41049: इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्

Padacheda: इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणाम् | S | 6 | 3 |

आनुक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The augment आनुक् is added to the Proper Nouns 1. इन्द्र 2. वरुण 3. भव 4. शर्व 5. रुद्र and 6. मृड and to the words 1. हिम ‘snow’ 3. अरण्य ‘forest’ 4. यव ‘barely’ 5. यवन ‘a Yavana’ 6. मातुल ‘a maternal uncle’ and 7. आचार्य ‘a perceptor’, before the feminine affix ङीष्।

Vasu English Translation

The augment आनुक् is added to the Proper Nouns 1. इन्द्र 2. वरुण 3. भव 4. शर्व 5. रुद्र and 6. मृड and to the words 1. हिम ‘snow’ 3. अरण्य ‘forest’ 4. यव ‘barely’ 5. यवन ‘a Yavana’ 6. मातुल ‘a maternal uncle’ and 7. आचार्य ‘a perceptor’, before the feminine affix ङीष्। The augment आनुक् is added to the Proper Nouns इन्द्र, वरुण, भव, शर्व, रुद्र, and मृड, and to the words हिम ‘snow’, अरण्य ‘a forest’, यव ‘barley’, यवन ‘a Yavana’, मातुल ‘a maternal uncle’, and आचार्य ‘a preceptor’, before the feminine affix ङीष् ॥

The present sutra teaches two things, the addition of the augment आनुक् (आन्) and secondly the feminine affix ङीष् ॥ Out of the above words, in case of those about which matrimonial relation is desired to be expressed, i. e. the Proper Nouns up to मृड, the present sutra teaches only the addition of the augment आनुक्, for in their case, the affix ङीष् would follow by force of the preceding Sutra. In the case of the remaining words, it teaches both these things. Thus इन्द्राणी ‘the wife of Indra’, वरुणानी ‘the wife of Varuna’, भवानी ‘the wife of Bhava’, शर्वाणी ‘the wife of Sarva’, रुद्राणी ‘the wife of Rudra’, मृडानि ‘the wife of Mrida’.

Vart:- Of the words हिम and अरण्य, there is the augment अनुक् in the sense of greatness. Thu हिमानी ‘a glacier, much snow’, अरण्यानी ‘a great forest’. Otherwise these words are always Neuter and never take feminine·

Vart:- After the word यव ‘barley’ the feminine affix and the augment are added in the sense of fault. The fault consists in its imitating barley while not being a barley. In fact the word denotes a new and inferior sort of grain. Thus यवानी “a kind of grain, oat”.

Vart:- After the word यवन, the affix and the augment are added in the sense of handwriting. Thus यवनानी ‘the written character of the Yavanas’.

Vart:- Of the words मातुल ‘a maternal uncle’, and उपाध्याय ‘a preceptor’, when the feminine affix comes to express the wife thereof, the augment आनुक् is optional. Thus मतुलानी or मातुली ‘the wife of a maternal uncle’ उपाध्यायानी or उपाध्यायी ‘the wife of a preceptor’.

Vart:- And there is not the change to the lingual ण् of the dental न् of the augment आनुक् (8.4.2) after the word आचार्य ॥ Thus आचार्यानी or आचार्या ‘the wife of a preceptor’.

Vart:- After the words अर्य and क्षत्रिय this rule applies optionally : when the matrimonial relation is not intended but the word retains its own sense. Thus अर्याणी or अर्या ‘the female of the Arya or Vaishya class’, क्षत्रियाणी or क्षत्रिया ‘a female of the Kshatriya class’. When matrimonial relation is to be expressed, then only ङीष् is added. As अर्यी ‘the wife of a Vaishya’, क्षत्रियी ‘the wife of a Kshatriya’.

Vart:- In the Chhandas, the affix ङीष् with the augment आनुक् is added to the word मुद्गल; and the affix is treated as if it had an indicatory ल् ॥ The force of the indicatory ल् is to make the vowel preceding the affix, take the acute accent (VI.1.193 लिति). Thus रथीरभून् मुद्गलानी गविष्टौ ॥ (Rig Veda X. 102.2).

