83016: रोः सुपि¶
Padacheda: रोः | S | 6 | 1 |
सुपि | S | 7 | 1 |
Sutrartha¶
सप्तमीबहुवचनस्य सुप्-प्रत्यये परे पदान्तरेफस्य तदा एव विसर्गः भवति यदा सः रेफः ‘रुँ’ इत्यस्मात् निर्मितः अस्ति ।
खरवसानयोर्विसर्जनीयः (8.3.15) इति सूत्रेण पदान्तरेफस्य संहितायाम् खर्-वर्णे परे विसर्गादेशे प्राप्ते, प्रकृतसूत्रेण सप्तमीबहुवचनस्य सुप्-प्रत्यये परे सः नियम्यते । **सप्तमीबहुवचनस्य सुप्-प्रत्यये परे केवलम् रुँ-इत्यस्मात् प्राप्तस्य रेफस्य एव विसर्गादेशः भवति, अन्यरूपेण सिद्धानाम् रेफाणाम् न ** — इति प्रकृतसूत्रस्य आशयः । उदाहरणे एते — 1. “गिर्” शब्दस्य सप्तमीबहुवचस्य प्रक्रियायाम् रेफस्य सुप्-प्रत्यये परे विसर्गादेशः न भवति, यतः “गिर्” शब्दे विद्यमानः रेफः रुँ-इत्यस्मात् निर्मितः नास्ति अपितु ‘ॠ’ इत्यस्मात् निर्मितः वर्तते । प्रक्रिया इयम् —
गॄ + क्विप् + सुप् [गॄ-धातोः **क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः । क्विबन्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञायां जातायाम् सप्तमीबहुवचनस्य सुप्-प्रत्ययः]
→ गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ गिर् + सु [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारादेशः भवति, स च**उरण् रपरः** (1.1.51) इति रपरः विधीयते । अनेन प्रकारेण अत्र विद्यमानः रेफः ॠकारस्य आदेशरूपेण विहितः वर्तते, न हि रुँ-इत्यस्मात् निर्मितः ]।
→ गिर् सु [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62)
इत्यनेन 'गिर्' इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति । ]
→ गीर् सु [**र्वोरुपधाया दीर्घ इकः** (8.2.76) इति दीर्घः]
→ गीर्षु [**आदेशप्रत्यययोः** (8.3.59)]इति षत्वम् । अत्र [**स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन गीर्-शब्दस्य पदसंज्ञायां सत्याम् **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यनेन प्राप्तः विसर्गादेशः **रोः सुपि** (8.3.16) इत्यनेन नियम्यते, अतः अत्र ॠवर्णात् निर्मितस्य रेफस्य विसर्गादेशः न भवति ।]
“पयस्” शब्दस्य सप्तमीबहुवचस्य प्रक्रियायाम् रुँ-इत्यस्मात् इत्संज्ञालोपं कृत्वा निर्मितस्य रेफस्य सुप्-प्रत्यये परे विसर्गादेशः भवति ।
पयस् +सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ पयरुँ + सु [**स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन पयस्-शब्दस्य पदसंज्ञा भवति । अतः **ससजुषो रुँः** (8.2.66) इत्यनेन पदान्तसकारस्य रुत्वं भवति ।]
→ पयर् + सु [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ पयः + सु [रुँ-इत्यस्य सुप्-प्रत्यये परे **रोः सुपि** (8.3.16) इति विसर्गः]
→ पयःसु, पयस्सु [**वा शरि** (8.3.36) इति विकल्पेन सकारादेशः]
Sutrartha (English)¶
In presence of the सुप् प्रत्यय of सप्तमी-बहुवचन, a पदान्त र्-वर्ण is converted to a विसर्ग only if that र् is generated from रुँ, and not otherwise.
Vasu English Summary¶
The विसर्जनीय is substituted for रु called र (and not any other र) before the Locative -7th case plural case-affix सु।
Vasu English Translation¶
The विसर्जनीय is substituted for रु called र (and not any other र) before the Locative -7th case plural case-affix सु। Thus पयःसु, सर्प्पिःषु, यशःसु ॥ The word सुप् is here the Locative Plural affix. Though the र् would have been changed to visarga by the last sutra also; the making of this a special sutra is for the sake of niyama. That is, only रु becomes visarga, and not any other र् ॥ Thus गीर्षु, भूर्षु, when the र् is not रु ॥ In पयस् &c, the स् becomes रु by (8.2.66).
