41052: बहुव्रीहेश्चान्तोदात्तात्¶
Padacheda: बहुव्रीहेः | S | 5 | 1 |
च | S | 0 | 0 |
अन्तोदात्तात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ङीष् is used in the feminine after that बहुव्रीहि समास which ending with a word formed by the affix क्त has an acute accent on the last syllable.
Vasu English Translation¶
The affix ङीष् is used in the feminine after that बहुव्रीहि समास which ending with a word formed by the affix क्त has an acute accent on the last syllable. The word क्तात् of the last aphorism governs this also. This sutra applies to those Bahuvrihi compounds in which the first member is a svanga word. But if the antecedent member is not a svanga word, then the application of the rule is optional. As शंखभिन्नी ‘having a rent on the temporal bone’, ऊरुभिन्नी ‘having a rent on the thigh’. गलकोत्कृन्नी (गलमुत्कृत्तमस्या), केशलूनी ॥ By (2.2.36) * Vart * जातिकालसुखादिश्यः परवचनम्, the Nishtha stands in the second place, otherwise by (2.2.36) it ought to have formed the first member of the compound. The words शंख &c. are jati words, and by (6.2.170), the acute is on the final.
Why do we say “after a Bahuvrihi compound ?” Observe पादपतिता which is an Ablative Tatpurusha compound (2.2.38). The compounding is by (2.1.32), and it has acute on the final by (6.2.144).
Vart:- Prohibition must be stated in the case of the participle जात ‘born’, which is also acutely accented on the final. Thus दन्तजाता ‘a female who has cut her teeth;’ स्तनजाता ‘a female whose breast has been developed’. See (2.2.36) Vart.
Vart:- In the case of words पाणिगृहीती &c, the affix is employed in certain senses only. Thus पाणिगृहीती ‘a wife’; (अग्निसाक्षिकं यस्याः पाणिर्गृह्यते); but पाणिगृहीता ‘a woman whose hands have been taken, but not before the sacred fire, a concubine &c.’
Vart:- Exception must be stated in the case of compounds, the antecedent member of which is any one of the following words :- बहु, नञ, सु, words denoting time, सुख &c. Thus बहुकृता, अकृता, सुकृता, मासजाता, संवत्सरजाता, सुखजाता or दुःखजाता &c.
Bahuvrihi compounds get acute accent on the final syllable when they fall under the rules (6.2.170) and the following.
Bhashya¶
बहुव्रीहेश्चान्तोदात्तात् (1306) (ङीषधिकरणम्) (5188 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - अन्तोदात्ते जातप्रतिषेधः - (भाष्यम्) अन्तोदात्ते जातस्य प्रतिषेधो वक्तव्यः। दन्तजाता, स्तनजाता॥ (5189 नियमवार्तिकम्॥ 2 ॥) - पाणिगृहीत्यादीनां विशेषे - (भाष्यम्) पाणिगृहीत्यादीनां विशेष इति वक्तव्यम्। पाणिगृहीती भार्या चेत्। यस्या हि यथाकथंचित्पाणिर्गह्यते पाणिगृहीता सा भवति॥ (5190 अनियमवार्तिकम्॥ 3 ॥) - बहुलं तणि - (भाष्यम्) बहुलं तणीति वक्तव्यम्। किमिदं तणीति? संज्ञाच्छन्दसोर्ग्रहणम्। किं प्रयोजनम्? (5191 प्रयोजनवार्तिकम्॥ 4 ॥) - प्रबद्धविलून्याद्यर्थम् - (भाष्यम्) प्रबद्धविलूनी, प्रबद्धविलूना॥ (5192 अतिव्याप्तिवारकवार्तिकम्॥ 5 ॥) - अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वात् - (भाष्यम्) अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वादिति वक्तव्यम्॥ बहु -बहुकृता। नञ्ञ् -अकृता। सु -सुकृता। काल -मासजाता, संवत्सरजाता। सुखादि -सुखजाता, दुःखजाता, क्षिप्रजाता॥ (5193 अन्तोदात्तेतिवार्तिकप्रत्याख्यानवार्तिकम्॥ 6 ॥) - जातिपूर्वाद्वा - (भाष्यम्) अथ वा जातिपूर्वादिति वक्तव्यम्॥
Kashika¶