Bhashya

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् (1304) (आनुगधिकरणम्) (5181 अर्थनियामकवार्तिकम्॥ 1 ॥) - हिमारण्ययोर्महत्त्वे - (भाष्यम्) हिमारण्ययोर्महत्त्व इति वक्तव्यम्। महद्धिमं हिमानी, महदरण्यमरण्यानी॥ (5182 अर्थनियामकवार्तिकम्॥ 2 ॥) - यवाद्दोषे - (भाष्यम्) यवाद्दोष इति वक्तव्यम्। दुष्टो यवो यवानी॥ (5183 अर्थनियामकवार्तिकम्॥ 3 ॥) - यवनाल्लिप्याम् - (भाष्यम्) यवनाल्लिप्यामिति वक्तव्यम्। यवनानी लिपिः॥ (5174 प्राप्ताप्राप्तविकल्पवार्तिकम्॥ 4 ॥) - उपाध्यायमातुलाभ्यां वा - (भाष्यम्) उपाध्यायमातुलाभ्यां वेति वक्तव्यम्। उपाध्यायी, उपाध्यायानी, मातुली, मातुलानी॥ (5185 विधिवार्तिकम्॥ 5 ॥) - मुद्गलाच्छन्दसि लिच्च - (भाष्यम्) मुद्गलाच्छन्तसि लिच्चेति वक्तव्यम्। रथीरमून्मुद्गलानी॥ (5186 विधिवार्तिकम्॥ 6 ॥) - आचार्यादणत्वं च - (भाष्यम्) आचार्यादणत्वं चेति वक्तव्यम्। आचार्यानी॥ (5187 विकल्पविधायकवार्तिकम्॥ 7 ॥) - अर्यक्षत्रियाभ्यां वा - (भाष्यम्) अर्यक्षत्रियाभ्यां वेति वक्तव्यम्। अर्या, अर्याणी, क्षत्रिया, क्षत्रियाणी॥

Kashika

इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष् प्रत्ययो भवति, आनुक् चागमः। येषामत्र पुंयोग एवेष्यते, तेषामानुगागममात्रं विधीयते। प्रत्ययस्तु पूर्वेणैव सिद्धः। अन्येषां तूभयं विधीयते। इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी ॥ हिमारण्ययोर्महत्त्वे॥ महद्धिमं हिमानी। महदरण्यमरण्यानी॥ यवाद् दोषे॥ दुष्टो यवो यवानी॥ यवनाल्लिप्याम्॥ यवनानी लिपिः॥ उपाध्यायमातुलाभ्यां वा॥ उपाध्यायी, उपाध्यायानी। मातुली, मातुलानी॥ आचार्यादणत्वं च॥ आचार्यानी।॥ अर्यक्षत्रियाभ्यां वा॥ अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया। विना पुंयोगेन स्वार्थ एवायं विधिः। पुंयोगे तु ङीषैव भवितव्यम्। अर्यी। क्षत्रियी॥ मुद्गलाच्छन्दसि लिच्च॥ र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ (ऋ० १०.१०२.२)॥

Siddhanta Kaumudi

एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥<!हिमारण्ययोर्महत्त्वे !> (वार्तिकम्) ॥ महद्धिमं हिमानी । महदरण्यमरण्यानी ॥<!यवाद्दोषे !> (वार्तिकम्) ॥ दुष्टो यवो यवानी ॥<!यवनाल्लिप्याम् !> (वार्तिकम्) ॥ यवनानां लिपिर्यवनानी ।<!मातुलोपाध्याययोरानुग्वा !> (वार्तिकम्) ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥<!या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः !> (वार्तिकम्) ॥ उपाध्यायी । उपाध्याया । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥<!अर्यक्षत्रियाभ्यां वा स्वार्थे !> (वार्तिकम्) ॥ अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यण् (SK2913) ॥

Laghu Siddhanta Kaumudi

एषामानुगागमः स्यात् ङीष् च। इन्द्रस्य स्त्री - इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी। हिमारण्ययोर्महत्त्वे (वार्त्तिकम्) । महद्धिमं हिमानी। महदरण्यमरण्यानी। यवाद्दोषे (वार्त्तिकम्) । दुष्टो यवो यवानी। यवनाल्लिप्याम् (वार्त्तिकम्) । यवनानां लिपिर्यवनानी। मातुलोपाध्याययोरानुग्वा (वार्त्तिकम्) । मातुलानी, मातुली। उपाध्यायानी, उपाध्यायी। आचार्यादणत्वं च (वार्त्तिकम्)। आचार्यस्य स्त्री आचार्यानी। अर्यक्षत्रियाभ्यां वा स्वार्थे (वार्त्तिकम्) । अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया॥

