83006: पुमः खय्यम्परे

Padacheda: पुमः | S | 6 | 1 |

खयि | S | 7 | 1 |

अम्परे | S | 7 | 1 |

Sutrartha

‘पुम्’ शब्दात् परः संहितायाम् खय्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् पुम्-शब्दस्य मकारस्य रुँ आदेशः भवति ।

सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् षष्ठं सूत्रम् । ‘पुम्’ शब्दात् अनन्तरम् संहितायाम् खय्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् पुम्-शब्दस्य मकारस्य अनेन सूत्रेण रुँ आदेशः भवति । <pt> खय् = वर्गप्रथमाः, वर्गद्वितीयाः = ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । <light>आहत्य दश व्यञ्जनानि ।</light> अम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । <light>सर्वे स्वराः + आहत्य दश व्यञ्जनानि ।</light> </pt> संस्कृते ‘पुम्’ इति कश्चन पृथक् शब्दः नास्ति, अपितु ‘पुम्’ इत्यनेन ‘पुम्स्’ इति शब्दस्य आदिस्थस्य अंशं निर्देशः क्रियते । पुम्स्-शब्दस्य अन्तिमसकारस्य यदा लोपः क्रियते, तदा अवशिष्टस्य ‘पुम्’ शब्दस्य विषये इदं सूत्रं प्रवर्तते, इति अत्र आशयः । यथा, ‘पुमान् कोकिलः’ इत्यत्र कर्मधारयसमासे अस्य सूत्रस्य प्रयोगं कृत्वा ‘पुँस्कोकिलः / पुंस्कोकिलः’ इति द्वे रूपे भवतः । प्रक्रिया इत्थम् —

पुमान् च असौ कोकिलः च [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः]
→‌ पुम्स् + कोकिल [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ पुम् + कोकिल [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां **संयोगान्तस्य लोपः** (8.2.23) इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]
→ पुरुँ + कोकिल ['क्' इति खय्-वर्णः, तस्मात् अनन्तरम् 'अ' इति अम्-वर्णः विद्यते । अतः **पुमः खय्यम्परे** (8.3.6) इति मकारस्य रुँत्वम् भवति ।]
→ पुँरुँ कोकिल / पुंरुँ कोकिल [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकत्वम् । तदभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ पुँःकोकिल / पुंःकोकिल [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः]
→ पुँस्कोकिल / पुंस्कोकिल [विसर्गस्य **इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इत्यनेन षत्वे प्राप्ते तद्बाधित्वा <!सम्पुंकानां सो वक्तव्यः!>  इति वार्त्तिकेन सत्वम् भवति ।]

अनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा —

  1. पुमान् च असौ खरः → पुम्स् + खरः → पुम् + खरः → पुँस्खरः, पुंस्खरः ।

  2. पुमान् च असौ पुत्रः → पुम्स् पुत्रः → पुम् + पुत्रः → पुँस्पुत्रः, पुंस्पुत्रः ।

  3. पुमान् च असौ क्नूतश्च (wet) → पुम्स् + क्नूत → पुम् + क्नूत → पुँस्क्नूत, पुंस्क्नूत ।

  4. पुमान् त्वम् → पुम्स् + त्वम् → पुम् + त्वम् → पुँस्त्वम्, पुंस्त्वम् । अत्र प्रक्रियायाम् विसर्जनीयस्य सः (8.3.34) इत्यनेनैव सत्वं भवितुम् अर्हति ।

  5. पुमान् चालकः → पुम्स् + चालक → पुम् + चालक → पुँस्चालक, पुंस्चालक → पुँश्चालक, पुंश्चालक । अत्र प्रक्रियायाम् विसर्जनीयस्य सः (8.3.34) इत्यनेनैव सत्वं कृत्वा ततः स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वे कृते रूपं सिद्ध्यति ।

  6. पुमान् टङ्कपतिः → पुम्स् + टङ्कपति → पुम् + टङ्कपति → पुँस्टङ्कपति, पुंस्टङ्कपति → पुँष्टङ्कपति, पुंष्टङ्कपति । अत्र प्रक्रियायाम् विसर्जनीयस्य सः (8.3.34) इत्यनेनैव सत्वं कृत्वा ततः ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे कृते रूपं सिद्ध्यति ।

<note>अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च अनुनासिकात् परोऽनुस्वारः (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।</note>

