Sutras 1 - 20¶
- 83001: मतुवसो रु सम्बुद्धौ छन्दसि
- 83002: अत्रानुनासिकः पूर्वस्य तु वा
- 83003: आतोऽटि नित्यम्
- 83004: अनुनासिकात् परोऽनुस्वारः
- 83005: समः सुटि
- 83006: पुमः खय्यम्परे
- 83007: नश्छव्यप्रशान्
- 83008: उभयथर्क्षु
- 83009: दीर्घादटि समानपादे
- 83010: नॄन् पे
- 83011: स्वतवान् पायौ
- 83012: कानाम्रेडिते
- 83013: ढो ढे लोपः
- 83014: रो रि
- 83015: खरवसानयोर्विसर्जनीयः
- 83016: रोः सुपि
- 83017: भोभगोअघोअपूर्वस्य योऽशि
- 83018: व्योर्लघुप्रयत्नतरः शाकटायनस्य
- 83019: लोपः शाकल्यस्य
- 83020: ओतो गार्ग्यस्य