Balamanorama

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक् - इन्द्रवरूण । आनुगागम इति । कित्त्वादागमलिङ्गादिति भावः । ङीष् चेति । ‘अन्यतो ङीष’ इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति । पुंयोगादित्यनुवृत्तेः, तेषां स्त्रीत्वे पुंयोगं विनाऽप्रवृत्तेश्चेति भावः । नन्वेवं पुंयोगादित्येव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — तत्रेति । तत्र इन्द्रादिषु षट्सुमातुलाचार्ययोश्च पुंयोगादित्येव ङीषि सिद्धे तत्संनियोगेन आनुगागममात्रं विधीयत इत्यर्थः । इतरेषामिति । हामारण्ययवयवनानां तु आनुक् ङीष् चेत्युभयं विधीयते, तत्र पुंयोगस्याऽसंभवादिति भावः । इन्द्राणीति । आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः । वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानीत्युदाहरणानि सुगमत्वादुपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्तिः, अकारोच्चारणस्य अल्लोपनिवृत्त्य चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः ।हिमारण्योर्महत्त्वे — इति वार्तिकम् । महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुङ्ङीषावित्यर्थः । महद्धिमं हिमानीति । महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम् । अरण्यानीति । महदरण्यमित्यर्थः ।यवाद्दोषे — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः । दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् — इत्यपि वार्तिकम् । विपिरक्षरविन्यासः । तत्र लक्षमया वृत्तौ आनुङ्ङीषावित्यर्थः ।मातुलोपाध्याययोरानुग्वेति । इदमपि वार्तिकम् । अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवाऽत्र असम्भवाऽभावात् । अत्र आनुगेव तु विकल्प्यते, आनुगभावेऽपि पक्षे ङीष् भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम् । मातुलानी मातुलीति । मातुलस्य स्त्रीत्यर्थः । उपाध्यायानी उपाध्यायीति । उपाध्यायस्य स्त्रीत्यर्थः ।या तु स्वयमेवेति । इदं तु वार्तिकं तृतीयस्य तृतीयस्य तृतीयेइहश्चे॑ति सूत्रे पठितम् । या स्वयमेवाध्यापयति न तूपाध्यायस्य स्त्री, तत्र पुंयोगाऽभावेऽपि केवलङीष्विकल्पो वाच्य इत्यर्थः । युगान्तरे ब्राहृवादिन्यः स्त्रियः सन्ति तद्विषयमिदम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्री वचनं तथा.॑ इति स्मरणात् ।आचार्यादणत्वं च — इत्यपि वार्तिकम् । चकार आनुङ्ङीषोः समुच्चयार्थः । आचार्यानीति । आचार्यस्य स्त्रीत्यर्थः ।अट्कुप्वा॑ङिति णत्वं न भवति ।उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ ‘एकदेशमुपाध्यायः’ इति स्मृतिः । पुंयोग इत्येवेति । पुंयोगग्रहणमनुवर्तते एवेत्यर्थः । तत्प्रयोजनमाह — आचार्येति । अत्र पुंयोगाऽभावं विशदयति — स्वयं व्याख्यात्रीति । धर्मोपदेष्ट्रीत्यर्थः ।यस्माद्धर्मानाचिनोति स आचार्यः इति स्मरणादिति भावः ।अर्यक्षत्रियाभ्यां वा — इति वार्तिकम् ।आनुङ्ङीषा॑विति शेषः ।स्वार्थे॑ति व्याख्यानलभ्यं, तेन पुंयोगनिरासः । अत एव भाष्ये ‘आर्याणी अर्या’ इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्यायीतिवदर्यीति ङीषमेवोदाहरेत् । अर्यशब्दं व्याचष्टे — स्वामिनी वैश्या वेत्यर्थ इति ।अर्यः स्वामिवैश्ययोः॑ इति निपातनादिति भावः । क्षत्रियाणी क्षत्रियेति । क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्युपक्रम्यविन्नास्वेष विधिः स्मृतः॑ इति स्मरणात् । विन्नास्वित्यस्य ऊढास्वित्यर्थः । पुंयोगे तु अर्यी क्षत्रियीति । अर्यस्य स्त्री अर्यी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः । कथमिति ।इन्द्रवरुण॑त्यादिसूत्रे ब्राहृन्शब्दस्याऽग्रहणाद्ब्राहृणः स्त्रीत्यर्थे ब्राहृणीत्यानुङ्ङीषौ कथमिति प्रश्नः । उत्तरमाह — ब्राहृआणमिति । आनयतीत्यस्य व्याख्यानं-जीव्यतीति ।अन प्राणने॑ । प्राणनं जीवनम् । अस्माद्धातोर्हेतुमण्णिचि उपधावृद्धौ तिपि शपि गुणाऽयादेशयोरानयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् । ततस्च ब्राहृआणमानयतीति विग्रहे ‘आनि’ इति ण्यन्तात्कर्मण्यणि॑त्यपिणेरनिटी॑ति णिलोपे आनशब्देन ब्राहृआणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीर्घे ब्राहृआनशब्दात्टिड्ढाणञि॑ति ङीपियस्येति चे॑त्यकारलोपेपूर्वपदात्संज्ञाया॑मिति णत्वे ब्राहृणीति रूपमिति भावः । ‘एकाजुत्तरपदे’ इति तु न, अणि सति प्रातिपदिकस्य द्व्यच्कत्वाल्लुप्तेऽप्यणि लोपस्य स्थानिवत्त्वात् ।पूर्वत्रासिद्धीये न स्थानिवत् इति तु न, ‘तस्य दोषः’ इत्युक्तेः ।

