41055: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च

Padacheda: नासिक-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And the feminine ङीष् comes optionally after compounds ending with 1. नासिका ‘a nose’ 2. उदर ‘belly’ 3. ओष्ठ ‘lip’ 4. जंघा ‘leg’ 5. दन्त ‘tooth’ 6. कर्ण ‘ear’ and 7. शृङ्ग ‘horn’.

Vasu English Translation

And the feminine ङीष् comes optionally after compounds ending with 1. नासिका ‘a nose’ 2. उदर ‘belly’ 3. ओष्ठ ‘lip’ 4. जंघा ‘leg’ 5. दन्त ‘tooth’ 6. कर्ण ‘ear’ and 7. शृङ्ग ‘horn’. This is an exception to the last and the succeeding sutra. Some of the words above given are either such which have a conjunct penultimate letter, and thus beyond the scope of (4.1.54); or they are polysyllabic words and thus covered by (4.1.56). Though this rule is an exception to (4.1.54) and (4.1.56); yet it is qualified by (4.1.57). Thus तुङ्गनासिका or तुङ्गनासिकी, तिलोदरी or तिलोदरा, बिम्बोष्ठी or बिम्बोष्ठा, दीर्घजंघी or दीर्घजंघा, समदन्ती or समदन्ता, चारुकर्णी or चारुकर्णा, तीक्ष्णसृङ्गी or तीक्ष्णशृङ्गा ॥

Vart:- So also after the word पुच्छ ‘tail’. As कल्याणपुच्छा or कल्याणपुच्छी ॥

Vart:- The affix nish comes necessarily and not optionally after compounds of पुच्छ with कबर, मणि, विष and शर ॥ As, कबरपुच्छी ‘a peahen’ मणिपुच्छी, विषपुच्छी, ‘a scorpion’ and शरपुच्छी ॥

Vart:- So also the feminine affix nish is necessarily employed after the words पक्ष and पुच्छ when used as a simile or as objects of comparison. As उलूकपक्षी सेना, उलूकपुच्छी शाला ॥

Bhashya

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (1308) (ङीष्विकल्पाधिकरणम्) (5198 विधिवार्तिकम्॥ 1 ॥) - नासिकादीनां विभाषायां पुच्छाच्च - (भाष्यम्) नासिकादीनां विभाषायां पुच्छाच्चेति वक्तव्यम्। कल्याणपुच्छी, कल्याणपुच्छा। (5199 विधिवार्तिकम्॥ 2 ॥) - कबरमणिविषशरेभ्यो नित्यम् - (भाष्यम्) कबरमणिविषशरेभ्यो नित्यमिति वक्तव्यम्। कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी॥ (5200 विधिवार्तिकम्॥ 3 ॥) - उपमानात्पक्षाच्च पुच्छाच्च - (भाष्यम्) उपमानात्पक्षात्, पुच्छाच्चेति वक्तव्यम्। उलूकपक्षी शाला, उलूकपुच्छी सेनेति। (5201 विधिनिषेधयोर्विप्रतिषेधबोधकवार्तिकम्॥ 4 ॥) - नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो विप्रतिषेधेन - (भाष्यम्) नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन। नासिकादिभ्यो विभाषाया अवकाशः -कल्याणनासिकी, कल्याणनासिका। सहनञ्ञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्यावकाशः -समुखा, अमुखा, विद्यमानमुखेति। इहोभयं प्राप्नोति -सनासिका, अनासिका, विद्यमाननासिकेति। सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन। नैष युक्तो विप्रतिषेधः। अयं विधिः। स प्रतिषेधः। विधिप्रतिषेधयोश्चायुक्तो विप्रतिषेधः। अयमपि विधिः -न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते। स यथैव बह्वज्लक्षणं संयोगोपधलक्षणं च प्रतिषेधं बाधते, एवं हि सहनञ्ञ्विद्यमानलक्षणमपि बाधेत। का तर्हि गतिः?॥ (विप्रतिषेधसमर्थकभाष्यम्) इह तावन्नासिकोदर इति - बह्वज्लक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वक्षलणश्च। पुरस्तादपवादा अन्तरान् विधीन् बाधन्ते इत्येवमियं विभाषा बह्वज्लक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानलक्षणं न बाधिष्यते। ओष्ठजङ्घादन्तकर्णशृङ्गाच्चेति - संयोगोपधलक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वलक्षणश्च। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमियं विभाषा संयोगोपधलक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानपूर्वलक्षणं न बाधिष्यते॥