पुम्स्-शब्दस्य व्युत्पत्तिः ; विसर्गस्य नित्यम् सकारादेशविधानम्

“पुम्स्” इति शब्दः पातेर्डुम्सुन् इति उणादिसूत्रेण (४.१७७) पा-धातोः डुम्सुन् इति उणादिप्रत्ययं कृत्वा सिद्ध्यति । उणादिप्रत्ययान्तशब्दानां विषये वस्तुतः भाष्ये पक्षद्वयम् विद्यते — उणादयः व्युत्पन्नानि प्रातिपदिकानि इति एकः पक्षः, उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति अपरः पक्षः । तत्र आदिमे पक्षे ‘पुम्स्’ इति शब्दम् ‘डुम्सुन्’ प्रत्ययान्तम् स्वीकृत्य, तत्र विद्यमानः मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते । अस्यां स्थितौ “पुँःकोकिल / पुंःकोकिल” इत्यत्र इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इत्यस्य प्राप्तिः नास्ति अपितु विसर्गस्य विकल्पेन कुप्वोः ≍क≍पौ च (8.3.37) इति जिह्वामूलीयः भवति । द्वितीये पक्षे तु ‘पुम्स्’ शब्दम् अव्युत्पन्नं मत्वा मकारः प्रत्ययस्य अवयवरूपेण स्वीक्रियते, येन “पुँःकोकिल / पुंःकोकिल” इत्यत्र इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इत्यनेन षत्वं प्राप्नोति ।अनेन प्रकारेण उभयत्र सकारभिन्नः कश्चन आदेशः सम्भवति । तद्बाधित्वा प्रक्रियायाम् नित्यम् सकारादेशं कर्तुम् भाष्ये द्वे पद्धती दत्ते स्तः — <hlb>1. <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —</hlb> सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति — इति अस्य वार्त्तिकस्य आशयः । अस्य उदाहरणानि क्रमेण एतानि — <listsp> i) “सम् + सुट् + कर्तृ” इत्यत्र “सम्”-इत्यस्य मकारस्य समः सुटि (8.3.5) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “सँःस्कर्तृ / संःस्कर्तृ” इति सिद्धे अग्रे विसर्गस्य वा शरि (8.3.36) इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन “सँस्स्कर्तृ / संस्स्कर्तृ” इति प्रयोगौ सिद्ध्यतः । ii) “पुम् + काम” इत्यत्र पुम्-इत्यस्य मकारस्य पुमः खय्यम्परे (8.3.6) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “पुँःकाम / पुंःकाम” इति सिद्धे अग्रे विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन “पुँस्काम / पुंस्काम” इति प्रयोगौ सिद्ध्यतः । iii) “कान् + कान्” इत्यत्र कान्-इत्यस्य नकारस्य कानाम्रेडिते (8.3.12) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “काँःकान् / कांःकान्” इति सिद्धे अग्रे विसर्गस्य कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन “काँस्कान् / कांस्कान्” इति प्रयोगौ सिद्ध्यतः । </listsp> <hlb>2. पूर्वस्मिन् सूत्रे सकारप्रश्लेषं कृत्वा समः स्सुटि इति सूत्रविधानम् —</hlb> समः सुटि (8.3.5) इति पूर्वस्मिन् सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा समः स्सुटि इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् पुमः स् खय्यम्परे इति सूत्रम् अत्र सिद्ध्यति । पुम्-इत्यस्य मकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः, इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा “पुँस्कोकिलः / पुंस्कोकिलः” इति द्वे रूपे अवश्यं सम्भवतः ।

दलकृत्यम्

  1. खयि इति किमर्थम् ? “पुमान् च असौ देवश्च” अत्र रुँत्वम् न भवति, अतः “पुंदेव / पुन्देव” इत्येव रूपे भवतः ।

  2. अम्परे इति किमर्थम् ?”पुमान् च असौ क्षत्रियश्च” अत्र रुँत्वम् न भवति, अतः “पुंक्षत्रियः / पुङ्क्षत्रियः” इत्येव रूपे भवतः ।

वार्त्तिकम् - <!ख्याञादेशे न!>

अदादिगणस्य चक्षिङ्-धातोः आर्धधातुके प्रत्ययस्य विषये **चक्षिङ् ख्याञ् (2.4.54) इति यः ख्याञ्-आदेशः भवति, तस्मिन् परे पुम्-इत्यस्य मकारस्य रुँत्वम् न भवति** — इति अस्य वार्त्तिकस्य आशयः । यथा - चक्षिङ्-धातोः क्तिन्-प्रत्यये कृते “ख्यातिः” इति यः शब्दः सिद्ध्यति तस्य विषये इदं सूत्रं न प्रवर्तते —

