83003: आतोऽटि नित्यम्

Padacheda: आतः | S | 6 | 1 |

अटि | S | 7 | 1 |

नित्यम् | S | 1 | 1 |

Sutrartha

अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् परः अट्-प्रत्याहारस्य वर्णः विद्यते चेत्, रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य आकारस्य नित्यम् अनुनासिकादेशः भवति ।

सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् तृतीयम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् अनन्तरम् अट्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् रुँत्वात् पूर्वम् विद्यमानस्य आकारस्य **अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति सूत्रेण विकल्पेन अनुनासिकादेशे प्राप्ते प्रकृतसूत्रेण तस्य नित्यम् विधानम् क्रियते ।** <pt>अट् = सर्वे स्वराः, य्, व्, र्, ह् । <light>अट्-प्रत्याहारे लकारः नास्ति ।</light></pt> यथा —

महान् असि (ऋग्वेदे 3.46.2)
→ महारुँ असि [**दीर्घादटि समानपादे** (8.3.9) इत्यनेन सूत्रेण रुँत्वम्]
→ महाँरुँ असि [रुँत्वात् अनन्तरम् अट्-वर्णः (अकारः) अस्ति, रुँत्वम् पदान्ते विद्यते, तथा च रुँत्वात् पूर्वम् आकारः अपि अस्ति । अतः आकारस्य **आतोऽटि नित्यम्** (8.3.3) इति अनुनासिकादेशः भवति ]
→‌महाँय् असि [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति यकारादेशः]
→ महाँ असि [**लोपः शाकल्यस्य** (8.3.19) इति लोपः]

<note>अस्मिन् अधिकारे विद्यमानेन सूत्रेण प्राप्तस्य रुँत्वस्य विषये एव इदं सूत्रम् प्रयुज्यते । अतः ‘विश्वपा सुँ अत्र’ ईत्यादिषु स्थलेषु रुत्वे जाते प्रकृतसूत्रस्य प्रसक्तिः न विद्यते ।वस्तुतस्तु अस्मिन् रुत्वप्रकरणे अटि परे केवलम् दीर्घादटि समानपादे (8.3.9) इत्यनेनैव सूत्रेण रुँत्वम् सम्भवति, अतः प्रकृतसूत्रस्य प्रयोगः अपि दीर्घादटि समानपादे (8.3.9) इत्यस्मात् अनन्तरम् एव सम्भवति । दीर्घादटि समानपादे (8.3.9) इति सूत्रम् तु केवलं वैदिकप्रयोगानां विषये एव प्रवर्तते, अतः प्रकृतसूत्रस्य प्रयोगः अपि केवलम् वैदिकरूपाणाम् सिद्ध्यर्थम् एव भवति ।</note>

सूत्रस्य फलम् चिन्त्यम्

यद्यपि अनेन सूत्रेण आकारस्य अनुनासिकादेशः नित्यम् (compulsory) विधीयते, तथापि वेदेषु अनुनासिकादेशस्य स्थाने अनुस्वारस्य प्रयोगं कृत्वा प्रयोगाः कृताः दृश्यन्ते । यथा, “देवां ऋतुभिः कल्पयाति” (कृष्णयजुर्वेदः 1.1.14) इत्यत्र “देवारुँ ऋतुभिः” इति स्थिते आकारस्य प्रकृतसूत्रेण अनुनासिकादेशः नैव क्रियते, अपितु अनुनासिकात् परोऽनुस्वारः (8.3.4) इति अग्रिमसूत्रेण अनुस्वारागमः कृतः दृश्यते । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः विकल्पेनैव भवति इति आशयः । परन्तु विकल्पविधानं तु अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति पूर्वसूत्रेणैव क्रियते । अतः यदि वैकल्पिकम् एव विधानम् इष्यते, तर्हि प्रकृतसूत्रम् नैव आवश्यकम् इति निष्कर्षः सिद्ध्यति । अतः एव सिद्धान्तकौमुद्याम् सूत्रस्य फलं चिन्त्यम् इति निर्देशः कृतः वर्तते । काशिकाकारः तु अत्र छान्दसः व्यत्ययः (वैदिकवाङ्मये विद्यमानः कश्चन अपवादः) इति निर्देशेन एतान् प्रयोगान्, सूत्रम् अपि च समर्थयति ।

Sutrartha (English)

In this रूत्वप्रकरण, The रुँ that gets constructed at end of a पद causes an अनुनासिक of the आकार just preceding it.

Vasu English Summary

A nasal vowel is ALWAYS substituted for आ before रु when it is followed by a letter of अट् प्रत्यहार (i.e. when it is followed by a vowel or ह , य , व or र).

Vasu English Translation

A nasal vowel is ALWAYS substituted for आ before रु when it is followed by a letter of अट् प्रत्यहार (i.e. when it is followed by a vowel or ह , य , व or र). Thus (8.3.9) teaches रु substitution of म, the long आ preceding it, would have been optionally nasal by the last sutra. The present sutra makes it necessarily so. Thus महाँ असि (Rig. III.46.2) महाँ इन्द्रो य ओजसा (Rig. VIII.6. I). देवाँ अच्छादीव्यत् ॥

Some (i. e. the Taittariyas) read it as anusvara. This is a Vedic diversity.

