41054: स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्

Padacheda: स्व-अङ्गात् | S | 5 | 1 |

च | S | 0 | 0 |

उपसर्जनात् | S | 5 | 1 |

अ-संयोग-उपधात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

And the feminine affix ङीष् comes optionally after what ends with the name of a part of the body when the word is a subordinate member in compound and has not a conjunct for its penultimate letter (i.e. the final अ is not preceded by a double consonant).

Vasu English Translation

And the feminine affix ङीष् comes optionally after what ends with the name of a part of the body when the word is a subordinate member in compound and has not a conjunct for its penultimate letter (i.e. the final अ is not preceded by a double consonant). The Anuvritti of the words बहुव्रीहेः, क्तान्तादन्तोदात्तात् does not extend to this aphorism. But the anuvritti of the word वा ‘optionally’ does extend to this Sutra. Thus चन्द्रमुखी or चन्द्रमुखा, अतिकेशी or अतिकेशा ॥ The word अतिकेशा is a Tatpurusha compound meaning अतिक्रान्ता केशान्, and केश is upasarjana by (1.2.44).

Why do we say “what ends with the name of a part of the body”? Observe बहुयवा ‘having much barley’. Why do we say “subordinate in a compound”? Witness अशिखा “without crest” (where the शिखा is not subordinate or epithetical). Why do we say “not having a conjunct for its penultimate letter”? Witness सुगुल्फा, सुपार्श्वा ॥

Vart :- This rule applies to a compound ending with the word अङ्ग, गात्र and कण्ठ, though in all these, the penultimate is a double consonant. Thus मृद्वङ्गी or मृद्वङ्गा; सुगात्री or सुगात्रा, स्निग्धकण्ठी or स्निग्धकण्ठा ॥

The word स्वांग has a technical meaning as given in the following verse:-

अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्रदृष्टं चेत् तेन चेत् तत्तथायुतम् ॥

A word denoting a thing which not being a fluid, is capable of being perceived by the senses because of its having a form, is svanga; it must exist in a living being, but not produced by a change from the natural state; or though found elsewhere actually, had previously been known as existing in only a living being, or is found to have actually the same relation to the being it is in, as a similar thing has to a living being.

