83002: अत्रानुनासिकः पूर्वस्य तु वा

Padacheda: अत्र | S | 0 | 0 |

अनुनासिकः | S | 1 | 1 |

पूर्वस्य | S | 6 | 1 |

तु | S | 0 | 0 |

वा | S | 0 | 0 |

Sutrartha

अधिकारोऽयम् । अस्मिन् रुत्वप्रकरणे रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति ।

सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वितीयम् सूत्रम् । इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारः **कानाम्रेडिते (8.3.12) इति सूत्रं यावत् प्रचलति । अस्मिन् अधिकारे पाठितैः सूत्रैः यत्र यत्र रुँत्वम् विधीयते, तत्र तत्र रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति ** —‌ इति अस्य अधिकारस्य आशयः । यथा, समः सुटि (8.3.5) इति सूत्रेण “सम् + सुट् + कर्तृ” इत्यस्याम् अवस्थायाम् मकारस्य रुँत्वम् विधीयते; अस्मिन् रुँत्वे कृते मकारात् पूर्वम् विद्यमानस्य अकारस्य प्रकृत-अधिकारसूत्रेण विकल्पेन अनुनासिकादेशः अपि भवति —

सम् + सुट् + कर्तृ [**सम्परिभ्यां करोतौ भूषणे** (6.1.137)  इति सुट्-आगमः]
→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ सरुँ + सुट् + कर्तृ [**समः सुटि** (8.3.5) इत्यनेन मकारस्य रुँत्वम् ]
→ सँरुँ / संरुँ + स् + कर्तृ [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारागमः ।]
→ सँःस्कर्तृ / संःस्कर्तृ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः]
→ सँस्स्कर्तृ / संस्स्कर्तृ [**वा शरि** (8.3.36) इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]

<note>अस्मिन् सूत्रे ‘अत्र’ इति शब्दः रुत्वप्रकरणस्य निर्देशं करोति । प्रकृतसूत्रेण उक्तः अनुनासिकादेशः रुँत्वप्रकरणस्य सन्दर्भे (इत्युक्ते कानाम्रेडिते (8.3.12) इति सूत्रं यावत् ) एव स्वीकर्तव्यः इति अस्य अर्थः ।</note>

Sutrartha (English)

For the रुँ generated using the rules from this रूत्वप्रकरण, the letter before this रुँ is optionally converted to an अनुनासिक.

Vasu English Summary

In the following sūtras up to कानाम्रेडिते (8.3.12), this always to be supplied - ‘But here a nasal vowel after which रु has been ordained’.

Vasu English Translation

In the following sūtras up to कानाम्रेडिते (8.3.12), this always to be supplied - ‘But here a nasal vowel after which रु has been ordained’. This is an adhikara sutra. For the letter which stands before that letter for which रु has been substituted, there is substituted a nasal vowel, in this division of Grammar, where रु is the subject of discussion.

Thus sutra (8.3.5) says “In the place of the final of सम्, there is रु when सुट् augment follows”. The vowel अ of सम् becomes nasal; as सँस्कर्त्ता, सँस्कर्त्तुम्, सँस्कर्त्तव्यम् ॥ Why have we used the word अत्र in the sutra? It means “here i. e. in this division where रु is the subject of discussion”. Objection:- This object would have been gained, without using the word अत्र; since it is an adhikara sutra and would apply to रु ॥ Answer:- No. Here रु is taught in connection with nasal, therefore, the rule would not apply to any other context. For had अत्र not been used, we could not have known the extent of the jurisdiction (adhikara) of this nasal; and we might have applied the rule of nasality to those beyond the jurisdiction of रु, such as (8.3.13). The employment of अत्र prevents this doubt and shows that रु and nasality are co-extensive.

Kashika

अधिकारोऽयम्। इत उत्तरं यस्य स्थाने रुर्विधीयते, ततः पूर्वस्य तु वर्णस्य वानुनासिको भवतीत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति — समःसुटि (८.३.५) — सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोपः (८.३.१३) इत्यत्रापि पूर्वस्यानुनासिक आशङ्क्येत॥

