41046: नित्यं छन्दसि

Padacheda: नित्यम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine of the words बहु etc.

Vasu English Translation

The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine of the words बहु etc. Thus बह्वीषु हित्वा प्रपिवन् ॥ Here बह्वी is the name of a herb.

The word नित्य ‘always’ is used in the aphorism, more for the sake of the subsequent sutra, which it governs than for this sutra. For the word ‘optionally’ does not govern this, and the aphorism even without the word ‘nitya’? would have been a necessary rule and not optional: for आरम्भसामर्थ्यादेव नित्योविधिः सिद्धः, योगारम्भश्चिन्त्य योजनः ॥

Kashika

बह्वादिभ्यश्छन्दसि विषये नित्यं स्त्रियां ङीष् प्रत्ययो भवति। बह्वीषु हित्वा प्रपिबन्। बह्वी नाम ओषधी भवति। नित्यग्रहणमुत्तरार्थम्॥

Siddhanta Kaumudi

बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥

Padamanjari

नित्यग्रंहणमुतरार्थमिति । इह त्वारम्भसामर्थ्यादेव नित्यो विधिः सिद्धः, योगारम्भश्चिन्त्ययोजनः ॥

Nyaas

अथ नित्यग्रहणं किमर्थम्, यावता पूर्वेणैव सिद्धे विकल्पे सत्यारम्भसामर्थ्यादेव नित्यं भविष्यति? इत्यत आह - नित्यग्रहणमुत्तरार्थम् इति॥

Prakriyasarvasvam

बह्वादिभ्यश्छन्दसि नित्यं ङीष् स्यात् । बह्वीः समा७ः ।