41060: दिक्पूर्वपदान्ङीप्¶
Padacheda: दिक्-पूर्वपदात् | S | 5 | 1 |
ङीप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The feminine affix ङीप् comes after a प्रातिपदिक (Nominal Stem) which is preceded by a word signifying direction.
Vasu English Translation¶
The feminine affix ङीप् comes after a प्रातिपदिक (Nominal Stem) which is preceded by a word signifying direction. This aphorism over-rules all the rules and prohibitions contained in sutras (4.1.54) to (4.1.58). Whereever by those rules there would have been ङीष्, the present enjoins ङीप् instead. Though the form will be the same, the difference will be in the accent; the affix ङीप् being anudatta (3.1.4). Thus प्राङ्मुखी or प्राङ्मुखा, प्राङ्नासिकी or प्रांनासिका, But not so in प्राग्गुल्फा; प्राक्क्रोडा or प्राग्जघना because these words do not take ङीष् (by (4.1.56)), therefore they never give occasion to the application of ङीप् ॥ The sutra ought to be read as if it contained two rules (1) the affix ङीष् comes after a compound the first member of which is a word denoting direction and the second is a svanga word or is the word नासिका &c. the penultimate not being a conjunct consonant, (2) but ङीष् is not added to Compounds ending in क्रोड &c. or in a word of more than two syllables. In other words the sutra may be translated “ङीप् is the substitute of ङीष् when the first member is a word denoting direction”. Therefore the affix ङीप् will come only there, where else the affix ङीष् would have come and not otherwise. This is the reason why the anuvritti of ङीष् is taken in the next sutra (4.1.61) and not that of ङीप् ॥
Bhashya¶
दिक्पूर्वपदान्ङीप् (1313) (ङीबादेशाधिकरणम्) (5202 आक्षेपवार्तिकम्॥ 1 ॥) - दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम् - (भाष्यम्) दिक्पूर्वपदान्ङीषोऽनुदात्तत्वं वक्तव्यम्। प्राङ्मुखी, प्रत्यङ्मुखी। (5203 द्वितीयाक्षेपवार्तिकम्॥ 2 ॥) - ङीब्विधाने ह्यन्यत्रापि ङीष्विषयान्ङीप्प्रसङ्गः - (भाष्यम्) ङीब्विधाने हि सति अन्यत्रापि ङीष्विषयान्ङीप् प्राप्नोति। प्राग्गुल्फा, प्रत्यग्ललाटा। ननु चैते विशेषा अनुवर्तन्ते -असंयोगोपधात् बह्वचो न इति। यद्यप्येते विशेषा अनुवर्तेरन् -संयोगोपधाद्बह्वचो नेति। एवमपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत। नैष दोषः। उक्तमेतत् -यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवतीति॥ (सिद्धान्तभाष्यम्) अथ वा ङीष आदेशो ङीप् करिष्यते॥ तत्तर्हि ङीषोऽत्र ग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? अन्यतो ङीषिति। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः। दिक्पूर्वपदादित्येषा पञ्ञ्चमी ङीषिति प्रथमायाः षष्ठीमिह प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति॥ प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥
Kashika¶
स्वाङ्गाच्चोपसर्जनाद्० (४.१.५४) इत्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते। यत्र ङीष् विहितस्तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकाद् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति — प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघनेति॥
Siddhanta Kaumudi¶
दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥
Balamanorama¶
दिक्पूर्वपदान्ङीप् - दिक्पूर्वपदान्ङीप् । दिक्पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च ।॒अन्यतो ङीषि॑त्यतो ङीषित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — दिक्पूर्वेत्यादिना । प्राङ्मुखीति । प्राक् मुखं यस्या इति विग्रहः । ङीषो ङीब्विधेः फलमाह — आद्युदात्तं पदमिति । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपिअसंयोगोपधा॑दिति निषेधं बाधित्वा ङीप्प्रसङ्गात् । ङीषो ङीबादेशविधौ तुस्वाङ्गाच्चोपसर्जनादसंयोगोपधा॑दिति विहितङीषो ङीब्विधानान्न दोषः ।असंयोगोपधा॑दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः ।
Tattvabodhini¶