Tattvabodhini

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक् - यवाद्दोषे । दुष्टो यवो यवानीति । जात्यन्तरमेवानेनामिधीयते । अयमेव चाऽस्य दोषो यस्माद्धि यवत्वजातेरभावेऽपि तदाकारानुकृतिः ।यवनाल्लिप्याम् । वा ङीष्वाच्य इति । इदं चइङश्चे॑ति घञ्विधायकसूत्रस्थं वार्तिकम् । वक्ष्यति च तत्र -॒अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च बा ङी॑षिति । उपाध्यायी — उपाध्यायेति । उपेत्य अस्या अधीयत इति विग्रहः । स्वार्थैति । यदि तु पुंयोगे एवायं विधिः स्याच्छूद्रापि क्षत्त्रियस्य भार्या क्षत्त्रियाणी स्यात् । ब्राआहृणभार्या च क्षत्त्रिया क्षत्त्रियाणी स्यादिति भावः ।अर्यक्षत्त्रियाभ्यां वा स्वार्थे । वैश्या वेत्यर्थं इति ।अर्यः स्वामिवैश्ययो॑रित्यर्थद्वये निपातनादिति भावः । अत्राऽमरस्य सङ्ग्रहः -॒अर्याणी स्वयमर्या स्यात्क्षत्त्रिया क्षत्त्रियाण्यपि । उपाध्यायाऽप्युपाध्यायी स्यादाचार्यापि च स्वतः । आचार्यानी सु पुंयोदे स्यादर्यी क्षत्त्रियी तथा । उपाध्यायाऽप्युपाध्यायी -॑इति । कथमिति । सूत्रे ब्राहृआन्शब्दस्याऽग्रहणादानुगनुपपन्न एवेति प्रश्नः । उत्तरं तु -ब्राहृआणमानयतीत्यादि । ण्यन्तात्अन प्राणने॑इत्यस्मात्कर्मण्यणिणेरनिटी॑ति णिलोपेटिड्ढाण॑ञिति ङीपिपूर्वपदाक्संज्ञाया॑मिति णत्वे चब्राहृआणी॑ति रूपसिद्धेरिति भावः ।