Bhashya

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (1307) (स्वाङ्गलक्षणाधिकरणम्) (जिज्ञासाभाष्यम्) स्वाङ्गाच्चोपसर्जनादित्युच्यते, किं स्वाङ्गं नाम?॥ (स्वाङ्गलक्षणम्) अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम्। अतत्स्थं तत्र दृष्टं च तस्य चेत्तत्तथायुतम्॥ अप्राणिनोऽपि स्वाङ्गम्॥ (लक्षणपदकृत्यभाष्यम्) अद्रवमिति किमर्थम्? बहुलोहिता। नैतदस्ति। बह्वचो नेति प्रतिषेधो भविष्यति। इदं तर्हि -बहुकफा॥ मूर्तिमदिति किमर्थम्? बहुबुद्धिः, बहुमनाः। नैतदस्ति। अत इति वर्तते। इदं तर्हि -बहुज्ञाना॥ प्राणिस्थमिति किमर्थम्? श्र्लक्ष्णमुखा शाला॥ अविकारजमिति किमर्थम्? बहुगडुः, बहुपिटका। नैतदस्ति। इह तावद्बहुगडुरिति, अत इत्यनुवर्तते, बहुपिटकेति, बह्वचो नेति प्रतिषेधो भविष्यति। इदं तर्हि -बहुशोफा॥ (द्वितीयं स्वाङ्गलक्षणम्) अतत्स्थं तत्र दृष्टं च अप्राणिस्थं प्राणिनि दृष्टं च स्वाङ्गसंज्ञं भवति। दीर्घकेशी रथ्या-इति॥ (तृतीयं स्वाङ्गलक्षणम्) तस्य चेत्तत्तथायुतम्॥ अप्राणिनोऽपि स्वाङ्गसंज्ञं भवतीति। दीर्घनासिकी -अर्चा, तुङ्गनासिकी -अर्चेति॥ (उपसर्जनपदकृत्यभाष्यम्) अथोपसर्जनग्रहणं किमर्थम्? इह मा भूत् -अशिखा॥ (5194 पूर्वपक्षवार्तिकम्॥ 1 ॥) - उपसर्जनग्रहणमनर्थकं बहुव्रीह्यधिकारात् - (भाष्यम्) उपसर्जनग्रहणमनर्थकम्। किं कारणम्? बहुव्रीह्यधिकारात्। बहुव्रीहेरिति प्रकृतमनुवर्तते। क्व प्रकृतम्? बहुव्रीहेश्चान्तोदात्तात् (4.1.52) इति॥ (एकदेशिसमाधानभाष्यम्) बह्वजर्थं तर्हि उपसर्जनग्रहणं कर्तव्यम्। बह्वचो नेति प्रतिषेधं वक्ष्यति तद्बह्वज्ग्रहणमुपसर्जनविशेषणं यथा विज्ञायेत -बह्वच उपसर्जनान्नेति॥ (एकदेश्याक्षेपभाष्यम्) अथाक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणं विशेषणं स्यात्? बहुव्रीहेरिति वर्तते। बहुव्रीहिविशेषणं विज्ञायेत। अस्ति चेदानीं कश्चिदबह्वज् बहुव्रीहिः, यदर्थो विधिः स्यात् -अस्तीत्याह -स्वडा, स्वडीति॥ (5195 एकदेशिसमाधानवार्तिकम्॥ 2 ॥) - बह्वजर्थमिति चेत्स्वाङ्गग्रहणात्सिद्धम् - (भाष्यम्) स्वाङ्गग्रहणं क्रियते, तद्बह्वज्ग्रहणेन विशेषयिष्यामः -स्वाङ्गाद् बह्वचो नेति॥ एवं तर्हि अन्तोदात्तादिति वर्तते। अनन्तोदात्तार्थोऽयमारम्भः॥ (5196 उपसर्जनग्रहणस्य निष्फलत्वबोधकं वार्तिकम्॥ 3 ॥) - अनन्तोदात्तार्थमिति चेत् सहादिकृतत्वात्सिद्धम् - (भाष्यम्) यदयम् सहनञ्ञ्विद्यमानपूर्वाच्च (4.1.57) इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः -अनन्तोदात्तादपि भवतीति॥ (5197 पूर्वपक्षवार्तिकम्॥ 4 ॥) - स्वाङ्गसमुदायप्रतिषेधार्थं तु - (भाष्यम्) स्वाङ्गसमुदायप्रतिषेधार्थं तर्ह्युपसर्जनग्रहणं कर्तव्यम्। स्वाङ्गाद्यथा स्यात्, स्वाङ्गसमुदायान्मा भूत् -कल्याणपाणिपादा॥ अथ क्रियमाणेऽप्युपसर्जनग्रहणे कस्मादेवात्र न भवति? स्वाङ्गं ह्येतदुपसर्जनम्। न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते। यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते -काशिकोशलीया इति, जनपदतदवध्योरिति वुञ्ञ् न भवति॥ एतदपि नास्ति प्रयोजनम्। अस्वाङ्गपूर्वादिति वर्तते, तेन स्वाङ्गं विशेषयिष्यामः -अस्वाङ्गपूर्वपदात्परं यत्स्वाङ्गं तदन्ताद् बहुव्रीहेरिति। यच्चात्रास्वाङ्गपूर्वपदात्परं स्वाङ्गम्, न तदन्तो बहुव्रीहिः। यदन्तश्च बहुव्रीहिः, न तदस्वाङ्गपूर्वपदात्परं स्वाङ्गम्॥ (आक्षेपभाष्यम्) ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम्। नेत्याह। पूर्वपदविशेषणं तत्। न स्वाङ्गमस्वाङ्गम्, पूर्वं पदं पूर्वपदम्, अस्वाङ्गं पूर्वपदमस्वाङ्गपूर्वपदम्, अस्वाङ्गपूर्वपदादिति। यद्येवं पूर्वस्मिन् योगे बहुव्रीहिरविशेषितो भवति। बहुव्रीहिश्च विशेषितः। कथम्? क्तादिति वर्तते तेन बहुव्रीहिं विशेषयिष्यामः। अस्वाङ्गात् पूर्वपदात्परं यत् क्तान्तं तदन्ताद् बहुव्रीहेरिति॥ (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् - बहुव्रीहेरिति वर्तमान उपसर्जनग्रहणमुपसर्जनमात्राद्यथा स्यात् -निष्केशी यूका, अतिकेशीमालेति॥