दिक्पूर्वपदान्ङीप् - ङीषो ङीबादेश इति ।अन्यतो ङी॑षित्यतो ङीषित्यनुवर्तते ।दिक्पूर्वपदा॑दिति पञ्चम्याङी॑षिति प्रथमायाः षष्ठी कल्प्यत इति भावः । यदि तु स्वतत्त्रो ङीप्स्यात्तर्हिप्राग्गुल्फा॑प्राक्रोडे॑त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः । [प्राङिति.॒निपाता आद्युदात्ताः॑इति पूर्वपदे उदात्ते सतिबहुव्रीहौ प्रकृत्या पूर्वपद॑मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः]
Padamanjari¶
दिक्पूर्वपदान्ङीषोऽनुदातत्वम्,’स्वाङ्गाच्च’ इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह - विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति - यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते’स्वाङ्गाच्चो पसर्जनात्’ इति ङीषपि न भवति, कथम् ? उक्तमेतत् -‘यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते’ इति । प्रतिषेधापेक्षायाः फलं दर्शयति - इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः - दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥
Nyaas¶
विधिप्रतिषेध इत्यादि। विधिविषयः - स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, न क्रोडादिबह्वचः (4.1.56) सहनञ्विद्यमानपूर्वाच्च (4.1.57) इति। एतेनैतत् सूचयति - स्वाङ्गाच्चोपस्र्जनासंयोगोपधात् (4.1.54) इत्यादि विधिशास्त्रमिहानुवर्तते, न क्रोडादिबह्वचः (4.1.56) इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। यत्र ङीष् विहितः इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम्? इत्याह - स्वरे विशेषः इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। प्राङमुखी इति। ऋत्विगादि (3.2.59) सूत्रेणाञ्चतेः क्विन्, अनिदिताम् (6.4.24) इत्यनुनासिकलोपः, उगितश्च (6.3.45) इति ङीप् -प्राची। प्राच्यां दिशि मुखमिति दिक्शब्देभ्यः सप्तमीपञ्चमी (5.3.27) इत्यादिनास्तातिः, अञ्चेर्लुक् (5.3.30) इति तस्य लुक्, लुक् तद्धितलुकि (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्, तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यव्ययत्वम्, अव्ययादाप्सुपः (2.4.82) इति सुपो लुक् - प्राग् मुखं यस्याः सा प्राङमुखी, यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति ङकारः। प्राङ्मुखा इति। टाप्। ननु च ङीपा मुक्ते स्वाङ्गाच्चोपसर्जनात् (4.1.54) इति ङीषा भवितव्यम्? नैतदस्ति; आचार्यप्रवृत्तिज्र्ञापयति -यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति, यदयं पीलाया वा (4.1.118) इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते स्त्रीभ्यो ढक् (4.1.120) (इति) ढकारेण भवितव्यं किं वाग्रहणेन? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते - यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा? महाविभाषया। प्राग्दीव्यतोऽण् (4.1.83) इत्यणुत्सर्गः, स्त्रीभ्यो ढक् (4.1.120) इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन? नेत्येवं ब्राऊयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्। इह न भवति इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। प्राक्क्रोडा, प्राग्जघना इति। अत्र हि न क्रोडादिबह्वचः (4.1.56) इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। प्राग्गुल्फा इति। अत्राप्यसंयोगोपधा (4.1.63) , वहश्च (3.2.64) इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन अत उपधायाः (7.2.116) इति वृद्धिः, ङीष्, वाह ऊठ् (6.4.132) इति संप्रासरणसंज्ञको वकारस्योठ् भवति; वसोः सम्प्रसारणम् (6.4.131) इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः एत्येधत्यूठ्सु (6.1.89) इति विशेषणार्थः। सम्प्रसारणाच्च (6.1.108) इति पररूपत्वम्, एत्येधत्यूठ्सु (6.1.89) इति पूर्वपदाकारेण सैहकादेशो वृद्धिः॥
Praudhamanorama¶
ङीषो ङीबादेश इति। ‘दिक्पूर्वपदात्’ इति पञ्चम्या ङीषिति प्रथमायाः षष्ठी प्रकल्प्यत इति भावः। यदि तु स्वतन्त्रो ङीप् स्यात् तर्हि प्राग्गुल्फादावपि प्रसज्येत। तत्परिहाराय पूर्वोक्तपर्युदासस्य प्रसज्यप्रतिषेधानां वाऽनुवृत्तौ गौरवमिति भावः।
Prakriyasarvasvam¶
दिक्पूर्वपदात् ‘स्वाङ्गाच्चोपसर्जनात्’ - (४-१-५४) इत्यादिविहितङीष्- स्थाने छन्दसि ङीप् स्यात् । ‘स्वरे भेदः । पूर्वमुखी । पूर्वानुनासिकी ।