Kashika

स्वाङ्गाच्चोपसर्जनादित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानपूर्वलक्षणस्तु प्रतिषेधो भवत्येव। नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बिम्बोष्ठी, बिम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा॥ पुच्छाच्चेति वक्तव्यम्॥ कल्याणपुच्छी, कल्याणपुच्छा॥ कबरमणिविषशरेभ्यो नित्यम्॥ कबरपुच्छी। मणिपुच्छी। विषपुच्छी। शरपुच्छी॥ उपमानात् पक्षात् च पुच्छात् च॥ उलूकपक्षी सेना। उलूकपुच्छी शाला॥

Siddhanta Kaumudi

एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ।<!पुच्छाच्च !> (वार्तिकम्) ॥ सुपुच्छी । सुपुच्छा ॥<!कबरमणिविषशरेभ्यो नित्यम् !> (वार्तिकम्) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ।<!उपमानात्पक्षाच्च पुच्छाच्च !> (वार्तिकम्) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥

Balamanorama

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च - नासिकोदरोष्ठ । अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति, ‘अन्यतो ङीष्’ इत्यतो ङीषिति चानुवर्तते । तदाह — एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः । ननुस्वाङ्गाच्चे॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — आद्ययोरिति । नासिकोदरशब्दयोर्विषये ‘न क्रोडादिबह्वचः’ इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्रसहनञ्विद्यमानपूर्वाच्चे॑ति निषेधोऽप्यनेन वाध्यतां, ‘सहनञ्’ इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इति न्यायादित्यर्थः । ततश्चसहनञि॑ति निषेधोन क्रोडादि॑सूत्रे व्यवहितत्वात्नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह — ओष्ठादीनामिति । सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा, अनोष्ठा इत्यादौसहनञि॑ति निषेधोऽप्यनेन बाध्यतामित्यत आह — मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इत#इ न्यायादित्यर्थः । ननु ‘नासिकोदर’ इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः,सहन॑ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह — सहनञ्लक्षणस्त्विति । अस्येति । ‘नासिकोदर’ इति हीष्विकल्पविधेरित्यर्थः । तुङ्गनासिकी तुङ्गनासिकेति । ‘न क्रोडादिबह्वचः’ इति बह्वज्लक्षणङीष्निषेधं बाधित्वा ‘नासिकोदर’ इति विकल्पः । इत्यादीति । कुम्भोदरी-कुम्भोदरा । अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः । बिम्बोष्ठी-विम्बोष्ठा । सुजङ्घी-सुजङ्घा । शुभ्रदन्ती-शुब्रादन्ता.सुकर्णी-सुकर्णा । सुश्रह्गी-सुशृङ्दा । ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः । सहनासिकेति । सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापिसहनञ्विद्यमाने॑ति ङीष्निषेधो नतु ‘नासिकोदर’ इति ङीष्विकल्प इत्यर्थः । वक्तव्यमिति ।वा ङी॑षितीति शेषः संयोगापधत्वाद्ववचनम् । स्वङ्गीतचि । सु=शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति — एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः ।पुच्छाच्चेति । संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः ।कबरमणीति । कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः ।पुच्छाच्चे॑त्युक्ताविकल्पापवादः । कबरमित्यस्य व्याख्यानं त्रित्रमिति । इत्यादीति । मणिपुच्छी वृश्चकी । विषपुच्छी । शरपुच्छी पक्षिजातिविशेषः ।उपमानादिति । उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः । नित्यमित्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्ो यस्या इति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च॑ इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः । पूर्वपदे बहुव्रीहिः ।पुच्छाच्चे॑ति विकल्पस्यापवादः ।

