83018: व्योर्लघुप्रयत्नतरः शाकटायनस्य

Padacheda: व्योः | S | 6 | 2 |

लघुप्रयत्नतरः | S | 1 | 1 |

शाकटायनस्य | S | 6 | 1 |

Sutrartha

शाकटायनस्य मतेन (इत्युक्ते विकल्पेन) पदान्त-वकार-यकारयोः स्थाने संहितायाम् अशि-परे लघूच्चारणौ वकार-यकारौ भवतः ।

<pt> अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । <light>खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।</light> </pt> अश्-वर्णे परे शाकटायनस्य मतेन पदान्तयकारस्य लघु-उच्चारण-यकारः तथा च पदान्तवकारस्य लघु-उच्चारण-वकारः भवति इति अस्य सूत्रस्य आशयः । लघुप्रयन्ततरः / लघूच्चारणः वर्णः — यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालुनः/कण्ठस्य/मूर्ध्नः/दन्तानाम्/ओष्ठयोः) तथा च करणस्य (जिह्वामूलस्य / जिह्वामध्यस्य / जिह्वाग्रस्य) शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते । A letter that is pronounced indistinctly and has a shorter duration is called लघु-उच्चारण वर्ण) । एतादृशः लघूच्चारणवर्णः पदान्तयकारस्य पदान्तवकारस्य च स्थाने प्रकृतसूत्रेण विधीयते । स्थानसाधर्म्यात् यकारस्य स्थाने लघूच्चारणयकारः ( य्॔ ), वकारस्य च स्थाने लघूच्चारणवकारः ( व्॔ ) विधीयते इत्याशयः । <note>The लघूच्चारणयकारः is shown as **य्॔**&nbsp; and the लघूच्चारणवकारः is shown as **व्॔**&nbsp; purely as a writing convention to show them separate from the normal यकार and वकार. It should be noted that this is not a standard convention. The script does not have separate marker for writing the लघूच्चारण versions, because these are mostly theoretical concepts these days.</note> उदाहरणानि एतानि — 1. “भगोस् ईश्वराः” इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते ।

भोस् ईश्वराः
→ भगोरुँ ईश्वराः [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ]
→  भगोय् ईश्वराः [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः]
→ भगोय्॔ ईश्वराः [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ भगोयी॔श्वराः [वर्णमेलनम्]

अत्र “भगोय् ईश्वराः” अस्यां स्थितौ लघूच्चारणयकारः केवलम् विकल्पेन एव भवति । यत्र लघूच्चारणः यकारः न विधीयते, तत्र तु ओतो गार्ग्यस्य (8.3.20) इत्यनेन नित्यम् एव यकारलोपं कृत्वा “भगो ईश्वराः” इति अपि सिद्ध्यति । 2. “देव + जस् + आयान्ति” इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते —

देव + जस् + आगच्छन्ति
→ देवास् आगच्छन्ति [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घः आकारः]
→ देवारुँ आगच्छन्ति [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ]
→ देवाय् आगच्छन्ति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः]
→ देवाय्॔ आगच्छन्ति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ देवाया॔गच्छन्ति ।
यत्र लघूच्चारणः यकारः न विधीयते, तत्र  "देवाय् आगच्छन्ति" अस्यां स्थितौ **लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोपं कृत्वा "देवा आगच्छन्ति" इति सिद्ध्यति । तस्य अपि अभावे केवलं वर्णमेलनं कृत्वा "देवायागच्छन्ति" इत्यपि सिद्ध्यति ।
  1. “देव + जस् + यान्ति” इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते , तस्य च अग्रे नित्यम् लोपः अपि भवति —

देव + जस् + यान्ति
→ देवास् यान्ति [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घः आकारः]
→ देवारुँ यान्ति [**ससजुषो रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ]
→ देवाय् यान्ति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य य्-आदेशः]
→ देवाय्॔ यान्ति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ देवा यान्ति [**हलि सर्वेषाम्** (8.3.22) इति पदान्ते विद्यमानस्य लघूच्चारणयकारस्य लोपः]
पक्षे "देवाय् आगाच्छन्ति" अस्यां स्थितौ अपि **हलि सर्वेषाम्** (8.3.22)  इत्यनेन यकारलोपं कृत्वा "देवा यान्ति" इत्येव सिद्ध्यति ।
  1. “ द्वौ + एतौ” अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लघूच्चारणः वकारः भवति —

द्वौ एतौ
→ द्वाव् एतौ [**एचोऽयवायावः** (6.1.78) इति आवादेशः]
→ द्वाव्॔ एतौ [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन वकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः वकारः]
→ द्वावे॔तौ
लघूच्चारणवर्णस्य अभावे "द्वाव् एतौ" अस्यां स्थितौ **लोपः शाकल्यस्य** (8.3.19) इत्यनेन वकारलोपं कृत्वा "द्वा एतौ" इति सिद्ध्यति । तदभावे केवलं वर्णमेलनं कृत्वा "द्वावेतौ" इत्यपि सिद्ध्यति ।

Sutrartha (English)

In the context of संहिता, according to शाकटायन, the पदान्त-वकार and पदान्त-यकार, when followed by a letter from अश्-प्रत्याहार are converted respectively to लघु-उच्चारण-वकार and लघु-उच्चारण-यकार.