Siddhanta Kaumudi

अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥

Laghu Siddhanta Kaumudi

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

Balamanorama

अत्रानुनासिकः पूर्वस्य तु वा - अत्रानुनासिक ।मतुवसौ रु सम्बुद्धौ॑ इति रुत्वविध्यनन्तरमिदं पठितम् । अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं च ‘रु’ इत्यपेक्षया ज्ञेयम्, प्रकृत्वात् । तदाह — अत्रेति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धेवा॑ग्रहणं स्पष्टार्थम् ।परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प॑ इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण ‘सर्’ इत्यत्र सकारादकारोऽनुनासिकः । सँर्स्कर्तेति स्थिते ।

Tattvabodhini

अत्रानुनासिकः पूर्वस्य तु वा - अत्रानुनासिकः । अयमधिकारो विधिर्वेति पक्षद्वयम् । आद्येअत्राग्रहणमनर्थकम्, अधिकारादेव रूप्रकरणलाभात् ।तु॑शब्दस्तु अधिकारपक्षे परस्मात्कार्यिणः पूर्वकार्यस्य विशेषद्योतनार्थः,-॒परस्य नित्यं रुत्वं पूर्वस्य तु वाऽनुनासिक॑ इति । विधिपक्षेतु॑शब्दो व्यर्थोवा॑ ग्रहणं स्पष्टार्थम्,अनुनासिकात्परः॑ इति ज्ञापकादेव सिद्धेः । नहि विकल्पं विनाअनुनासिकं विहाये॑त्यनुनासिकाऽभावपक्षः संभवति । इदमेव ध्वनयितुं वृत्तौतुध्वे॑तिशब्दावनुक्त्वारोः पूर्वस्यानुनासिकः स्या॑दित्येवोक्तम् । रोः पूर्वस्येति । उपलक्षणमेतल्लोपस्यापि । अत्ररुप्रकरणे यो विधिस्ततः पूर्वस्ये॑ति निष्कृष्टोऽर्थः । एवंरोः पूर्वस्मात्पर॑ इत्यस्यापिरुप्रकरणे यो विधिस्ततः पूर्वस्मात्पर॑ इत्यर्थो बोध्यः ।

Padamanjari

पूर्वत्वमिदमापेक्षिकम्, रुत्वं च सन्निहितम् । न च तदपेक्षं पूर्वत्वं सम्भवति; रोरनुनासिकस्य च सहविधानात् । तस्माद्यस्य रुर्विधीयते तदपेक्षमेव पूर्वत्वं विज्ञायत इत्याह - यस्य स्थान इति । अथात्रग्रहणं किमर्थम् ? अत्र रुप्रकरणे यथा स्यात् । अधिकारादप्येतत् सिद्धम्, अधिकारे हि सति रुत्वानुनासिकयोः सह विधानान्नान्यत्र प्रसङ्गः ? अथ आह - अत्रग्रहणमिति । अवधारणमत्र द्रष्टव्यम् - रुणैव सहेति । नन्वधिकारादप्येतत्सिद्धमित्युक्तम् ? अत आह - अधिकारेति । असत्यत्रग्रहणे अनुनासिकाधिकारस्य परिमाणं न ज्ञायेत - एतावत्सु योगेष्वस्य व्यापार इति, ततश्च रुप्रकरणात्परत्राप्यस्याधिकारः सम्भाव्येतेत्यर्थः । तुशब्दः परस्मात्कार्यिणः पूर्वस्य विशेषद्योतनार्थः - परस्य नित्यं रुत्वम्, पूर्वस्य तु वानुनासिक इति । वावचनमनर्थकम्, ज्ञापकात्सिद्धम्, यदयमुतरत्र सूत्रे यस्यानुनासिको न विहितस्तस्माद्रोः पूर्वस्मात्परमनुस्वारं शास्ति; ततो ज्ञायते - विकल्पेनायं भवतीति । न हि नित्येऽस्मिन्विधौ स रोः पूर्वः सम्भवति, यस्यानुनासिको विहित ॥

