41040: अन्यतो ङीष्

Padacheda: अन्यतः | S | 0 | 0 |

ङीष् | S | 1 | 1 |

Sutrartha

यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारभिन्नः वर्णः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।

विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययस्य विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति, तथा च यस्य उपधायाम् तकारभिन्नः कश्चन वर्णः विद्यते; तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् **ङीष् इति प्रत्ययः भवति** — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —‌

  1. सारङ्ग+ ङीष् → “सारङ्गी” ।

  2. कल्माष + ङीष् → “कल्माषी” ।

  3. शबल + ङीष् → “शबली” ।

  4. कर्बुर+ ङीष् → “कर्बुरी” ।

प्रकृतसूत्रे “अन्यतः” इति शब्दः प्रयुक्तः अस्ति । अयं शब्दः तकारोपधः इत्यनेन सह अन्वेति; अतः “अन्यतः” इत्यस्य अर्थः “तकारोपधात् अन्यः” इति क्रियते । तकारोपधशब्दानां विषये स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति इति अत्र आशयः । तेषां विषये वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इति पूर्वसूत्रेण वैकल्पिकः ङीप्-प्रत्ययः भवति; पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः अपि विधीयते ।

दलकृत्यम्

  1. ‘वर्णवाचकशब्दः’ इति किमर्थम् ? “खट्व” इति शब्दः अनुदात्तान्तः अस्ति, अकारान्तः अस्ति परन्तु वर्णवाचकः नास्ति; अतः तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्मात् शब्दात् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “खट्वा” इति शब्दः सिद्ध्यति ।

  2. ‘अनुदान्तान्तः वर्णवाचकशब्दः’ इति किमर्थम् ? “कृष्ण”, “कपिल” एतौ शब्दौ अकारान्तौ स्तः परन्तु एतयोः अन्तिमः स्वरः अनुदात्तः नास्ति (स्वरितः अस्ति) । अतः एताभ्याम् विषये प्रकृतसूत्रं न प्रवर्तते; अपितु अजाद्यतष्टाप् (4.1.4) इति आकारादेशे कृते “कृष्णा”, “कपिला” इत्येव शब्दौ सिद्ध्यतः ।

ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्

ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —

  1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । ङ्याप्प्रातिपदिकात् (4.1.1) इत्यस्मिन् सूत्रे विद्यमानेन ‘ङी’ इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।

  2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् ‘ङी’ इत्युच्यमाने ङ्याप्प्रातिपदिकात् (4.1.1) इत्यत्र; तथा च ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इत्यत्रापि तदनुबन्धके न अतदनुबन्धकस्य अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।

ङीप्/ङीष्-प्रत्यययोः भेदः

ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।

Vasu English Summary

The affix ङीष् is used in the feminine after every other word expressive of colour and ending with an अनुदात्त accent.

Vasu English Translation

The affix ङीष् is used in the feminine after every other word expressive of colour and ending with an अनुदात्त accent. The word वा of (4.1.38) does not govern this sutra. The word अन्यतः means in other cases than those governed by the last aphorism i.e. after words which have not त as penultimate. The difference between nip and nish affixes consists in accent, the former being gravely accented (111.1. 4) and the latter acute. Thus सारङ्गी, कल्माषी, शबली ॥

When the word does not express color, this rule does not apply. As खट्वा ‘a bed-sted’.

When the word does not end with a gravely accented vowel, this will not apply, as, कृष्णा , कपिला ॥

Kashika

वेति निवृत्तम्। वर्णादनुदात्तादिति वर्तते, तोपधापेक्षमन्यत्वम्। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति। स्वरे विशेषः। सा॒र॒ङ्गी। क॒ल्मा॒षी। श॒ब॒ली। वर्णादित्येव — खट्वा॑। अनुदात्तादित्येव — कृ॒ष्णा। क॒पि॒ला॥

Siddhanta Kaumudi

तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि (SK42)) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥

Balamanorama

अन्यतो ङीष् - अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति चानुवर्तते । तत्र कस्मादन्यत इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति — तोपधापेक्षया अन्यत इति । तदाह — तोपधभिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे॑ इत्यमरः । सारङ्गीति । सारङ्गः शबले त्रिषु॑ इत्यमरः । ‘फिषोऽन्त उदात्तः’ इत्यन्तोदात्तत्वशङ्कां व्युदस्यति — लघाविति । एतत्सूत्रंवृषाकपी॑ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः ।

Tattvabodhini

अन्यतो ङीष् - लघा४वन्त इति । अन्ते एकस्मिन् लघौ द्वयोश्च लध्वोः परतो बह्वषो=बह्वच्कस्य गुरुरुदात्तः स्यात् ।अ॑षित्यचः प्राचां संज्ञा । कृष्णोत्यादि ।कृषश्चे॑ति नक्प्रत्ययेकपेश्चे॑ति सौत्राद्धातोरौणादिके इलचि च कृष्णकपिलावन्तोदात्तौ ।

Padamanjari

सारङ्गकल्माषशब्दौ’लघावन्ते’ इति मध्योदातो,’शप आक्रोशे’ ,’कल तृपः’ ,’शपेर्बश्च’ इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदातः शबलशब्दः । खट्वाशब्दो नित्स्वरेणाद्यौदातः,’खट् काङ्क्षे’ , ठसूप्रुषिलटिकणिखटिविशिभ्यः क्वन्ऽ । कृष्णशब्दोऽन्तोदातः,’कृषेर्वर्णे’ इति नक् प्रत्ययः, इलचि प्रकृते’कपेश्च’ इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदातः ॥

Nyaas

सारङ्गी, कल्माषी इति। लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्तौ सारङ्गकल्मावशब्दौ। शवली इति। शप अक्रोशे (धातुपाठः-1000), कलस्तृपश्च (द।उ।8।107) इति शपेर्वश्च (द।उ।8।108) इति कलप्रत्ययः, पकारस्य बकारः, प्रत्यायाद्युदात्तत्वेन मध्योदात्तः शबलशब्दः। खट्वा इति। खट काङ्क्षायाम् (धातुपाठः-309), `अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् (द।उ।8।125) इति क्वन्, नित्सर्वेरणाद्युदात्तः खट्वाशब्दाः। कृष्णा इति। कृष विलेखने (धातुपाठः-990) {इण्सिञ्दीङुष्यविभ्यो नक् -द।उ।) इण्सिञ्जिदीङुष्यविभ्यो नक्, कृषेर्वर्णे (द।उ।5।35।37) इति नक्, प्रत्ययस्वरेणान्तोदात्तः कृष्णशब्दः। कपिला इति। कमु कान्तौ (धातुपाठः-443) सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (पं।उ।155), कमेः पश्च (पं।उ।1।56) इति मकारस्य पकारः, चित्स्वरेणाणान्तोदात्तः कपिलाशब्दः॥

Praudhamanorama

लघाविति। अन्ते एकस्मिन् लघौ, द्वयोश्च लघ्वोः परतो बह्वषो- बह्वच्कस्य गुरुरुदात्तः स्यात्। अष् इति अचः प्राचां संज्ञा। कृष्णेति। ‘कृषेश्च’ इति नप्रत्यये ‘कपेश्च’ इति सौत्राद्धातोरौणादिके इलचि च कृष्ण-कपिलावन्तोदात्तौ।

Prakriyasarvasvam

तोपधेभ्योऽन्यतो वर्णदिनुदात्तान्ततोऽत्र ङीष् । <karika>शबली चापि सारङ्गी कल्मषी ङीष्फलं स्वरे ॥ ४८१ ॥ भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः । शबला तटभूश्चेति प्रयोगौ त्वर्शआद्यचि ॥ ४८२ ॥</karika> षिद्गौरादिभ्यश्च (४-१-४१) ष्वुन्-नर्तकी । खनकी । गौरी । मनुष्य- मत्स्यक्रोष्ट्रवनडुहोऽत्र पठ्यन्ते । मनुष्यस्य ‘हलस्तद्धितस्य’ (६-४-१५०) इति यलोप इति माधवः । मनुषी । ‘सूर्येतिष्ये’—ति मत्स्यस्य ङयां यलोपः । मत्सी ॥