पुंसः ख्यातिः  [**षष्ठी** (2.2.8) इति तत्पुरुषसमासः]
→ पुम्स् + ख्याति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ पुम् + ख्याति [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां **संयोगान्तस्य लोपः** (8.2.23) इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]
→ पुंख्याति / पुङ्ख्याति [**पुमः खय्यम्परे** (8.3.6) इत्यनेन रुँत्वे प्राप्ते  <!ख्याञादेशे न!> इति वार्त्तिकेन तत् निषिध्यते । अतः **मोऽनुस्वारः** (8.2.23) इति अनुस्वारः, **वा पदान्तस्य** (8.4.59) इति वैकल्पिकः परसवर्णः च भवति । ]

Sutrartha (English)

In the context of संहिता, when the word पुम् is followed by a letter from खय् प्रत्याहार which in turn is followed by a letter form अम् प्रत्याहार, the मकार of पुम् is converted to रुँ.

Vasu English Summary

रु is substituted for the म् of पुम् (whereby the उ is changed to उँ or उं) before a surd mute (खय्) which is followed by a vowel, semi-vowel or a nasal (अम् प्रत्यहार).

Vasu English Translation

रु is substituted for the म् of पुम् (whereby the उ is changed to उँ or उं) before a surd mute (खय्) which is followed by a vowel, semi-vowel or a nasal (अम् प्रत्यहार). Thus पुँस्कामा or पुंस्कामा; पुँस्पुत्रः or पुंस्पुत्रः; पुँस्फलं or पुंस्फलम्; पुँश्चली or पुंश्चली ॥ The visarga in पुंस्कामा required to be changed optionally to ᳶ jihva-muliya by (8.3.37), but it is not so done. It is changed always to स् here by (8.3.34), also. The स् of पुंस् is dropped by (8.2.23), and the preceding sound is म, which comes to light in forms like पुमान् &c. For the sake of distinctness, Panini has elected to exhibit the shorter form पुम् when in the beginning of a composition : because this shorter form पुम् is the real stem in composition. खय् pratyahara includes the ten hard consonants, and अम् pratyahara includes all vowels, semivowels and nasals. पुंस्कामा is formed by the affix ण = पुमांसं कामयते ॥

In that alternative when we read the preceding sutra as समः स्सुटि, then the anuvritti of this स् will be current in the present sutra* also, and so there will be no scope for the operation of (8.3.37). And though the anuvritti of रु is also current, yet it will not apply here, because of its non-appropriateness in that alternative.

Why do we say ‘before a surd mute’? Observe पुंदासः, पुंगवः (5.4.92). Why do we say ‘followed by a vowel or semivowel or nasal’? Observe पुंक्षीरः, पुंक्षुरः ॥ Why do we use the word परे in the sutra? Had we not used it, the *sutra_ might have been open to this construction also. The म् of पुम् is so changed before a खय् letter which has an अम् letter, (whether preceding it or following it). So that the rule would have applied to पुमाख्यः, पुमाचारः ॥

Bhashya

पुमः खय्यम्परे समः सुटि ॥ कानाम्रिडिते ॥ ॥ संपुंकानां सत्वम्॥ संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)॥ रुविधौ ह्यनिष्टप्रसङ्गः॥ रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः)(क)(पा(2)विति)(कः प्रसज्येत॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते॥ यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति॥ सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परइति निवृत्तम्। ॥ समो(1) वा लोपमेके॥ समो वा लोपमेक इच्छन्ति॥ संस्कर्ता सँस्कर्ता॥ समः सुटिः॥

Kashika

पुमित्येतस्य रुर्भवत्यम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम्, पुंस्फलम्। पुँश्चली,पुंश्चली। पुंस्कामेत्यत्र विसर्जनीयस्य कुप्वोः क पौ च (८.३.३७) इति प्राप्नोति। तस्मादत्र सकार एवादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् स इत्यनुवर्तते। रुत्वं त्वनुवर्तमानमपि नात्राभिसंबध्यते, संबन्धानुवृत्तिस्तस्येति। खयीति किम्? पुंदासः। पुंगवः। अम्पर इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्यः। पुमाचारः॥

Siddhanta Kaumudi

अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये (SK155)ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः ॥<!ख्याञादेशे न !> (वार्तिकम्) ॥ पुंख्यानम् ॥