Nyaas

पूर्वत्वमिदमापेक्षिकम्, रुश्चेहानुवर्तते। न च तदपेक्षं पूर्वत्वमस्य विज्ञात्तुं शक्यते; इत उत्तरं ह्रनुनासिको रुश्च समनुवृत्तेरेककालं विधौयत इत्यनुनासिकविधानकाले रोरनिष्पन्नत्वम्। अतस्तदपेक्षया पूर्वत्वमिदमशक्यं विज्ञातुम्। तस्माद्यस्य स्थाने रुत्वं विधीयते तदपेक्षया पूर्वत्वं विज्ञायते, इत्याह -यस्य स्थाने रुर्विधीयते ततः पूर्वस्य इति। तुशब्दः परस्मात कार्यिणः पूर्वस्य विशेषं दर्शयति। परस्य रुत्वकार्यम्, पूर्वस्य त्वनुनासिक इति। अथ वा -रुत्वादननासिकस्य विशेषं दर्शयति। रुत्वं नित्यम्? अनुनासिकस्तु विभाषेति। अछाच्कद्कगणं किमर्थम्? अत्र रुप्रकरणे यथा स्यादिति चेन्न; अधिकारादेवैतत्? सिद्धम्। यथा हि अनुनासिकः पूर्वस्य इत्यधिकृतमुत्तरत्रानुवर्तते, तथा रुरित्येतदपि। तत्रान्तरेणाप्यत्रेति वचनं रुप्रकरणे भविष्यतीत्यत आह -अत्र इत्यागदि। सन्नियोगः -यौगपद्यम्। यौगपद्यम्। रुणा सह कथं नाम स प्रतीयेतेत्येवमर्थमत्रग्रहणम्। अवधारणञ्चात्र द्रष्टव्यम् -रुणैवेति। सन्नियोगमात्रं हि रुत्वानुनासिकयोः; उत्तरत्र द्वयोरप्यनुवृत्तेः। स्थानिऊभेदेन विरोधाभावाद्विनाप्यत्रग्रहणेन लभ्यत एव। ननु रुप्रकरणादूध्र्वमनुनासिकस्यास्वरितत्वादेव सन्नियोगो न विज्ञास्यते, तत्क तदर्थेनात्रग्रहणेन? इत्यत आह -अधिकारपरिमाणापरिग्रहे हि इत्यादि। अधिकारस्य परिमाणमियत्ता, तस्य परिग्रहः=परिज्ञानम्, निश्चयः। तस्मिन्नसति मन्दधीभिः प्रतिपत्तृभिः किमुत्तरत्रानुनासिकस्य स्वरितत्वमस्ति? अहोस्विन्नास्ति? इति जातसन्देहैः ढोढे लोपः (8.3.13) इत्यादावपि यस्य स्थाने ढलोपदिकार्यं विधीयते तस्मात्? पूर्वस्यानुनासिक आशङ्क्येत। अथ वाग्रहणं किमर्थम्, यावतोत्तरसूत्रे नित्यग्रहणादेव विकल्पोऽस्य विज्ञास्यते? नैतदस्ति; एवं हि पूर्वसत्रे विकल्पो विज्ञायेत। तस्माद्वेति वक्तव्यम्? न वक्तव्यम्; आचार्यप्रवृत्तिज्र्ञापयति -विकल्पेनायं विधिर्भवतीति, यदयमुत्तरसूत्रे यस्यानुनासिको न कृतस्तस्माद्रोः पूर्वस्मात्? परमनुस्वारागमं शास्ति। न हि नित्येऽस्मिन्? विधौ तत्? सम्भवति, रोः पूर्वस्य यस्यानुनासिको न कृत इति। एवं तर्हि विस्पष्टार्थं वाग्रहणम्॥

Praudhamanorama

अयमधिकारो विधिर्वेति द्वैतम्। आद्येऽत्रग्रहणमनर्थकम्, अधिकारादेव रुप्रकरणलाभात्। तुशब्दस्त्वधिकारपक्षे परस्मात्कार्यिणो विशेषद्योतनार्थः—परस्य नित्यं रुत्वं, पूर्वस्य तु वाऽनुनासिक इति; विधिपक्षे व्यर्थः। वाग्रहणं स्पष्टार्थम्। अनुनासिकात्पर— (8.3.4) इति ज्ञापकादेव सिद्धेः। न हि विकल्पं विनाऽनुनासिकाभावपक्ष इति सम्भवति। इदमेव ध्वनयितुं वृत्तौ तु वेति शब्दौ नोक्तौ॥

Prakriyasarvasvam

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा स्यात् । इत्यकारस्य वानुनासि- कत्वम् । सँर् स् करोति ।

Sarala

सूत्रे - अत्र इत्यस्य - रुप्रकरणे इत्यर्थः । राविति वक्तव्येऽत्रग्रहणात्ससजुष इति विहितस्य न ग्रहणम् । मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यतो “रु” इत्यनुवर्त्त्य दिग्योगलक्षणपञ्चमीं च कृत्वाह - रोः पूर्वस्येति