Why do we say “for a long आ”? Observe ये वा वनस्पतीरनु ॥ Why do we say “when a vowel or ह, य, व, or र follows”? Observe भवांश्चरति, भवांश्छादयति ॥

The word नित्य ‘always’ is employed for the sake of distinctness only. The very fact of making a separate sutra, would give it a compulsory force, even without the word nitya.

Kashika

अटि परतो रोः पूर्वस्याकारस्य स्थाने नित्यमनुनासिकादेशो भवति। **दीर्घादटि समानपादे**(८.३.९) इति रुत्वं वक्ष्यति, ततः पूर्वस्यातोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। म॒हाँ अ॑सि (ऋ०३.४६.२)। म॒हाँ इन्द्रो॒ य ओज॑सा (ऋ० ८.६.१)। दे॒वाँ अच्छा॒ दीद्य॑त् (ऋ० ३.१.१)। केचिदनुस्वारमधीयते, सच्छान्दसो व्यत्ययो द्रष्टव्यः। आत इति किम्? ये वा॒ वन॒स्पती॒ँ१रनु॑ (मा०सं० १३.७)। अटीति किम् ? भवांश्चरति। भवांश्छादयति। नित्यग्रहणं विस्पष्टार्थम्॥

Siddhanta Kaumudi

अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥

Padamanjari

केचिदिति । तैतिरीयाः । अनुस्वारमधीयत इति । शुद्धा दाकारात्परम् । नित्यग्रहणमनर्थकम्, अरम्भसामर्थ्यादेव नित्यो विधिः सिद्धः ? अस्त्यारम्भे प्रयोजनम् नियमो यथा स्यात् - आत एवाटि, अन्येषां तु नेति । कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? नित्योऽनुनासिकः ॥

Nyaas

देवं अच्छादीव्यत् इति। अत्र योऽकारस्तस्मिन्नटि परतो दूर्घाददि समानपादे (8.3.9) इति न कारस्य रुत्वे कृते तस्मात्? पूर्वस्याकारस्यानेनानुनासिकत्वम्, पूर्ववद्रोर्यकारः, तस्य पूर्वदेव लोपः। यदि महां इन्द्रो म ओजसेति केचिदनुस्वारमधीयते इति वक्तव्यम्, तर्हि तद्यथासौ सिध्यतीत्यत आह -सः इत्यादि। व्यत्ययो बहुलम्` (3.1.85) इत्यनेन बोद्धव्यः। यो वा वनस्पतीं रनु इति। वनस्पतीन्? अन्विति स्थिते दीर्घादटि समानपादे (8.3.9) इति नकारस्य रुत्वे कृते अनुनासिकात्? परोऽनुस्वारः (8.3.4) इतीकारात्? परोऽनुस्वारः भवांशस्चरति इति। नश्छव्यप्रशात् (8.3.7) इति नकारस्य रुत्वम्, तस्य विसर्जनीयस्य सकारः, तस्य स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्। नित्यग्रहणं विस्पष्टार्थम्।[स्पष्टार्थम् -प्रांउ।पाठः] पूर्वेणैव विकल्पे सिद्धे सत्यारम्भसामर्थ्यादेव नित्योऽयं विधिर्विज्ञास्यते। ननु चात एवाटि, अथ वाऽटएवातः -इत्येव नियमो यथा स्यादित्येवमर्थः सिद्धे सत्यारम्भः स्यात्? नैतदस्ति; असति हि विधेये नियमो भवति। इह त्वस्ति विदेयम्, किं तत्? नित्योऽनुनासिकः। तस्माद्विधिरेव युक्तः; न नियमः। तथा चोक्तम् -विधिनियमसम्भवे विधिरेव व्यायान् (व्या।प।130) इति। आतः इति तकारोऽसब्देहार्थः। `आ इत्युच्यमाने सन्देहः स्यात् -किमर्थं षष्ठन्तस्याकारस्य कार्यिनो निर्देशः? उत्तादेशान्तस्य प्थमान्तस्य? इति॥

Prakriyasarvasvam

अटि परे रोः पूर्वस्यातो नित्यमनुनासिकादेशः स्यात् । महां इन्द्रो यः । अत्र रोर्यत्वे लोपः । अत्र तैत्तिरीयाणामनुस्वारोक्तिः [‘छान्दस्य त्य याद् द्रष्टव्यः ।?] ईकारेदेस्तु ‘दीर्घादटि-’ (८-३-९) इति रुत्वे ‘अत्रानुनासिकः-’ (८-३-२) इत्यनुनासिकः । उदधीं रिव । उभयथेत्यनुवृत्तेः क्वचिन्न । पितॄन्नृ- नचोदयः । मित्रो जनान् यातयति । समानपाद इत्युक्तेः अर्चिषा यातुधानानुपस्पृ- शेत्यादौ न । हन्त देवाँ ईडामहा ‘इड्यां आज्येनेत्यत्र तु पदान्तत्वेऽपि छान्दसत्वात् स्यात् ।