Laghu Siddhanta Kaumudi

अम्परे खयि पुमो रुः। पुँस्कोकिलः, पुंस्कोकिलः॥

Balamanorama

पुमः खय्यम्परे - पुमः । ‘रु’ ग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयीति । ‘पुमान्-कोकिल’ इति कर्मधारयेसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि ‘संयोगान्तस्य लोप’ इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः,संपुंकाना॑मिति सः । ननु ‘विसर्जनीयस्य स’ इत्येव सिद्धेसंपुंकाना॑मित्यत्रपु॑ग्रहणं व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । ᳵकᳶपयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । ‘विसर्जनीयस्य स’ इति सत्वापवादं कुप्वो ᳵकᳵ चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह — अप्रत्ययस्येति षत्वपर्युदासादिति । पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः । ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डुम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः । अतस्तत्र कुप्वोरिति विधिं बाधितुंसंपुंकाना॑मिति पुंग्रहणमित्यर्थः । अव्युत्पत्तीति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुंसंपुकाना॑मिति पुंग्रहणमित्यर्थः । ‘पुँस्कोकिल’ इत्यनुनासिकपक्षे रूपम् । ‘पुंस्कोकिल’ इत्यनुस्वारपक्षे रूपम् । ‘पुंस्कोकिल’ इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि॑अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह — ख्याञादेशे नेति । भाष्ये ‘चक्षिङः ख्शा’ ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरंख्शाञश्शस्य यो वे॑ति पठितमिति वक्ष्यते । एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात्पुनः खयी॑ति रुत्वं नेत्यर्थः । पुंख्यानमिति । ‘मोऽनुस्वारः’वा पदान्तस्ये॑ति परसवर्णविकल्पः । नचवर्जने प्रतिषेधः, असनयोश्चे॑त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः ।

Tattvabodhini

पुमः खय्यम्परे - पुमःखयि । पुंसः संयोगान्तलोपेऽवशिष्टभागस्येदमनुकरणम् ।अम्पर॑ इति बहुव्रीहिः । पर्युदासादिति ।इदुदुपधस्ये॑ति षत्वविधायके सूत्रे इति भावः । ख्य ञादेशे नेति ।चक्षिङः ख्या॑ञित्यत्र ख्शादिरयमादेशः । असिद्धकाण्डे णत्वानन्तरंशस्य यो वे॑ति स्थितमिति वक्ष्यते । एवंच यत्वस्यासिद्धतयाऽम्परत्वाऽभावात्पुमः खयी॑ति रुत्वं नेत्यर्थः ।पुंख्यानमिति । चक्षिङोल्युट् चे॑ति ल्युटि ख्याञादेशः । ननु आदेश इह दुर्लभः,वर्जने प्रतिषेधः॑-॒असनयोश्चे॑ति वार्तिकादिति चेत्सत्यम् ;बहुलं तण्यन्नवधकगात्रविचक्षणाऽजिरातद्यर्थ॑मिति वार्तिके बहुलग्रहणात्समाध्रेयम् । विस्तरस्तिवह मनोरमायामनुसन्धेयः । त्रायस्वेति ।त्रैङ् पालने॑लोटि शप्यायादेशः ।

Padamanjari

पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति’शीलिकामिभिक्षाचरिभ्यो णः’ इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति ।’कुप्वोः ःकःपौ च’ इत्यत्रैतद्वक्तव्यम् । द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे’द्विसकारको निर्देशः’ इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति । ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह - रुत्वं त्विति । असम्बन्धे कारणमाह - सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्तते तं न जहाति तस्मादित्यर्थः । यद्वा - सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्तमानमपि’मतुवसो रु सम्बुद्धौ’ इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्तते, तस्य प्रयोजनम् - सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति । पुंदासादयः षष्ठीसमासाः । पुंगव इति ।’गोरतद्धितलुकि’ इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः - इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ॥

