41047: भुवश्च¶
Padacheda: भुवः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine after the word भु।
Vasu English Translation¶
The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine after the word भु। Thus विभ्वी, प्रभ्वी, सुभ्वी, शम्भ्वी ॥
But why not so in the case of स्वयभूः? Because it ends in long ऊ, while विभ्वी &c. are feminine of विभु &c. ending in short उ ॥ In fact the word उतः “after a word ending in short उ” of Sutra (4.1.44) governs this also. The word भुवः is the ablative case of भु irregularly formed by the substitution of उवङ्; this form being confined to sutras only.
Kashika¶
छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति। वि॒भ्वी (ऋ० ५.३८.१) च। प्र॒भ्वी (ऋ०१.१८८.५) च। संभ्वी च। इह कस्माद् न भवति — स्वयम्भूः? उत इति तपरकरणमनुवर्तते। ह्रस्वादेवेयं पञ्चमी। भुव इति सौत्रो निर्देशः॥
Siddhanta Kaumudi¶
ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य (SK3160) इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ।<!मुद्गलाच्छन्दसि लिच्च !> (वार्तिकम्) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥
Padamanjari¶
विभ्वी, प्रभ्वीति ।’विप्रसंभ्यो ड्वसंज्ञायाम्’ इति डुप्रत्ययान्ताद् ङीष् । स्वयंभूरिति । भवतेः क्विप् । ह्रस्वादेवेयमिति । यद्येवं’घेर्ङिति’ इति गुणे कृते’भोः’ इति निर्देशः प्राप्नोति तत्राह - सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङदेश इत्यर्थः ॥
Nyaas¶
प्रभ्वी इत्यादि। भुवः संज्ञान्तरयोः (3.2.179) इत्यतः भुवः इत्यनुवर्तमाने विप्रंशभ्यो ड्वसंज्ञायाम् (3.2.180) इतिप्रत्ययः, तदन्तान्ङीष्। स्वयम्भूः इति। भवतेः क्विबन्तस्य रूपम्। ननु च भुवः इति भूशब्दाद्दीर्घादियं पञ्चमी, , ततश्च दीर्घादेव प्रत्ययेन भवितव्यम्, न ह्रस्वादित्यत आह - ह्रस्वादेवेयं पञ्चमी ` इति। तर्हि `भुवः`इति निर्देशो नोपपद्यते, **घेर्ङिति** (7.3.111) इति गुणे कृते `भोः इति निर्देशेन भवितव्यम्? इत्यत आह - `सौत्रो निर्देशः`इति। छन्दसि वर्णव्यत्यय उक्तः। तेन तस्य गुणेऽकृत उवङादेशः कृत इति दर्शयति॥
Prakriyasarvasvam¶
उदन्तात् भुवश्छन्दसि नित्यं ङीप् । विभ्वीः । प्रभ्वीः । ‘मुद्गलाच्छन्दस्यानु- गागमो ङीप् च्लिङ् वाच्यः’ (वा. ४-१-४९) रथीरभून्मुद्गलानी) । क्तान्ता- दन्तोदात्ताद् बहुव्रीहेर्ङीष् विधाने ‘बहुलं संज्ञाछन्दसोरिति वाच्यम् (वा. ४-१- ५२) । प्रवृद्धा विलूना च प्रवृद्धविलूनीत्यबहुव्रीहावपि ।