41056: न क्रोडादिबह्वचः

Padacheda: न | S | 0 | 0 |

क्रोड-आदि-बह्वचः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The feminine affix ङीष् does not come after a प्रातिपदिक (Nominal Stem) which denoting a part of the body, belongs to the class क्रोडा ‘the flank’ etc., of a horse’, nor when the word is a stem of more than two syllables.

Vasu English Translation

The feminine affix ङीष् does not come after a प्रातिपदिक (Nominal Stem) which denoting a part of the body, belongs to the class क्रोडा ‘the flank’ etc., of a horse’, nor when the word is a stem of more than two syllables. The class क्रोड् &c. is akriti-gana, that is a class of words constituted by usage. The following are some of the examples:- As कल्याणक्रोडा, कल्याणखुरा, कल्याणोखा, कल्याणबाला, कल्याणशफा, कल्याणगुदा, कल्याणघाणा ॥ So also सुभगा, सुगला, &c. Of the case where the word is polysyllabic, the examples are सुजघना, पृथुजघना, महाललाटा, ॥ The word कोडा is feminine itself, and in the Bahuvrihi the feminine sign of the first member is elided by pungvad-bhava, and क्रोडा is shortened to क्रोड because it is an upasarjana (1.2. 48).

Kashika

स्वाङ्गादिति ङीष् प्राप्तः प्रतिषिध्यते। क्रोडाद्यन्ताद् बह्वजन्तात् च प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। सुभगा। सुगला। क्रोडादिराकृतिगणः। बह्वचः खल्वपि — पृथुजघना। महाललाटा॥

Siddhanta Kaumudi

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥

Laghu Siddhanta Kaumudi

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणोऽयम्। सुजघना॥

Balamanorama

न क्रोडादिबह्वचः - न क्रोडादिबह्वचः । क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः । क्रोडादिश्च बह्वच्चेति समाहारद्वन्द्वः । क्रोडादेरिति । क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः । कल्याणक्रोडेति । कल्याणी क्रोडा यस्या इति विग्रहः । ‘स्त्रियाः पुंवत्’ इति कल्याणशब्दस्य पुंवत्त्वम् । अआआनामिति । हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः । उपसर्जनह्रस्वत्वेऽदन्ततयास्वाङ्गाच्चोपसर्जना॑दिति प्राप्तो ङीष् निषिध्यते । अमरस्तुन ना क्रोडं भुजान्तर॑मिति स्त्रीत्वं नपुंसकत्वं चाह । क्वचित् कोशे पुंस्त्वमपि दृश्यते । क्रोडादिगणे क्रोड इति प्रातिपदिकं पठते । एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिणोऽयमिति ।क्रोडादि॑रिति शेषः । सुजघनेति — बह्वच उदाहरणम् । सुशोभनं जघनं यस्या इति विग्रहः ।

Padamanjari

कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उतरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्;’नखमुखात्संज्ञायाम्’ इति प्रतिषेधात्, असंज्ञायां ङीष इष्टत्वात्, तस्मात् कल्याणेखेति पाठः । उखेति हि पठ।ल्ते -‘क्रोडा बालसुरोखाः शफो गुदं भगगलौ च’ इति ॥

Nyaas

कल्याणक्रीडा इति। क्रोडाशब्दः स्त्रीलिङ्गः। क्रोडाघाटाजिह्वाशिरोधरासङ्गकुलास्पृहामाया इति लिङ्गकारिकायां पाठात्। कल्याणी क्रोडाऽस्या इति विग्रहः। स्त्रियाः पुंवत् (6.3.33) इति पुंवद्भावः। उत्तरपदस्य गोस्त्रियोः (1.2.48) इत्यादिना ह्रस्वः। ततः स्वाङ्गाच्चोपसर्जनात् (4.1.54) इत्यादिना प्राप्तस्य ङीपोऽनेन प्रतिषेधः ततष्टाप्। महाललाटा`इति। `आमन्महत् (6।346) इत्यादिनात्वम्॥

Praudhamanorama

उरःक्रोडेति। स्त्रीलिङ्गोऽयमिति हरदत्तादयः। तत्रोपसर्जनह्रस्वत्वे कृतेऽदन्तत्वाद् ङीषः प्राप्तिः। अमरस्तु— ‘न ना क्रोडं भुजान्तरम्’ इत्याह। रत्नमतिस्तु पुंस्त्वमाह। गणे च क्रोडेति प्रातिपदिकमात्रं पठ्यते न तु टाबन्तमिति गणरत्नमहोदधिकारः। एवं चाविशेषाल्लिङ्गत्रयेऽप्युदाहरणं बोध्यम्। माधवस्तु तुदादिगणे क्रुड निमज्जने इति धातावाह- क्रोडः। घञ्। क्रोडा- अश्वानामुरः। टाबन्तोऽयं स्वभावतो विशेषविषयः, क्रोडादिषु टाबन्तस्यैव पाठात्। भुजान्तरमात्रविषयस्य क्रोडशब्स्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्पो भवत्येव। कल्याणक्रोडी, कल्याणक्रोडा मयूरीति।

Prakriyasarvasvam

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । सुक्रोडा । सुगळा । बह्वचः । सुजघना । स्वधरा ॥

Sutra Prayogas

  • वन-ज-द्युति-लोचना (भट्टिकाव्यम्): न क्रोडादिवचः इति ङीप्प्रतिषेधः।