Kashika

बहुव्रीहेः क्तान्तादन्तोदात्तादिति सर्वं निवृत्तम्। वाग्रहणमनुवर्तते। स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। चन्द्रमुखी, चन्द्रमुखा। अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला। स्वाङ्गादिति किम्? बहुयवा। उपसर्जनादिति किम्? अशिखा। असंयोगोपधादिति किम्? सुगुल्फा। सुपार्श्वा॥ अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्॥ मृद्वङ्गी, मृद्वङ्गा। सुगात्री, सुगात्रा। स्निग्धकण्ठी, स्निग्धकण्ठा।

अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्।

अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत्तथायुतम्॥

Siddhanta Kaumudi

असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ॥ अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ॥ सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ॥<!अतत्स्थं तत्र दृष्टं च !> (वार्तिकम्) ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥<!तेन चेत्तत्तथा युतम् !> (वार्तिकम्) ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥

Laghu Siddhanta Kaumudi

असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष् वा स्यात्। केशानतिक्रान्ता - अतिकेशी, अतिकेशा। चन्द्रमुखी चन्द्रमुखा। असंयोगोपधात्किम्? सुगुल्फा। उपसर्जनात्किम्? शिखा॥

Balamanorama

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् - स्वाङ्गच्च । उपसर्जनादिति असंयोगपधादिति च स्वाङ्गादित्यत्रान्वेति । स्वाङ्गादित्येतदत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — असंयोगोपधमित्यादिना । वा ङीषिति ।अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति ‘अन्यतो ङीष्’ इत्यतो हीषित्यस्य चानुवृत्तेरिति भावः । बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्क्य परिहरति — केशानतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासस्तत्पुरुषः । अत्र बहुव्रीहित्वाऽभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः ।एकविभक्ति चापूर्वनिपाते॑ इति केशशब्दस्योपसर्जनत्वम् । चन्द्रमुखी चन्द्रमुखेति । चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु=शोभनौ गुल्फौ यस्या इति विग्रहः ।पदङ्घ्रिश्चरणोऽस्त्रियाम् । तद्ग्रन्थी घुटिके गुल्फौ॑ इत्यमरः । उपसर्जनात्किमिति । केवलकेशादिशब्दानामनुपसर्जनानां स्त्रीत्वविरहादेवाऽप्राप्तेः प्रश्नः । शिखेति । अत्र स्वाङ्गान्तत्वात्केवलशिखाशब्दान्ङीष्निवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधित्वा पक्षे ङीष् स्यादिति भावः ।शोभना शिखा सुशिखे॑ति क्वचित् पुस्तकेषु दृष्टं, तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासेऽनदन्तत्वादेव प्राप्तिविरहात् । ननु स्वस्य अवयवीभूतस्य अङ्गं-स्वाङ्गम् । तथा च सुमुखा शालेत्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् । किंच सुकेशी रथ्येत्यत्राऽब्याप्तिः, तत्र केशानां रथ्याङ्गत्वाऽभावादित्यत आह — स्वाङ्गं त्रिधेति ।अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च, तेन चेतत्तथायुतम् ।॑ इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमित्यर्थः । तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति — अद्रवमिति । न विद्यते द्रवो यस्य तत्-अद्रवम् ।मूर्तिः=अवयवसंयोगोऽस्यास्तीति मूर्तितम् । अवयवसंयोगसमवायिकारणं द्रव्यमिति यावत् । प्राणिनि=प्राणवति जन्तौ विद्यमानं प्राणिस्थम्, अविकारजं=रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः ।अद्रव॑मित्यस्य प्रयोजनमाह — सुस्वेदेति । सु=शोभनः, स्वेदः=घर्मज उदकप्ररुआवो यस्या इति विग्रहः । स्वेदस्य शोभनत्वं तु दुर्गन्धाऽभावः । द्रवत्वादिति ।न स्वाङ्गत्व॑मिति शेषः । अतो न ङीषित्यर्थः ।मूर्तिम॑दित्यस्य प्रयोजनमाह — सुज्ञानेति । सु=शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।प्राणिस्थ॑मित्यस्य प्रयोजनमाह — सुमुखा शालेति । सु=शोभनं मुखं प्रथमभागो यस्या इति विग्रहः । अप्राणिस्थत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।अविकारज॑मित्यस्य प्रयोजनमाह — सुशोफेति । सु=अधिकः शोफः=आयथुर्यस्या इति विग्रहः । ‘शोफस्तु आयथुः’ इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः ।न स्वाह्गत्व॑मिति शेषः । अतत्स्थं तत्र दृष्टं चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थम्= अप्राणिस्थं, तत्र=प्राणिनि, दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाऽभावात्पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति — अप्राणिस्थस्यापीति । इदानीं प्राणिस्थत्वाऽभावेऽपि कदाचित् प्रामिस्थत्वादपि स्वाङ्गत्वमित्यर्थः ।तेन चेत्तत्तथेति । तृतीयं स्वाङ्गलक्षणम् । अत्र भाष्येस्वाङ्गमप्राणिनोऽपि॑ इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत्प्राणिद्रव्यं प्रतिमादि, तथा=प्राणिद्रव्यवत्, युतं=संबद्धं यदि, तदा तत्=स्तनाद्याकृतिकं अप्राणिनोऽपि स्वामित्यर्थः । सुस्तनी सुस्तना वा प्रतिमेति । सु=शोभनौ स्तनौ=स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाऽभावात् प्राम्यन्तरेऽदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति — प्राणिवदिति । सुप्तम्यन्ताद्वतिः । प्राणिवत्-प्राणिसदृशे=प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नचकल्याणपाणिपादे॑ति बहुव्रीहावपि ङीष् स्यादिति वाच्यम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यनुवृत्तेः । अत्र हि पाणिपादेति समुदायो न स्वाङ्गं, किन्तु स्वाङ्गसमुदाय एव यत्तु स्वाङ्गं पादेति न तु तदस्वाङ्गात्पूर्वपदात् परम्, पाणिपदेन व्यवधानात् । तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात्पूर्वपदात् कल्याणशब्दात् परत्वाऽभावान्न ङीषिति भाष्ये स्पष्टम् ।

