83010: नॄन् पे¶
Padacheda: नॄन् | S | | | 6
पे | S | 7 | 1 |
Sutrartha¶
नॄन्-शब्दस्य अन्तिम-नकारस्य पकारे परे संहितायाम् विकल्पेन रुत्वं भवति ।
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् दशमं सूत्रम् । नृ-शब्दस्य द्वितीयाबहुवचनस्य “नॄन्” इति रूपस्य पकारे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । यथा —
नॄन् पाहि
→ नॄरुँ पाहि [**नॄन् पे** (8.3.10) इति नृ-शब्दस्य पकारे परे पाक्षिकं रुँत्वम्]
→ नॄँरुँ पाहि / नॄंरुँ पाहि [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ नॄँः पाहि / नॄंः पाहि [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गनिर्माणम्]
→ नॄँःपाहि / नॄंःपाहि / नॄँ≍पाहि / नॄं≍पाहि [**कुप्वोः ≍क ≍पौ च** (8.3.37) इति विकल्पेन उपध्मानीयः]
<br>
पक्षे **नॄन् पे** (8.3.10) इति नृ-शब्दस्य पकारे परे पाक्षिके रुँत्वाभावे 'नॄन्पाहि' इत्यपि रूपम् सिद्ध्यति ।
अन्यानि कानिचन उदाहरणानि —
नॄन् पृच्छ → नॄँःपृच्छ / नॄंःपृच्छ / नॄँः≍पृच्छ / नॄंः≍पृच्छ ।
नॄन् प्रार्थये → नॄँःप्रार्थये / नॄंःप्रार्थये / नॄँः≍प्रार्थये / नॄंः≍प्रार्थये ।
नॄन् प्लोषति → नॄँःप्लोषति / नॄंःप्लोषति / नॄँः≍प्लोषति / नॄंः≍प्लोषति ।
<note>अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च अनुनासिकात् परोऽनुस्वारः (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।</note>
रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका
प्रकृतसूत्रस्य काशिकाव्याख्याने “नॄन्” शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । परन्तु उभयथर्क्षु (8.3.8) इत्यस्मात् सूत्रात् ‘उभयथा’ इति अपि केचन अनुवर्तयन्ति, येन रुँत्वस्य विकल्पः सम्भवति — इत्यपि निर्देशः तत्र कृतः दृश्यते । सिद्धान्तकौमुद्याम् तु ‘रुः वा स्यात्’ इत्येव अर्थः निर्दिष्टः अस्ति ।
Sutrartha (English)¶
In the context of संहिता, the ending नकार of the word नॄन् , when followed by पकार is optionally converted to रुँ.
Vasu English Summary¶
रु is optionally substituted for the न् of नॄन् before प्।
Vasu English Translation¶
रु is optionally substituted for the न् of नॄन् before प्। The अ in प is for the sake of pronunciation only. Thus नॄँः पाहि or नॄंः पाहि; नॄँ प्रीणीहि or नॄँः प्रीणीहि ॥
Why do we say ‘before प्’? Observe नॄन् भोजयति ॥ Some read the anuvritti of उभयथा into this sutra, so that it is an optional one. Thus we have नॄन् पाहि also. The nominative case in नॄन् has the force of Genitive.