Bhashya¶
रोः सुपि किमर्थमिदमुच्यते न खरवसानयोर्विसर्जनीय इत्येव सिद्धम्?॥ नियमार्थोऽयमारम्भः(1)॥ नियमार्थोऽयमारम्भः(1) ठरोरेव सुपि नान्यस्य सुपि॥ क्व मा भूत्?॥ गीर्षु धूर्षु॥ रोः सुपि।
Kashika¶
रु इत्येतस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति। पयःसु। सर्पिःषु। यशःसु। सुपीति सप्तमीबहुवचनं गृह्यते। सिद्धे सत्यारम्भो नियमार्थः। रोरेव सुपि विसर्जनीयादेशः, नान्यस्य। गीर्षु। धूर्षु॥
Siddhanta Kaumudi¶
सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥
Balamanorama¶
रोः सुपि - रोः सुपि ।खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप् ।खरवसानयो॑रित्येव सिद्धे नियमार्थ एवैष विधिरित्याह — रोरेवेति । विपरीतनियमस्तु न,हलोऽनन्तराः संयोगः॑ इति निर्देशात् । षत्वमिति ।आदेश प्रत्यययो॑रित्यनेने॑ति शेषः । रेफस्य इण्त्वेन ततः परत्वादिति भावः । षस्य द्वित्व इति ।अचो रहाभ्या॑मित्यनेने॑ति शेषः ।
Tattvabodhini¶
रोः सुपि - रोः सुपि ।सुपि॑ति न प्रत्याहारः,खरी॑त्यनुवृत्तेः । तेनपराभ्या॑मित्यादौ विध्यर्थमेतन्न भवति ।खरवसानयो॑रित्येव सिद्धेऽयमारम्भो नियमार्थ इत्याह — रोरेवेति ।रोः सुप्येव विसर्जनीयः॑इति विपरीतनियमस्त्विह न भवति,हलोऽनन्तराः संयोगः॑इत्यादिनिर्देशात् ।
Padamanjari¶
पयः स्विति । यत्र सकारद्वयं पठ।ल्ते तत्र’वा शिर’ इति विसर्जनीयस्य वा सकारः । सर्पिः ष्विति । यत्र विसर्जनीयः पठ।ल्ते तत्र’नुम्विसर्जनीयशर्व्यवाये’ पिऽ इति प्रत्ययसकारस्य षत्वम् । षकारद्वयपाठे तु पूर्ववद्धिसर्जनीयस्य सत्वम्, परस्य पूर्ववदेव षत्वम्, पूर्वस्य ष्टुअत्वम् । सप्तमीबहुवचनं गृह्यत इति । न प्रत्याहारः;’खरि’ इत्यनुवृतेः, न हि सप्तमीबहुवचनादन्यः सुप् खरादिरस्ति । तेन पयोभ्यामित्यादौ विध्यर्थं न भवति, किं तर्हि ? नियमार्थम्, यदाहसिद्धे सत्यारम्भो नियमार्थ इति । रोरेव सुपीति । विपरीतस्तु नियमो न भवति - रोः सुप्येवेति;’हलो’ नन्तराः संयोगःऽ इत्यादिनिर्देशात् ॥
Nyaas¶
पयःसु, यशःसु इति। क्वचित्? सकारद्वयं पठते। तत्र वा शरि (8.3.36) इति विसर्जनीयस्य सकारः। सर्पिःषु इति। यत्र विसर्जनीयः पठते तत्र नुम्विसर्जनीयशव्र्यवायेऽपि (8.3.58) इति प्रत्ययसकारस्य षत्वम्। यत्र सर्पिष्ष्विति षकारद्वयं पठते, तत्र पूर्ववदेव विसर्जनीयस्य सकारे कृते पूर्ववदेव प्रत्ययसकारस्य वत्वम्, पूर्वस्य ष्टुत्वम्? (8.4.40) । सुपीति प्रत्याहारग्रहणशङ्कानिरासायाह -सुपि इत्यादि। एतच्च खरि इत्यनुवर्तनाल्लभ्यते, न हि सप्तमीबहुवचनदन्यः सुप्? क्षरादिरस्ति। मा भूत्; खरीत्यनुवृत्तेः। सप्तम्याः पकारेण प्रत्याहारग्रहणं कस्मान्न भवतीति? सम्भवति [न सम्भवति -कांउ।पाठ] तत्र खरादिः सुप्। यदि स्यात्? किञ्च स्यात्? अगीःकः, अधःक इत्यत्र नियमाद्विसर्जनीयो न स्यात्। तस्माद्व्याख्यानमेव शरणम्। किमर्थं पुनरिदम्, यावता ननु सिद्धः पूर्वेणैव विसर्जनीयः? इत्याह -`सिद्धे सति इत्यादि। विपरीतनियमो नाशङ्कनीयः, किमः क्षेपे (5.4.70) इत्यादौ विसर्जनीयनिर्देशात्। गीर्णु, धूर्षु` इति। र्थोरुपधायाः (8.2.76) इत्यादिना दीर्घः॥
Prakriyasarvasvam¶
सप्तमीबहुवचने रोरेव विसर्गः स्यान्नान्यरेफस्य । षत्वम् । ‘अचो रहाभ्याम्—’ (८-४-४६) इति षस्य द्वित्वे प्राप्ते—
Sudha¶
रोः सुपीति । खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप् । **खरवसानयोर्विसर्जनीयः**(8.3.15) इत्येव सिद्धे नियमार्थम् एवैष विधिरित्याह -रोरेवेति । शरोऽचीति । **अचो रहाभ्यां द्वे**(8.4.46) इति, **नादिन्याक्रोशे पुत्रस्य**(8.4.48) इत्यतो नेति चानुवर्तते । तदाह - अचि पर इत्यादिना । चतुर्षु । चतुर् + सुप् इत्यत्र **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रस्य विसर्गत्वे प्राप्ते **रोः सुपि**(8.3.16) इति निषेधे चतुर् + सुप् इति जाते **आदेशप्रत्यययोः**(8.3.59) इति सस्य षत्वे **अचो रहाभ्यां द्वे**(8.4.46) इति षस्य द्वित्वे प्राप्ते **शरोऽचि**(8.4.49) इति षस्य द्वित्वाभावे षस्येत्संज्ञायां लोपे च ‘चतुर्षु’ इति रूपम् ।