क्तादित्येव। बहुव्रीहिर्योऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम्। अस्वाङ्गपूर्वपदाद्० (४.१.५३) विकल्पं वक्ष्यति। शङ्खभिन्नी। ऊरुभिन्नी। गलोत्कृत्ती। केशलूनी। बहुव्रीहेरिति किम्? पादपतिता॥ अन्तोदात्ताज् जातप्रतिषेधः॥ दन्तजाता, स्तनजाता॥ पाणिगृहीत्यादीनामर्थविशेषे॥ पाणिगृहीती भार्या। यस्यास्तु कथंचित् पाणिर्गृह्यते पाणिगृहीता सा भवति॥ अबहुनञ्सुकालसुखादिपूर्वादिति वक्तव्यम्॥ बहुकृता। नञ् — अकृता। सु — सुकृता। काल — मासजाता। संवत्सरजाता। सुखादिः — सुखजाता। दुःखजाता। जातिकालसुखादिभ्योऽनाच्छादनात्० (६.२.१७०) इत्येवमादिना बहुव्रीहेरन्तोदात्तत्वम् ॥
Siddhanta Kaumudi¶
बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥<!जातिपूर्वादिति वक्तव्यम् !> (वार्तिकम्) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ।<!जातान्तान्न !> (वार्तिकम्) ॥ दन्तजाता ।<!पाणिगृहीती भार्यायाम् !> (वार्तिकम्) ॥ पाणिगृहीतान्या ॥
Balamanorama¶
बहुव्रीहेश्चान्तोदात्तात् - बहुव्रीहेश्च । क्तादिति अत इति चानुवर्तते । तदाह — बहुव्रीहेरिति । क्तान्तादिति । क्तान्तान्तादित्यर्थः । तेनेति । जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र सुखादिगणः पठितः । जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑ इति,नञ्सुभ्या॑मितिबहोर्नञ्वदुत्तरपदभूम्नी॑ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः ।ऊरुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः । ‘निष्ठा’ इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति,जातिकालसुखादिभ्यः परा निष्ठा वाच्या॑ इति वार्तिकात् । ‘जातिकालसुखादिभ्यः’ इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तुजातेरस्त्रीविषया॑दित्यत्र वक्ष्यते । बहुकृतेति । बहवः कृता यायेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् ।जातान्तान्न-इति वार्तिकम् ।बहुव्रीहेश्चे॑त्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ता जाता यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः ।पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदूढा भार्या , तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः । विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः । अन्येति । दास्यादिरित्यर्थः ।
Tattvabodhini¶
बहुव्रीहेश्चान्तोदात्तात् - तेन बह्विति । अयं भावः — ॒बहोर्नञ्वदुत्तरपदभूम्नि॒॑नञ्सुभ्यां॒॑जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑इति ह्रन्तोदात्तविधायकानि । तत्रजातिपूर्वा॑दित्युक्ते बह्वादिपूर्वकस्यांर्थाद्व्युदास इति ।जातिपूर्वादिति वक्तव्यम् । सुखादिपूर्वान्नेति ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र ये पठिताः सुखदुःखकृच्छ्रादयस्तेऽत्र गृह्यन्ते । सुखायाता । सुखं दुःखं वा आयातं प्राप्तमनयेति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपद एवोदाहरणामाह — ऊरुभिन्नीति । भिन्नौ ऊरु यस्या इति बहुव्रीहौस भिन्नशब्दस्यनिष्ठे॑ति पूर्वनिपाते प्राप्तेजातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति परनिपातः । बहुकृतेति । बहूनि कृतानि यया सा ।जातान्तान्न । जातान्तान्नेति ।वर्णादनुदात्ता॑दितिवत् — -॒बहुव्रीहेरुदात्ता॑दित्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम् ।वा जाते॑इति तु वैकल्पिक उदात्तो न तु नित्यमिति भावः ।पाणिगृहीति भार्यायाम् । पाणिगृहीतीति । यस्याः पाणिरग्निसाक्षिकं गृह्रते तस्यां वाच्यायां पाणिगृहीतशब्दान्ङीष्वक्तव्य इत्यर्थः । अन्येति । कौतुकादिना पाणिर्गृहीतो यस्या दास्यादेः सापाणिगृहीता॑ ।
Padamanjari¶
बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र’क्तात्’ इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति ।’निष्ठा’ इति पूर्वनिपातो न भवति;’जातिकालसुखादिभ्यः परवचनम्’ इति वचनात् । शङ्खादयो हि जातिवचनाः, अत एव’जातिकालसुखादिभ्यः’ इत्यन्तोदातत्वं भवति । गलोत्कृतीति ।’कृती छेदने’ , उत्पूर्वात् क्तः । गलमुत्कृतमस्या इति विग्रहः । पादपतितेति ।’कर्तृकरणे कृता बहुलम्’ इति समासः, थाथादिस्वरेणान्तोदातत्वम् । अन्तोदाताज्जातप्रतिषेध इति । अन्तोदाताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदातादितिवद् उदातान्तादिति विज्ञास्यते, तत् क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु’वा जाते’ इति विकल्पेनान्तोदातत्वम् । पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः । अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष् न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः,’बहोर्नञ्वदुतरपदभूम्नि’ इत्यन्तोदातत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः,’नञ्सुभ्याम्’ इत्यन्तोदातत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः’सुखादिभ्यः कर्तृवेदनायाम्’ इत्यत्र पठिता गृह्यन्ते । अथ वा - बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदातनिमितेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदातनिमितं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ॥
Nyaas¶
शङ्खभिन्नी इति। रदाभ्याम् (8.2.42) इति नत्वम्। निष्ठान्तस्य निष्ठा (2.2.36) इति पूर्वनिपाते प्राप्ते जातिकालसुखादिभ्यः परवचनम् (वा।116) इति स न भवति। शङ्खादिशब्दा हि जातिवचनाः। अत एव हि जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः (6.2.170) इत्यन्तोदात्तत्वं भवति। गलकोत्कृती इति। कृती छेदने (धातुपाठः-1435) इत्यस्मात् क्तः। केशलूनी इति। केशान् लुनातीति। ल्वादिभ्यः (8.2.44) इति नत्वं चोदयति।पादपतिता इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति तत्पुरुषसमासेऽन्तोदात्तत्वम्।अन्तोदात्ताज्जातप्रतिषेधः इति। अन्तोदात्ताद्बहुव्रीहेर्ङीषो विधाने जातशब्दान्तात् प्रतिषेधः, स चान्तग्रहणादेव लभ्यत इति न वक्तव्यम्। इहान्तग्रहणं न कर्तव्यमेव, विनाऽपि तेन यथा वर्णाअदनुदात्तात् (4.1.39) इत्यत्रानुदात्तान्तादिति विज्ञायते, तथेहाप्यन्तोदात्तन्तादिति विज्ञास्यते? तदेवमर्थं क्रियते - अन्तोदात्त एव यो नित्यं बहुव्रीहिस्ततो यथा स्यात्, विकल्पेन योऽन्तोदात्तस्ततो मा भूदिति। इह च दन्ताजाता, स्तनजातेत्यत्र वा जाते (6.2.171) इति विकल्पेनान्तोत्तत्वम्, अतोऽयं विधिर्न भविष्यति। अथ वा - उत्तरसूत्रे वाग्रहणमुभयोरपि योगयोः शेषः, व्यवस्थितविभाषा च, तेन जातशब्दान्तान्न भविष्यति। अस्मस्तु व्याख्यानेऽन्तग्रहणं विस्पष्टार्थमेवेति वेदितव्यम्।पाणिगृहीत्यादीनामर्थविशेषे`इति। `सिद्धये इति शेषः। पाणिगृहीतीत्यादीनां सिद्ध्यर्थं विशेष एव ङीब्भवति, न सर्वत्र। एतदपि व्यवस्थितविभाषया लभ्यते। विशेषस्तु पाणिग्रहणस्य वेदितव्यः। आग्निसाक्षिपूर्वकं भार्यार्थं यस्या पाणिग्रहणं क्रियते सा पाणिगृहीतीति भवति। यथाकथञ्चित् इति। यथोक्तात् प्रकारादन्येन केनापि प्रकारेणेत्यर्थः।अबहुनञ् इत्यादि। बह्वादिपूर्वान्ङीष् न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तस्यैव वाग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। जातिकालसुखादि इत्यादि। बहुकृते इत्यत्र बहोर्नञ्वदुत्तरपदभूम्नि (6.2.175) इत्यन्तोदात्तत्वम्। अकृता, सकृता इत्यत्र नञ्सुभ्याम् इति। मासजातः इत्यादिषु जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः (6.2.170) इति॥
Praudhamanorama¶
तेन बह्विति। अयं भावः— ‘बहोर्नञ्वदुत्तरपदभूम्नि’ ‘नञ्सुभ्याम्’ ‘जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमित-प्रतिपन्नाः’ इति ह्यन्तोदात्तताविधायकानि। तत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वकस्यार्थाद् व्युदास इति। अस्वाङ्गपूर्वपदाद्विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपदमेवोदाहरणमित्याह— जातान्तादिति। ‘वर्णादनुदात्तात्’ इतिवद् ‘बहुव्रीहेरुदात्तात्’ इत्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम्। ‘वा जाते’ इति तु वैकल्पिक उदात्तो न तु नित्य इति भावः।
Vartika¶
जातान्तान्न ।