Nyaas

पुमः इति। पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्दशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कार्यित्वात्। अम्परे इति। अम्? परो यस्मात्? स तथोक्तः। अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य। कुत एतत्? व्याप्तिन्यायात्? खयि इति प्रत्याहारेण साहचर्याच्च। पुंश्चली इति। चलडिति पचादौ पठते। तेन चल कम्पने (धातुपाठः-832) इत्यस्मात्? पचाद्यच्? टिद्भवति, टिड्ढणञ् (4.1.15) इति ङीप्। पुंश्चलीति षष्ठीसमासः। पुंस्कामा इति। पुंसि कामोऽस्या इति बहुव्रीहिः। अथ वा -पुमांसं कामयत इति शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः (वा।229) इति णः; ततष्टाप्। अत्र पुंस्कामेत्यत्रोदाहरणे। सकार एवादेशः इति। विसर्जनीयस्येत्यपेक्षते। वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -कुप्वोः क पौ च (8.3.37) इत्यत्र वा शरि (8.3.36) इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनात्रापि विसर्जनीयस्य सकार एव भविष्यति, न विसर्जनीयजिह्वामूलीयाविति। इदं तावत्? पूर्वसूत्रे यदा द्विसकारपक्षो नाश्रीयते, तदा प्रतिविधानमुक्तम्। यदा तु तत्र द्विसकारको निर्देशः इत्येष पक्ष आश्रीयते, तदा प्रतिविधातुमाह -द्विसकारकनिर्देशपक्षे तु इत्यादि। ननु च रुरप्यनुवरत्तत एव, तत्र यथा सकारोऽनुवर्तमानो भवति तथा रुरपि पक्षे स्यात्, ततश्च रुत्वपक्षे विसर्जनीये कृते जिह्वामूलोयः स्यादेव? इत्यत आह -रुत्वं त्वनुवर्तमानम् इत्यादि। तत्रैव कारणमाह -सम्बन्धानुवृत्तिस्तस्य इत्यादि। इतिकरणो हेतौ, स हि मतुवसो रु सम्बुद्धौ (8.3.1) इत्यतः स्वेन सम्बन्धिना मतुपा वसुना च सम्बद्ध इहानुवर्तते। तस्मान्नोत्सहते सम्बन्ध्यन्तरेण सम्बन्धमनुभवितुम्। पुंदासः इति। षष्ठीसमासः -पुंसो दास इति। कर्मधारयो वा। एवं पुगवः इति। अत्र तु गोरतद्धितलुकि (5.4.92) इति टच्? समासान्तः। पुंक्षीरम्, पुंक्षुरम् इति। षष्ठीसमासः। खय्यमि इति। वक्तव्ये परघणं विपरीतकल्पनानिरासार्थम्। असति परग्रहणे -अमि खयि पर इति विज्ञायेत, ततश्च पुमाख्यः, पुमाचारः इत्यत्रापि स्यात्। अतः परग्रहणम्॥

Praudhamanorama

पुंसः संयोगान्तलोपे कृतेऽवशिष्टभागस्येदमनुकरणम्। पर्युदासादिति। इदुदुपधस्य— (8.3.41) इति षत्वविधायके सूत्रे इति भावः। अप्रत्ययस्य यो विसर्ग इति वैयधिकरण्येन व्याचक्षाणानां प्राचां मतेनेदम्। वक्ष्यमाणरीत्या सामानाधिकरण्येनान्वये तु षत्वप्राप्ताविति बोध्यम्॥ ख्याञादेश इति। आदेशो हि उपदेशे ख्शादिः। असिद्धप्रकरणे णत्वानन्तरं ख्शाञः शस्य यत्वं विकल्प्यते। तेन सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीयः। यत्वस्यासिद्धत्वात् धन्वयोपधात्— (8.2.121) इति वुञ्नेत्यादि प्रयोजनान्याकरे स्थितानि। एवं च यत्वस्यासिद्धतयाऽम्परत्वाभावात् पुमः खयि (8.3.6) इति रुत्वं नेत्यर्थः। पुंख्यानमिति। चक्षिङो ल्युट्। ख्याञादेशः। नन्वादेश इह दुर्लभः। ‘वर्जने प्रतिषेधः’ ‘असनयोश्च’ इति वार्तिकादिति चेत्? सत्यम्। ‘बहुलं तणि’ ‘अन्नवधकगात्रविचक्षणाजिराद्यर्थम्’ इति वार्तिके बहुलग्रहणात्समाधेयम्। तथा च ख्शादित्वप्रयोजनगणनवार्तिकम् रुविधिः— पुंख्यानमिति, णत्वं— पर्याख्यानमिति, निष्ठानत्वमाख्यातम् इति च। शकारेण व्यवधानात् कृत्यचः (8.4.29) इति णत्वं न, तथा आख्यातमित्यत्र संयोगादेरात— (8.2.43) इति नत्वं न, यत्वस्यासिद्ध्या यण्वत्ताविरहात्। एवं च न ध्याख्या— (8.2.57) इति सूत्रे ख्याग्रहणं न कर्तव्यमिति भावः। न च ख्या प्रकथने, इत्येतदर्थं तदिति वाच्यम्। तस्य सार्वधातुकमात्रविषयत्वात्। अत्र च ‘सस्थानत्वं नमः ख्यात्रे’ इत्युत्तरवार्तिकं प्रमाणम्। सस्थान इति जिह्वामूलीयस्य प्राचां सञ्ज्ञा। स इह न। शर्परे विसर्जनीयः (8.3.35) इत्यस्य प्रवृत्तेरिति भावः। यदि स्वतन्त्रोऽपि धातुरार्धधातुके इष्येत तदा जिह्वामूलीयस्य दुर्वारतयेदं वार्तिकमसङ्गतं स्यात्। यत्तु हरदत्तमाधवादिभिरुक्तं ख्याधातुरपि ख्शादिर्यत्वविधिरप्युभयसाधारण इति, तच्चिन्त्यम्। भाष्ये चक्षिङ एवोपक्रमात्सार्वधातुकेऽपि ख्शादिप्रयोगापत्तेश्च। न चेष्टापत्तिः, माधवेनार्धधातुकेष्वेवायं ख्शादिरित्युक्तत्वात्, सार्वधातुकेऽनभिधानस्यैव शरणीकर्तव्यत्वापत्त्या गौरवग्रस्तत्वेत्यास्तां तावत्। स्यादेतत्। बहवः पुमांसोऽस्मिन् कुले बहुपुम् ख्यातीत्यत्र रुत्वं स्यात्। उरःप्रभृतिषु पुम्शब्दस्यैकवचनान्तस्यैव पाठान्नेह कप्। सार्वधातुके च ख्यातेः प्रयोगो निर्बाध एवेति चेत्। इष्टापत्तेः। संहिताया अविवक्षायां तु रुत्वं नेति स्पष्टमेव। यत्तु प्राचा ‘ख्याधातौ नेति केचित्’ इत्युक्तं, तत्र यदि ख्याञादेशे इत्यर्थस्तर्हि केचिदित्यनुचितम्। स्वतन्त्रे धातौ चेत्तर्हि सार्वधातुकविषयेऽपि निषेधः स्यात्। न चेष्टापत्तिः। निर्मूलत्वात्।