Tattvabodhini

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् - स्वाङ्गाच्चोप । इह बहुव्रीहेरिति नानुवर्तते इति ध्वनयन्नुदाहरति -अतिकेशीति । शिखेत् ।शीङः खो ह्रस्वश्चे॑ति खः । तदन्ताट्टाप् । अन्यथा टापं बाधित्वा ङीष् स्यादिति भावः । [केचित्तु सुशिखेत्यपि प्रत्युदाहरन्ति । तच्चिन्त्यम् । टाबन्तेन समासेऽनदन्तेत्वेन ङीषः प्राप्त्यभावात् । न च टापः प्रागेव कृदन्तेनैव समासाददन्तत्वमस्तीति वाच्यम्, तथा हि सति शोभना शिखा सुशिखेत्यर्थस्याऽलाभादिति नव्याः] । यद्यत्र स्वमङ्गं गृह्रते तर्हि सुमुखा शालेत्यत्रापि स्यात्, मुखस्य शालाङ्गत्वात् । सुकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाऽभावात् । अतोऽव्याप्त्यतिव्याप्तिपरिहार्थमाह - ।अद्रवं मूर्तिमत्खाङ्गं प्राणिस्थमविकारजम् । स्वाङ्गं त्रिधेति । मूर्तिमदिति । स्पर्शवद्द्रव्यपरिमाणं मूर्तिः । प्राणीति । मुखनासिकासञ्चार वायुः प्राणः । सुमुखा शालेति । एवं चफलमुखी कारणमुखी वाऽनवस्थे॑त्यादिप्रयोगाः प्रामादिका इति भावः । प्रतिमादिगतस्तनस्य प्राणिन्यदृष्टत्वात्स्वाङ्गत्वं न प्राप्नोतीति तृतीयलक्षणमाह — तेन चेदिति.येनाऽह्गेन प्राणिरूपं वस्तु यथा युतं तेन=तत्सदृशेनाऽङ्गेन तदप्राणिरूपं वस्तु तथा=प्राणिवद्युतं=युक्तं चेत्तदप्यप्राणिनि दृष्टं स्वाङ्गमित्यर्थः ।