Padamanjari

येषायिति । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च । अन्येषामिति । हिमादीनाम् । हिमारण्ययोर्महत्व इति । महत्वयोगेनानयोः स्त्रीत्वम्, अन्यत्र नपुंसकत्वम् । दुष्टो यव इति पाठः । यवानीति । जात्यन्तरमेवाभिधीयते, अयमेव च दोषो यदुत यवत्वजातेरभावे तदाकारानुकृतिः । यवनाल्लिप्यामिति । केचिज्जनपदिनो यवनास्तेषां लिपिः,’तस्येदम्’ इत्यणो बाधको ङीष् । लिपिशब्दः स्त्रीलिङ्गः । उपाध्यायमातुलाभ्यां वेति । उपाध्यायमातुलाभ्यां यो ङीष् तत्सन्नियोगेनानयोर्वाऽऽनुगागमो भवतीति वक्तव्यमित्यर्थः । तत्रोपाध्यायस्याप्राप्तो मातुलस्य तु नित्यं प्राप्त आनुग्विकल्प्यते । आचार्यादणत्वं चेति । क्षुभ्नादिषु पठितव्यमित्युक्तं भवति । अर्यक्षत्रियाभ्यां वेति । ङीषानुकौ द्वावप्यप्राप्तौ विकल्प्येते । स्वार्थ एवायं विधिरिति । यदि तु पुंयोगेऽयं विधिः स्याच्छूअद्रापि क्षत्रियस्य भार्या क्षत्रियाणी स्यात्, ब्राह्मणभार्या च क्षत्रियाणी न स्यात् । तस्मात्स्वार्थ एव स्त्रीत्वविशिष्टोऽयं विधिः । मुद्गलादिति । ङीषो लित्वादानुगाकारस्य लित्स्वरः । अथ किमर्थमानुग्विधीयते, न अनुगेवोच्येत, अकारोच्चारणसामर्थ्यादतो गुणे पररूपं बाधित्वा सवर्णदीर्घत्वं भविष्यति, अन्यथा नुगेवोच्येत, यथैव तर्हि पररूपं न भवति तथैव सवर्णदीर्घत्वमपि न स्यात् ? नैष दोषः; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, तस्य तु विधेर्निमितमेव नासौ बाध्यते, तस्मादानुगेव वक्तव्यः । अपर आह - ठिन्द्रमाचष्टे इन्द्रयति, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्री इन्द्राणी, अत्र दीर्घस्य श्रवणम्, दीर्घाच्चारणसामर्थ्यादत इत्यधिकारो बाध्यतेऽ इति, एवमपि क्विबन्तः पुंस आख्या न भवति ॥

Nyaas

येषाम् इति। इन्द्राणीनाम्। अन्येषां तु इति। हिमादीनाम्। अथ किमर्थमानुक् क्रियते, अनुगेव नोच्येत, तेन सवर्णदीर्घत्वेन सिध्यति? न सिध्यति; अतो गुणे (6.1.97) इति पररूपत्वं हि प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति, पररूपे हि नुगेव वक्तव्यः स्यात्। एवं तह्र्रकारोच्चारणसमथ्र्याद्भविष्यति। ल्वरसन्धिरेव न भवतीत्येवमपि विज्ञायते। तस्मान्मैवं विज्ञायीत्यानुगेव वक्तव्यः। अथ वा - इन्द्रमाचष्ट इति तत्करोति तदाचष्टे (वा।200,201) इति णिचि णाविष्टवत् प्रातिपदिकस्य (वा।813) इति टिलोपः, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्रीन्द्राणीत्यत्र दीर्घघस्याकारस्य श्रवणं यथा स्यादित्येवमर्थमानुको विधानम्। आनुकि हि सति दीर्घो न श्रूयेत। ननु च नैवात्र ङीषा भवितव्यम्, अत इत्यधिकारात्? दीर्घोच्चारणसामर्थ्याद्भविष्यति।हिमारण्ययोर्महत्त्वे इति। महत्त्वेन युक्ता हिमादयः स्त्रीलिङ्गेनाभिसम्बध्य्नते यदा, तदा स्त्रीत्वविवक्षायामनयोः प्रत्ययागमयोर्विधानमित्येतदनेनाख्यायते, न तु स्त्रीप्रत्ययस्यायमपवाद उच्यते। स्त्रीत्व एव हि प्रत्ययो भवति।यथाद्दोषे`इति। यवाद्दोषे गम्यमाने स्त्रियां ङीष् भवति - दुष्टो यवो यवानी।`यवनाल्लिप्याम् इति। यवनानां लिपिः इति। तस्येदम् (4.3.120) इत्यप्प्रसङ्गे ङीष् विधीयते, स तु तदर्थस्य ङीषैव द्योतितत्वान्न भवति। आचार्यदणत्वञ्च इति। नेदमपूर्वं वक्तव्यम्, क्षुभ्नादिष्वस्य पाठात्।स्वार्थ एवायं विधिः इति। एवकारेण पुंयोगो व्यवच्छिद्यते। यदि हि पुंयोगे विधिरयं स्यात् शूद्राऽपि क्षत्रियस्य भार्या क्षत्रियाणीति स्यात्। तस्मात् स्वार्थे एवायं विधिः - क्षत्रियैव क्षत्रियाणीति। पुंयोगे तु ङीषैव भवितव्यम् इति। पूर्वसूत्रेण।`लिच्च`इति। कस्य तल्लित्वम्? आनुकः। तथा हि - मुद्गलानीशब्दस् द्वितीय उदात्त आम्याये पठते। ङीषस्तु लित्वे तृतीय उदात्तः स्यात्॥