Prakriyasarvasvam

अम्परे खयि परा पुंशब्दस्य संहितायां रुः स्यात् । ‘अत्रानुनासिक’ इति वानुनासिकः । ‘अनुनासिकात् पर’ इति पक्षेऽनुस्वारः । ‘सम्पुंकानामि’ति सः । पुँस्कोकिलः । पुंस्कोकिलः । एवं पुँस्पुत्रः पुंस्पुत्रः । अम्परे इत्युक्तेः पुंक्षेत्रमित्यत्र रुत्वं न । ‘ख्याधातोस्तु यकारः शकारवदिष्यते’ । तेन पुंख्यातिरित्यदावम्पर- त्वक्षयाद् न रुः । क्रीडन् चक्री, जनान् त्राता ।

Sarala

“खर्परे शरि शरि वा विसर्गलोपः” इत्यस्य कुप्वोः ᳲक ᳲपौ च (८.३.३७) इत्यस्य चापवादोऽयं विसर्गविधिः । मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यतः “रु” इत्यनुवर्त्त्याह - रुरिति

Sudha

पुनः खय्यम्पर इति । ** **मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यतो रुग्रहणमनुवर्तते अम् परो यस्मादिति विग्रहस्तदाह — अम्परे खवि इति । पुंस्कोकिल इति । ** पुमांश्चासौ कोकिलश्चेति कर्मधारयसमासः । “पुम्-कोकिलः” इत्यत्र **पुमः खय्यम्परे (8.3.6) इत्यनेन पुमो मस्य रुत्वे रेफोत्तरवर्त्युकारलोपे “पुर् कोकिल” इति जाते अत्रानुनासिक: पूर्वस्य तु वा (8.3.2) इत्यनुनासिके </qt>पुँर्-कोकिलः</qt>, पक्षे अनुनासिकात्परोऽनुस्वारः (8.3.4) इत्यनेनानुस्वारे “पुंर् कोकिल” इति भूते अत्र खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य विसर्गत्वे कुप्वोः ≍क ≍पौ च (8.3.37) इत्यनेन जिह्वामूलीये प्राप्ते तं बाधित्वा <!सम्पुङ्कानां सो वक्तव्यः!> इति विसर्गस्य सत्वे कृते “पुँस्कोकिलः”, “पुंस्कोकिलः” इति रूपद्वयं सिद्ध्यति ॥