41053: अस्वाङ्गपूर्वपदाद्वा¶
Padacheda: अ-स्व-अङ्ग-पूर्व-पदात् | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ङीष् is optionally used in the feminine after a बहुव्रीहि समास ending with the word in क्त having acute accent on the final, the antecedent word not being a word denoting a part of the body.
Vasu English Translation¶
The affix ङीष् is optionally used in the feminine after a बहुव्रीहि समास ending with the word in क्त having acute accent on the final, the antecedent word not being a word denoting a part of the body. The words अन्तोदात्तात् and क्तान्तात् govern this sutra. This aphorism lays down an option, where by the last aphorism, it would have been compulsory. Thus शार्ङ्गजग्ध, is a word having acute accent on the final (6.2.170), but as the first portion of this Bahuvrihi is not a Svanga word, but a jati word, its feminine will be शार्ङ्गजग्धी or शार्ङ्गजग्धा ॥ So also पलाण्डुभक्षिती or पलाण्डुभक्षिता and सुरापीती or सुरापीता.
Why do we say ‘when the first member of the compound is not a svanga word’? Observe शंखभिन्नी, ऊरुभिन्नी which admit of only one form.
If the final is not acutely accented, the rule will not apply. As वस्त्रछन्ना and वसनछन्ना which are not acutely accented on the final (See VI.2.170), because the first member is a word denoting dress or आच्छादन, which is especially excepted from the scope of rule (6.2.170).
Vart:- Diversely in the Chhandas and in Names. As प्रवृद्धविलूनी or प्रवृद्धविलूना ॥
Kashika¶
अन्तोदात्तात् क्तादित्यनुवर्तते। अस्वाङ्गपूर्वपदादन्तोदात्तात् क्तान्ताद् बहुव्रीहेः स्त्रियां वा ङीष् प्रत्ययो भवति। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। शार्ङ्गजग्धी, शार्ङ्गजग्धा। पलाण्डुभक्षिती, पलाण्डुभक्षिता। सुरापीती, सुरापीता। अस्वाङ्गपूर्वपदादिति किम्? शङ्खभिन्नी। ऊरुभिन्नी। अन्तोदात्तादित्येव — वस्त्रच्छन्ना। वसनच्छन्ना॥ बहुलं संज्ञाछन्दसोरिति वक्तव्यम्॥ प्रवृद्धविलूनी, प्रवृद्धविलूना। प्रवृद्धा चासौ विलूना चेति। नायं बहुव्रीहिः॥
Siddhanta Kaumudi¶
पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥
Balamanorama¶
अस्वाङ्गपूर्वपदाद्वा - अस्वाङ्गपूर्वपदाद्वा । स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्यात् परं यत् क्तान्तं तदन्ताद्बहुव्रीहेर्ङीष् वा स्यादिति सूत्रार्थः । यद्यपिअस्वाङ्गं पूर्वपदं यस्य तस्मात् क्तान्तबहुव्रीहे॑रित्यपि व्याख्यातुं शक्यं, तथापि उत्तरसूत्रेऽस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम् । ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदक्तदान्तबहुव्रीहित्वान्ङीष्विकल्पः स्यादित्याशङ्क्याह — पूर्वेणेति ।बहुव्रीहेश्चान्तोदात्ता॑दिति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः । एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य चेहापि संबन्धाद्बहुकृतेत्यादौ नातिप्रसङ्ग इति भावः । सुरापीति सुरापीतेति । सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात्किमिति ।बहुव्रीहेश्चे॑त्यत्र श्रुतम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत्किमर्थमिति प्रश्नः । वस्त्रच्छन्नेति । ऊरुभिन्नीतिवत्पूर्वनिपातः । अथ वस्त्रच्छन्नेत्यत्र ‘जातिकालसुखादिभ्यः’ इत्यन्तोदात्तत्वमाशङ्क्य निरस्यति — अनाच्छादनादिति । तथाच बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतदिति भावः । अत एवेति ।अस्वाङ्गपूर्वपदा॑दित्यनेनबहुव्रीहेश्चे॑ति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च ङीष् नेत्यर्थः । अन्तोदात्तत्व एवोभयोः प्रवृत्तेरिति भावः ।