Vasu English Summary

व् and य् (in भगोय् etc. and after अ or आ , at the end of a पद) are pronounced with a lighter articulation before an अश् letter (vowels and soft-consonants) according the opinion of शाकटायन।

Vasu English Translation

व् and य् (in भगोय् etc. and after अ or आ , at the end of a पद) are pronounced with a lighter articulation before an अश् letter (vowels and soft-consonants) according the opinion of शाकटायन। That the effort in pronouncing which is very light is called laghu-prayatna-tara. Effort or articulation is a quality of the person who utters and which is the cause of the utterance of a letter. व् and य् of lighter articulation are substituted for the final व् and य् in भोय्, भगोय्, अघोय्, or after an अ or आ ॥ The lighter व् will replace the heavy व्, and so the lighter य् the heavy य् ॥

Thus भोयत्र, भगोयत्र, अघोयत्र, कयास्ते or क आस्ते, अस्मायुद्धर or अस्मा उद्धर, असावादित्यः or असा आदित्यः, द्वावत्र, or द्वा अत्र, द्वावानय or द्वा आनय ॥

The lighter articulation results from the relaxation of the muscles and the organs employed in speech. The places of pronunciation are palate &c, the organs are the root, the middle and the tip of the tongue. When the contact of the tongue with the various places is very light, the articulation is laghu prayatna-tara. In fact, य् and व् are to be slurred over.

Kashika

वकारयकारयोर्भोभगोअघोअवर्णपूर्वयोः पदान्तयोर्लघुप्रयत्नतर आदेशो भवत्यशि परतः शाकटायनस्याचार्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अघो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असावादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्वावानय, द्वा आनय। लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता॥

Siddhanta Kaumudi

पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥

Tattvabodhini

व्योर्लघुप्रयत्नतरः शाकटायनस्य - व्योर्लघु । वकारयकारयोरिति । भोभगोअघोअपूर्वयोरित्यर्थः । लघुप्रयत्नतरः=लघूच्चारणतरः । स चान्तरतम्याद्वस्य वः;यस्य य इत्याह-वयाविति ।

Padamanjari

अतिशयेन लघुप्रयत्नःउलघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः उ प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह - लघुप्रयत्नतरत्वमिति । स्थानमुताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानिउकरणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानिउलघूनि भवन्ति ॥

Nyaas

लघुप्रयत्नतरः इति। प्रयत्नः प्रयतनम्। यजयाच (3.3.90) इत्यादिना नङ्। लघुः प्रयत्नो यस्य स लघुप्रयत्नः, अतिशयेन लघुप्रयत्नो लघुप्रयत्नतरः। किं पुनरिदं लघुप्रयत्नतरत्वम्, यद्योगाल्लघुप्रयत्नतरो भवतीत्याह -लघुप्रयत्नतरत्वम् इत्यादि। स्थानम् -ताल्वादि, करणम् -झ्वामूलादि, तयोरुच्चारणे शैथिल्यं लघुप्रयत्नतरत्वम्` इत्यादि। स्थानम् -ताल्वादि, करणम् -जिह्वामूलादि, तयोरुच्चारणे शैथिल्यं लधुप्रयत्नतरत्वम्। उदाहरमेष्वान्तरतम्याद्वकारस्य वकार एव भवति, यकारस्य यकार एव।शाकटायनग्रहणं पूजार्थम्। अनेन हि व्योर्लघुप्रयत्नतरत्वं विधीयते, उत्तरसूत्रेणापि लोपः; तत्रोभयोविधानसामर्थ्यादेव पक्षे विधिर्विज्ञास्यते॥

Praudhamanorama

लघुप्रयत्नतरः, लघूच्चारणतरः। स चान्तरतम्याद् वस्य वो यस्य य इत्याह—

Prakriyasarvasvam

भो भगो अघो अपूर्वस्य यकारस्यावर्णपूर्वयोः पदान्तयोर्वकारयकारयोश्चाशि परे शाकटायनमते लघुप्रयत्नतर आदेशः स्यात् ।