Kashika¶
नृृनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकार उच्चारणार्थः। नृृँः पा॑हि (ऋ० ८.८४.३), नंृृः पाहि। नृृँः प्रीणीहि, नृृंः प्रीणीहि। प इति किम् ? नृृन् भोजयति। उभयथेत्यपि केचिदनुवर्तयन्ति। नृृन् पा॒हि॒ (ऋ० १.१७४.१) इत्यपि यथा स्यात्॥
Siddhanta Kaumudi¶
नॄनित्यस्य रुः स्याद्वा पकारे परे ॥
Laghu Siddhanta Kaumudi¶
नॄनित्यस्य रुर्वा पे॥
Balamanorama¶
नॄन् पे - नृन्पे । ‘नृन्’ इति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रौ लुक् । नलोपाऽभावोऽपि सौत्र एव । ‘मतुवसो रु’ इत्यतो ‘रु’ इत्यनुवर्तते ।उभयथर्क्ष्वि॑त्यतंउभयथे॑त्यनुवर्तते । कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह-नृनित्यस्येत्यादिना ।अलोऽन्त्यस्य॑ । नृन्-पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकल्पः॑ ।
Tattvabodhini¶
नॄन् पे - नृन्पे । पकारोपरि अकार उच्चारणार्थः । तेननृ#ः पुनाती॑त्यादि सिद्धम् ।उभयथक्र्षु॑ इत्यतउभयथे॑नुवृत्तेर्विकल्पः फलित इत्याशयेनाह-रुः स्याद्वेति । कुप्वो क । अत्रकुप्वो॑रिति रेफस्य विसर्गः, जिह्वामूलीयस्य खत्र्वात् ।खर्परे शरी॑ति विसर्गस्यास्य लोपः, जिह्वामूलीयस्य शत्र्वात् ।वा शरी॑ति विसर्गस्य विसर्ग एव वा । आदेशयोः कपावुच्चारणार्थौ । चाद्विसर्ग इति । प्राचा तुचाद्विकल्पः॑ इत्युक्तं , तदसत् । कपाभ्यां मुक्ते विसर्जनीयस्य सत्वप्रसङ्गात् ।
Padamanjari¶
नृनिति षष्ठ।ल्र्थे प्रथमा । एवमुतरत्रापि’पे’ इत्यकार उच्चारणार्थः, पकारमात्रं निमितम् ॥
Nyaas¶
नृन्? इति। सुपां सुलुक् (7.1.39) इत्यादिना षष्ठआ लुकं कृत्व निर्देशः। अथ वा - विभक्तिरेवात्र नोत्पद्यते, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्। यथा-गवित्ययमाहेत्यादि। पे इति पकारमात्रमेव निमित्तत्वेनोपात्तम्; न समुदायः। अकारस्तूच्चारणार्थः, अन्यथा हि यद्यकारसमुदायो निमित्तत्येनाश्रीयते, तदा नृ#ः पचतीत्येवमादावेव स्यात्, न तु नृन्? प्रीणीहीत्यादौ। अटि इति चेह निवृत्तम्; निमित्तान्तरो पादानात्। अथ तस्यैव निमित्तस्यैतद्विशेषणं कस्मान्न विज्ञायते -अटि परतो यः पकार इति? अशक्यमेवं विज्ञातुम्; इह न स्यात् -नृ#ः प्साति, नृ#ः प्लावयतीति। तस्मादस्य निवृत्तिरङ्ग्रहणस्य युक्ता॥
Praudhamanorama¶
पकारोपर्यकार उच्चारणार्थः। तेन नॄः पुनातीत्यादि सिद्धम्। ‘उभयथर्क्षु’ इत्यत ‘उभयथा’ इत्यनुवृत्तेर्विकल्पः फलित इत्याशयेनाह—
Sarala¶
(नॄनित्यस्य रुः स्याद्वा पकारे परे) । नॄन् इति द्वितीयान्तानुकरणं लुप्तषष्ठ्यन्तम् । मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यतो “रु” इति, उभयथर्क्षु (८.३.८) इत्यत “उभयथे”ति चानुवर्त्तते । “पे” इत्यकारो न विवक्षितः । ते नॄँः प्रीणाति, नॄः पुनाति - इत्यादौ रुत्वं सिध्यतीत्यभिप्रेत्याह - नॄनित्यस्येति ॥
Sudha¶
नॄन् पे इति । ** नॄन् इति द्वितीयान्तशब्दस्वरूपपरम्बोध्यम् । तच्च षष्ठ्यन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । **मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यतो रुँ इत्यनुवर्तते । उभयथर्क्षु (8.3.8) इत्यत उभयथेत्यनुवर्तते । कदाचिद्भवति, कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह — नॄनित्यस्येत्यादिना ।
Sutra Prayogas¶
सुप्रतिष्णात-सूत्राणा (भट्टिकाव्यम्): सूत्रं प्रतिष्णातम् इति निपातनम् ।