Tattvabodhini¶
अस्वाङ्गपूर्वपदाद्वा - पूर्वेण नित्यं प्राप्त इति । एतेन विकल्पोऽप्ययं जातिपूर्वादेवेति ध्वनितम् । कथं तर्हिपुत्रहती॑त्यत्रअस्वाङ्गपूर्वपदा॑दिति वा ङीषिति कैयटः, पुत्रशब्दस्याऽजातिवाचकत्वात् । अन्यथापुत्रादिनी॑त्यत्रसुप्यजातौ — — ॑इति णिनिर्न स्यात् । यदि त्वदनमादः, सोऽस्यास्तीति आदिनी, पुत्राणामादीनीति विगृह्र कथंचित्साधितेऽपिजातिकालसुखादिभ्यः॑इत्यन्तोदात्तविधायकसूत्रेजातेः किं, पुत्रायातः॑इति वक्ष्यमाणमूलग्रन्थो विरुध्यत एवेति चेदुच्यते -॒प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असत्त्विलिङ्गां बह्वार्थां ता जातिं कवयो विदुः॑ -इति भाष्ये लक्षणान्तरमुक्तम् ।सत्त्वस्य द्रव्यस्य प्रादुर्भावविनाशाभ्यां प्रादुर्भावतिरोभावौ या प्राप्नोति । यावद्द्रव्यभाविनीत्यर्थः । गुणैर्युगपद्द्रव्येण सम्बध्यते । बह्वर्थां । सर्वव्यक्तिव्यापिनीमित्यर्थः । तां जाति॑मित्यादि कैयटेन व्याख्यातम् । एवं च पुत्रत्वस्य यावद्द्रव्यभावित्वेनोक्तलक्षणलक्षितत्वाज्जातिवाचक एव पुत्रशब्द इतिअस्वङ्गेति वा ङी॑षिति ग्रन्थस्तत्र न विरुध्यते ।आकृतिग्रहणा जाति॑रित्यादिमुख्यपक्षाश्रयणे तु पुत्रत्वास्याऽजातित्वाज्जातेः किं,पुत्राऽऽयात॑इति ग्रन्थोऽपि सङ्गच्छत इति दिक् । केचिदर्वाचीनास्तु पुत्रहती पुत्रग्धीत्यत्रक्तादल्पाख्याया॑मित्यनेन ङीषामाहुः । सुरापीतीति । पीता सुरा यया सा ।जातिकाले॑ति सूत्रवार्तिकाभ्यां निष्ठाया अन्तोदात्तत्वपरनिपातौ । वस्त्रच्छन्नेति । बहुव्रीहिस्वरेण पूर्वपदपर्कृतिस्वरे शेषनिघाते, च कृते अनुदात्तान्तोऽयम् ।
Padamanjari¶
शार्ङ्गजग्धीत्यादि । शार्ङ्ग जग्धमनया, पलाण्डुर्भक्षितोऽनयेति विग्रहः । शार्ङ्गादिरभक्ष्यजातिः । सर्वत्र’जातिकालसुखादिभ्यः’ इत्यन्तोदातत्वम् । वस्त्रच्छन्नेति ।’च्छद अपवारणे’ चुरादिः,’वा दान्तशान्त’ इत्यादिनो च्छन्न शब्दो निपातितः, अत्र ठनाच्छादनात्ऽ इति प्रतिषेधात्पूर्वपदप्रकृतिस्वरत्वमेव भवति । प्रवृद्धा चेत्यादिना विग्रहविशेषेण तत्पुरुषं दर्शयति ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपघात् । अतिकेशीति । अतिक्रान्ता केशानिति तत्पुरुषः, ठेकविभक्ति चऽ इति केशशब्दस्योपसर्जनत्वम् । अशिखेति । असत्युपसर्जनग्रहणेऽत्रैव प्राप्नोति, न मूलोदाहरणेषु; ठनुपसर्जनात्ऽ इत्यधिकारात् । अथ बहुव्रीह्यधिकारादत्र न भविष्यतीत्युच्येत ? अतिकेशीत्यत्रापि तर्हि न स्यात् । ठङ्गात्रऽ इत्यादिभाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद् वृत्तिकारेणोक्तम् । यद्यत्र स्वमङ्गं स्वाङ्गं गृह्यएत - श्लक्ष्णमुखा शाला, अत्रापि प्राप्नोति, मुखस्य शालाङ्गत्वात् ; दीर्घकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाभावात् ? तदव्याप्त्यतिव्याप्तिपरिहारार्थं स्वाङ्गं परिभाष्यते - अद्रवमिति । तत्र प्राणिस्थं स्वाङ्गमित्यनेन श्लक्ष्णमुखा शालेत्यत्र न भवति । एवमपि बहुकफा अत्र प्राप्नोति ? तदर्थमाह - अद्रवमिति । द्रवतीति द्रवम्, ततोऽन्यदद्रवम् । एवमपि बहुज्ञाना - अत्रापि प्राप्नोति ? अत आह - मूर्तिमदिति । असर्वगतद्रव्यपरिमाणा मूर्तिः, असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं ह्रस्वत्यादि सा मूर्तिः; स्पर्शवद् द्रव्यपरिमाणं मूतिरित्यन्ये, सा यस्यास्ति तन्मूर्तिमत् । एवमपि बहुशोफा अत्र प्राप्नोति ? इत्यत आह - अविकारजमिति । विकारःउवातादिवैषम्यम्, ततो यज्जायते तन्न भवतीत्यविकारजम् । शोफस्तु श्वयथुसंज्ञको विकारजः । यदि प्राणिस्थं स्वाङ्गम्, रथ्यादिपरिगतानां केशानां स्वाङ्गत्वं न स्यात्, सम्प्रत्यप्राणिस्थत्वात्, ततश्च दीर्घकेशी रथ्येति न सिद्ध्यत्यत आह - अतत्स्थमिति । सम्प्रत्यप्राणिस्थमपि कदाचित्प्राणिनि दृष्ट्ंअ चेतदपि स्वाङ्गं भवत्येवेत्यर्थः । एवमपि प्रतिमावयवानां मुखादीनां स्वाङ्गत्वं न प्राप्नोति, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेत्यत्र न सिद्ध्यति ? तत्राह -तेन चेदिति । अतत्स्थमित्यनुषङ्गः । अप्राणिस्थमपि मुखादि स्वाङ्गं तेन चेन्मुखादिना तदप्राणिद्रव्यं तथा युतं भवति यथा प्राणिद्रव्यमित्यर्थः । अन्येषां पाठः - तस्य चेततथा युतमिति । तत्रार्थः - अप्राणिस्थमपि मुखादि स्वाङ्गं तस्य चेदप्राणिनः तन्मुखादि तथा युतं भवति, तादृशं संस्थानं भवति यादृशं संस्थानं प्राणिन इत्यर्थः ॥
Nyaas¶
अस्वाङ्गपूर्वपदात् इति। न स्वाङ्गम् = अस्वाङ्गम्, तत् पूर्वपदं यस्य बहुव्रीहेः स तथोक्त-। सारङ्गजग्धी इति। अद भक्षणे (धातुपाठः-1011), अदो जग्धिः (2.4.36) इत्यादिना जग्ध्यादेशः, झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य घत्वम्, झरो झरि सवर्णे (8.4.65) इति घलोपः। पलाण्डभक्षिती इति। भक्ष अदने (धातुपाठः-1557), चुरादिणिच्। सुरापीति इति। घुमास्थादि (6.4.66) सूत्रेणेत्वम्। सर्वत्र जातिकालसुखादिभ्यः (6.2.169) इत्यादिनोत्तरपदान्तोदात्तत्वम्।वस्त्रच्छन्ना, वसनच्छन्ना इति। छद अपवारणे (धातुपाठः-1833) इत्यस्य चुरादिण्यन्तस्य क्तप्रत्यये वा वान्तशान्तपूर्ण (7.2.27) इत्यादिना च्छन्नशब्दो निपातितः। अनाच्छादनात् (6.2.169) इत्युत्तरपदान्तोदात्तत्वप्रतिषेधे बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति प्रकृतिस्वरे कृते अनुदात्तं पदमेकवर्जम् (6.1.158) इति शेषस्यानुदात्तत्वादिहान्तोदात्तत्वं नास्ति। पूर्वपदे एवात्राद्युदात्ते -एकं नित्स्वरेण, अपरं लित्स्वरेण। थस आच्छादने (धातुपाठः-1023), ष्ट्रन्प्रत्ययः -वस्त्रम्। धातोर्वसनम् -ल्युट्। बहुलम् इत्यादिना संज्ञायां छन्दसि बहुलं ङीष्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्र वाग्रहणस्य व्यवस्थितविभाषात्वादेव बहुलं संज्ञाच्छन्दसोर्भविष्यति। नन्व सूत्रेणैवानेनावस्य बहुव्रीहित्वाद्भविष्यति ङीष्, किमर्थं तर्हीदम्? इत्याह - `प्रवृद्धा च`इत्यादि। विग्रहविशेषेण तत्पुरुषं दर्शयति।
Prakriyasarvasvam¶
क्तान्तादन्तोदात्ताद् बहुव्रीहेर्ङीष् स्यात् । अस्वाङ्गपूर्वपदात् तु वा स्यात् । वस्त्रवर्जितजातिपूर्वः कृतमितजातप्रतिपन्नवर्जः सर्वक्तान्तः बहुव्रीहिरन्तोदात्ताक्त्या ग्राह्य इति भोजः । अत्र स्वाङ्गरूपजातिपूर्वान्नित्यम् । अन्यजातिपूर्वात् तु क्तान्ताद् विकल्प इति सूत्रद्वयार्थः । स्वाङ्गाद्-ऊरुभिन्नी, गलखण्डिती । अस्वाङ्गात्- सुरापीती, सुरापीता । जातेर्निष्ठाया वा परनिपातोक्त्या सर्वत्र परत्वम् । ‘पाणिगृहीती भार्यायाम्’ । पाणिगृहीतान्या ।।