Tattvabodhini

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च - मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान्विधीन्बीधन्ते नोत्तरान् इति न्यायादित्यर्थः । उरः क्रोडेति । स्त्रीलिङ्गोऽयमिति हरदत्तादयः । तत्रोपसर्जमह्रस्वत्वे कृते अदन्तत्वान्ङीषः प्राप्तिः । अमरस्तुन ना क्रोडं भुजान्तरम्इत्याह । रत्नमतिस्तुपुंलिङ्गतामाह ।गणे चक्रोड॑इति प्रातिपदिकमात्रं पठते न तु टाबन्त॑मिति गणरत्न महोदधिकारः । एवं चाऽविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम् । माधवस्तु — तुदादिगणेक्रुड निमज्जने॑इति धातावाह -॒क्रोडः — धञ् । क्रोडा अआनामुरः । टाबन्तोऽयं स्वभावतो विशेषविषयः । क्रोडादिषु टाबन्तमात्रस्य पाठात् । भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव ।कल्याणक्रोडी कल्याणक्रोडा मयूरी॑ति । केशैः सह वर्तत इति ।

Padamanjari

सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव - सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । ठोत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्ऽ इति पररूपम् । कबरपुच्छीति । कबरमुनानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ॥

Nyaas

बह्वज्लक्षणे इत्यादि। नासिकोदरयोः। न क्रोडादिबह्वचः (4.1.56) इति बह्वज्लक्षणे प्रतिषेधे प्राप्ते वचनम्। शेषाणाम् असंयोगोपधात् (4.1.54) इति संयोगोपलक्षणे। सहनञ्विद्यमानपूर्वलक्षणनस्तु प्रतिषेधो भवत्येव इति। नासिकोदरयोस्तावदयं योगः पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते, नोत्तरान् (व्या।प।9) इत्यनन्तरमेव बह्वज्लक्षणं प्रतिषेधं बाधते, न सहादिलक्षणम्। ओष्ठादिष्वपि मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते (व्या।प।10) इति पूर्वमेव संयोगोपधलक्षणम्, तेनासौ भवत्येवम - सहनासिका, अनासिका, विद्यमाननासिकेति। बिम्बोष्ठी इति। बिम्बमिवोष्ठौ यस्याः सा बिम्बोष्ठी - ओत्वष्ठयोः समासे वा पररूपं वक्तव्यम् (वा।687) इत्यौपसंख्यानिकं पररूपत्वम्। ये तु बिम्बौष्टीत्यौकारं पठन्ति ते वृद्धिरेचि (6.1.88) इति वृदिंध कुर्वन्ति।पुच्छाच्चेति वक्तव्यम् इति। पुच्छान्ताच्च प्रातिपदिकान्ङीष् भवतीत्येदर्थरूपं व्याख्येमित्यर्थः। किमर्थम्? संयोगोपधादपि पुच्छान्ताद्यथा स्यात्। व्याख्यानं तु चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्। कल्याणपुच्छी इति। कल्याणं पुच्छमस्याः।कबर इत्यादि। कबरादिभ्यो यः पुच्छशब्दस्तदन्तान्ङीष् भवतीति। एषोऽपि तत एव चकाराद्वाग्रहणस्य वा व्यवस्थितविभाषात्वल्लभ्यते। कबरं पुच्छे यस्याः सा कबरपुच्छी। एवं मणिपुच्छी, विषपुच्छी, शरपुच्छी इति। सप्तमीविशेषणे बहुव्रीहौ (2.2.35) इति पुच्छस्य पूर्वनिपातो न भवति; सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् (वा। 115) इति वचनात्। उपमानात् पक्षात् पुच्छाच्च इति। नित्यमिति सम्बध्यते। एतदपि पूर्वोक्तात् कारणद्वयाल्लभ्यते। पुच्छाच्चेति वक्तव्यम् (वा।364) इत्यनेनैव सिद्धे पुनरिह पुच्छग्रहणं प्रपञ्चार्थम्,नित्यार्थं वा। उलूकस्येव पुच्छं यस्याः सा उलूकपुच्छी

Prakriyasarvasvam

एतदन्ताद् ङीष्वा । सुनासिकी, सुनासिका । कृशोदरी । कृशोदरेत्यादि । ‘पुच्छाच्च वाच्च्यम्’ । सुपुच्छी, सपुच्छा । ‘कबरमणिविषशरेभ्यो नित्यम्’ । कबरपुच्छी मयूरी । कबरं नानावर्णम् । मणिपुच्छी, विषपुच्छी, शरपुच्छीति वृश्चिकीनामानि । ‘उपमानात् पक्षपुच्छाभ्याम्’ । श्येनपक्षी, श्येनपुच्छी सेना ।

Vartika

पुच्छाच्च ।

Sutra Prayogas

  • शातोदरी (शिशुपालवधम्): नासिकोदर- इत्यादिना ङीप् ।