Praudhamanorama

दुष्टो यवो यवानीति। जात्यन्तरमेवानेनाभिधीयते। अयमेव अस्य दोषः— यदुक्तयवत्वजातेरभावेऽपि तदाकारानुकृतिः। ङीष् वाच्य इति। इदञ्च तृतीये भाष्ये ‘इङ्श्च’ इति सूत्रे स्थितम्। कथमिति। यत्तु वदन्ति— दीर्घोच्चारणसामर्थ्याद् आ अनुक् इति पदं विभज्यते। तत्रेन्द्रादीनामानुकैव सिद्धे आकारादेशविधानसामर्थ्यात् क्वचिदन्यतोऽपि विधानमनुमीयते। तेन ब्रह्माणीति सिद्धमिति; तच्चिन्त्यम्, अनुकि कृते ‘अतो गुणे’ इति पररूपप्रसङ्गात्। नन्वकारोच्चारणसामर्थ्यात् दीर्घो भविष्यति, अन्यथा हि नुकमेव कुर्यादिति चेत्? ‘अल्लोपोऽनः’ इत्यस्य बाधेन चरितार्थत्वात्। ‘पत्युर्नो’ इत्यादिवदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेवाल्लोपो न भविष्यतीति चेत्? न, शर्वशब्दे ककारस्य चारितार्थ्यात्। न हि तत्र लोपोऽस्ति, ‘न संयोगात्’ इति निषेधात्। तस्मात् ककाराकारयोः सामर्थ्यविरहो पररूपबाधनार्थं दीर्घोच्चारणमावश्यकमिति। एतेनानुक् ह्रस्वादिरेव लाघवाद्वक्तव्य इति हरदत्तोक्तिः परास्ता। कर्मण्यणिति। तदन्तान्ङीप्। ‘पूर्वपदात्संज्ञायाम्’ इति णत्वम्।

Prakriyasarvasvam

इन्द्रादेः स्त्रियां ङीषानुगागमश्च स्यात् । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । ब्रह्माणी सूर्याणी च कौमुद्याम् । ‘हिमारण्ययोर्महत्त्वे’ । महद्धिमं हिमानी । महदरण्यमरण्यानी । ‘यवाद्’ दोषे । यवानी दुष्टयवभेदः । ‘यवनाल्लिप्याम्’ । यवनानी लिपिः । ‘मातुलोपाध्यायाभ्यां वा’ । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी । ‘अस्यापुंयोगे वा ङीष् वाच्यः’ । उपाध्याया उपाध्यायी चाध्यापयित्री स्त्री । ‘आचार्यादणत्वं च’ । आचार्यानी, आचार्या । अपुंयोगे त्वाचार्या । ‘आर्यक्षत्रियाभ्यां वा स्वार्थे’ । आर्याणी । आर्या । क्षत्रियाणी, क्षत्रिया । पुंयोगे तु ङीषेव । आर्या, क्षत्रियी ॥

Vartika

हिमारण्ययोर्महत्त्वे ।

Sutra Prayogas

  • भवान्या (कुमारसम्भवम्): इन्द्रवरुणभवशर्वरुद्र… इत्यादिना ङीष् आनुगागमश्च।

  • हिमानीविशदैः (किरातार्जुनीयम्): इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् इति ङीप् आनुगागमश्च।

  • भवान्याः (किरातार्जुनीयम्): इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् इति ङीप् आनुगागमश्च।

  • अरण्यानीं (भट्टिकाव्यम्): इन्द्र-वरुण इत्यादिना हिमारण्ययोर्महरवे ङीपानुकौ।

  • इन्द्राणी (भट्टिकाव्यम्): इन्द्र-वरुण इत्यादिना आंनुकू।