त्रियां वर्तते ततो ङीष् स्यात् । गिरिशस्य भार्या गिरिशी । <karika>क्वचित् पुंनामपि हरः पुंयोगे ङीषमिच्छति । केकयी केकयसुता देवकी देवकात्मजा ॥ ४९० ॥</karika> अदन्तादिति सर्वत्र योज्यमिति स्त्रीसूत्रे हरोक्तेर्भानोः स्त्री भानुरित्यादौ नेत्युह्यम् । ‘पालकान्तान्नेति वाच्यम्’ । गोपालिका । भूपालिका । ‘सूर्याद्देवतायां चाब्वाच्यः’ । सूर्यस्य भार्या देवस्त्री चेत् सूर्या । मानुषी कुन्त्यादिश्चेत् सूरी । सूर्यस्य ङयां यलोपः ॥
Vartika¶
पालकान्तान्न ।
Sutra Prayogas¶
सुरक्तगोपीजनगीतनिःस्वने (किरातार्जुनीयम्): पुंयोगादाख्यायाम् इति ङीप्।
राज्ञीः (शिशुपालवधम्): पुंयोगादाख्यायाम् इति ङीप् ।
भटीजनः (शिशुपालवधम्): पुंयोगादाख्यायाम् इति ङीप्।