Nyaas

चन्द्रमुखी इति। चन्द्र इव मुखमस्या इति बहुव्रीहिः। अत्र च प्रथमानिर्दिष्टम् (1.2.43) इत्यादिना मुखशब्दस्योपसर्जनसंज्ञा। अतिकेशी इति। कुगतिप्रादयः (2.2.18) इति समासः। एक विभक्ति च (1.2.44) इति केशब्दस्योपसर्जनत्वम्।अङ्ग इति। अङ्गादिभ्य उपसर्जनेभ्यो ङीष् भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? संयोगोपधत्वान्ङीष् न प्राप्नोति, तदर्थमेतदर्थरूपं व्याख्येयम्। तदिदं व्याख्यानम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेनाङ्गादिभ्यः संयोगोपधेभ्यो ङीब्भवतीति। अद्रवम् इति। मुखनासिकाभ्यां योऽभिनिष्क्रामति वायुः स प्राणः, प्राणोऽस्यास्तीति, प्राणी, तत्र यत्तिष्ठति तत्प्राणिस्थम्; मुखादि स्वाङ्गमुच्यते। यद्येवम्, कफोऽपि स्वाङ्गं स्यात्, ततश्च बहुकफेत्यत्र ङीष् प्रसज्येत? इत्यत आह - अद्रवम् इति। विशेषणोपादानान्न भवत्ययं प्रसङ्गः, कफस्य द्रवात्मकत्वात्। एवमपि ज्ञानं स्वाङ्गं भवेत्, प्राणिस्थत्वादद्रवत्वाच्च, ततश्च बहुज्ञानेत्यत्रापि ङीष् स्यात्? इत्यत आह - मूर्तिमत् इति। असर्वगतानि यानि द्रव्याणि तेषां परिमाणं ह्रस्वादिमद्यत् तन्मूर्त्तिः, सा यस्यास्ति तन्मूर्तिमत्। न च तद्ज्ञानेऽस्तीति;निर्गुणत्वात्। गुणानां च ज्ञानस्यात्मगुणत्वान्नास्य स्वाङ्गत्वप्रसङ्गः। येषामपि काठिन्यादिस्पर्शविशेषो मूर्त्तिः, तन्मतेनापि नैव ज्ञां मूर्तिमद्भवति, न हि ज्ञानस्य स्पर्शोऽस्ति। एवमपि शोफस्य आयथुसंज्ञकस्य स्वाङ्गत्वं प्राप्नोत्येव; यथोक्तविशेषणविशिष्टत्वात्। ततश्च बहुशोफेत्यत्र ङीष् प्रसज्येतेत्यत आह - अविकारजम् इति। विकारः = धातुवैषम्यम्, भूतप्रक्षोम इत्यर्थः, ततो जातं विकारजम्। न विकारजम् = अविकारजम्। तदेवं विशेषमोपादानसामर्थ्यात्। शोफस्यापि स्वाङ्गत्वं न प्राप्नोति। यदि प्राणिस्थं स्वाङ्गं भवति, एवं तर्हि रथ्यादिपतितानां केशानां स्वाङ्गत्वं न स्यात्, ततश्च दीर्घकेशी रथ्येति न सिध्यतीत्यत आह - अतत्स्थम् इत्यादि। तस्मिन् प्राणिनि तिष्ठतीति तत्स्थम्, न तत्स्थमतत्स्थम् = अणिस्थम्। एवमपि केशादि स्वाङ्गं भवति यदि तत्प्राणिनि पूर्वं दृष्टं भवति। प्रतिमावयवानां तर्हि मुखादीनां स्वाङ्गता न स्यात्, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेति ङीष् न स्यात्? इत्यत आह - तस्य चेत्ततथा इति। तस्य प्राणिनस्तत् स्वाङ्गं यथा युतं येन प्रकारेण संस्थानविशेषेण सम्बद्धं तथा तेन प्रकारेणाप्राणिनोऽपि यदि सम्बद्धं भवत्येवमपि तस्य स्वाङ्गत्वं भवति। अथ वा - तस्य चेदं प्राणिनस्तत् स्वाङ्गं तथा यदि युतं सम्भवति यथा प्राणिनः, एवमपि स्वाङ्गं भवति।अन्येषां पाठः- तेन चेतत्तथा युतम् इति। तेन प्राणिना येन प्रकारेण संस्थानविशेषादिना सम्बद्धं तथा यद्यप्राणिनापि सम्बद्धं भवति, एवमपि स्वाङ्गं भवति। अथ वा -तेनाप्राणिना तन्मुखादि यदि तथा युतम् = सम्बद्धं भवति यथा प्राणिना, एवमपि स्वाङ्गं भवति। अथ वा तेन चेन्मुरवादीनां स्वाङ्गेन तदप्राणिस्थं द्रव्यं तथा यदि युतं भवति यथा प्राणिद्रव्यम्, एवमपि स्वाङ्गं भवतीति। सर्वथाययमर्थः - यादृशं प्राणिनो मुखादि स्वाङ्गं तादृशमेव यद्यप्राणिनोऽपि भवति स्वाङ्गमेवमेव भवतीति॥

Praudhamanorama

सुमुखा शालेति। एवं च फलमुखी कारणमुखी चानवस्थेत्यादिप्रयोगाः प्रामादिका इति बोध्यम्।

Prakriyasarvasvam

असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताद् वा ङीष् स्यात् । सुमुखी, सुमुखा । अतिकेशी, अतिकेशा । संयोगोपधात् तु न । सुवक्त्रा । ‘अङ्गगात्रकण्ठेभ्यो वेष्यते’ । स्वङ्गी, स्वङ्गेत्यादि । <karika>अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत् तथायुतम् ॥ ४९१ ॥</karika> द्रवत्वेन स्वाङ्गत्वाभावाद् बहुस्वेदा । मूर्तिमत्त्वाभावात् सुज्ञाना । प्राणिस्थ त्वाभावात् सुमुखा शाला । विकारजत्वाद् बहुशोफा । सम्प्रत्यप्राणिस्थमपि प्राक् प्राणिनि दृष्टं चेत् स्वाङ्गम् । बहुकेशी रथ्या । अप्राणिन्यपि प्राणिवदेव योजितं चेत् स्वाङ्गम् । सुस्तनी प्रतिमा ॥

Sutra Prayogas

  • सुगात्रि (रघुवंशम्): अङ्गगात्रकण्ठेभ्यश्च इति वक्तव्यात् ङीप्।

  • सुकेशी (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष् ।

  • पर्याप्तपुष्पस्तबकस्तनाभ्यः (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति विकल्पान्न ङीप्।

  • वसुधालिङ्गनधूसरस्तनी (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष्।

  • विकीर्णकेशासु (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति विकल्पान्न ङीष्।

  • कुटिलकेशि (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादंसयोगोपधात् इति ङीप् ।

  • चारुमुखि (कुमारसम्भवम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष् ।

  • मन्थरावल्गितपीवरस्तनीः (किरातार्जुनीयम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीप् ।

  • स्तनभरनमिताङ्गीः (किरातार्जुनीयम्): अङ्गगात्रकण्ठेभ्यो वक्तव्यम् इति ङीप् ।

  • स्मरासन्नतापाङ्गया (शिशुपालवधम्): अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम् (वृत्तिवा०) इति वार्त्तिकेन ङीषो विकल्पात् पक्षे टाप्।

  • विनिवारितोदराः (शिशुपालवधम्): स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीषो विकल्पितत्वादत्र टाप्।

  • चारुस्तनया (शिशुपालवधम्): स्वाङ्गाच्चो पसर्जनादसंयोगोपधात् इति विकल्पादनीकारः।

  • शूर्प-णखा (भट्टिकाव्यम्): स्वाङ्गाच्च इति ङीपि प्राप्ते।