83011: स्वतवान् पायौ

Padacheda: स्वतवान् | S | | | 6

पायौ | S | 7 | 1 |

Sutrartha

‘स्वतवान्’ इत्यस्य ‘पायु’ शब्दे परे संहितायाम् विकल्पेन रुँत्वम् भवति ।

सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् एकादशं सूत्रम् । “स्वतवान्” (strong, powerful) इत्यस्य पदान्तनकारस्य “पायु” (protector) इति शब्दे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । “स्वतवान्” इति शब्द: “स्वतवस्” इति शब्दस्य प्रथमैकवचनम् अस्ति । अस्य शब्दस्य नकारस्य पायु-शब्दे परे वेदेषु कुत्रचित् रुत्वं कृतं दृश्यते, तादृशानां प्रयोगाणाम् साधुत्वार्थम् प्रकृतसूत्रम् निर्मितम् अस्ति । यथा भुवस्तस्य स्वतवाँः पायुरग्ने (ऋग्वेदः 4.2.6) इत्यत्र ‘स्वतवाँः’ इति शब्दः इत्थं सिद्ध्यति —

स्वतवान् + पायुः
→ स्वतवारुँ + पायुः [**स्वतवान् पायौ** (8.3.11) इति वैकल्पिकं रुँत्वम्]
→ स्वतवाँरुँ + पायुः/ स्वतवांरुँ + पायुः  [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ स्वतवाँः पायुः / स्वतवांः पायुः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
<br>
**स्वतवान् पायौ** (8.3.11)  इति सूत्रेण विकल्पेनैव रुँत्वं भवति, अतः पक्षे "स्वतवान् पायुः" इत्यपि प्रयोगः सिद्ध्यति ।

स्वतवान् शब्दस्य सिद्धिः

“तु (वृद्धिहिंसयोः)” इत्यस्मात् सौत्र-धातोः सर्वधातुभ्योऽसुन् इति उणादिसूत्रेण “असुन्” इति कृत्प्रत्ययं कृत्वा, “स्वतवस्” इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् प्रथमैकवचनस्य सुँ-प्रत्यये कृते स्वतवान् इति शब्दः सिद्ध्यति । प्रक्रिया एतादृशी —

   तु (वृद्धिहिंसयोः, सौत्रः धातुः)
   → तु + असुन् [**सर्वधातुभ्योऽसुन्** - उणादिः 4.188 इति असुन्-प्रत्ययः]
   → तु + अस् [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।
   → तो + अस् [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
   → तव् + अस् [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
   → तवस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा ।]
   → स्व + तवस् + सुँ ['स्वम् तवः अस्य' (One whose power is one himself) इत्यस्मिन् अर्थे **अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः । ततः प्रातिपदिकसंज्ञा, सुबुत्पत्तिः]
   → स्वतवस् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः]
   → स्वतवास्  [**अत्वसन्तस्य चाधातोः** (6.4.14) इति उपधादीर्घः]
   → स्वतवान् [ **दृक्स्ववस्स्वतवसां छन्दसि ** (7.1.83)  इति नुमागमः]


अत्र प्रकियायाम् **दृक्स्ववस्स्वतवसां छन्दसि ** (7.1.83) इति वैदिकप्रक्रियाविशिष्टं सूत्रम् उपयुज्य नुमागमः कृतः अस्ति । अतः "स्वतवान्" इति शब्दः अपि केवलम् वेदेषु एव साधु भवति ।

रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका

प्रकृतसूत्रस्य काशिकाव्याख्याने “स्वतवान्” शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । सिद्धान्तकौमुद्याम् तु ‘रुः वा’ इत्युक्त्वा विकल्पेन एव रुत्वम् विधीयते ।

Sutrartha (English)

In the context of संहिता, when the word स्वतवान् is followed by the word पायु, the नकार of स्वतवान् is optionally converted to रुँ.

Vasu English Summary

रु is substituted for the न् of स्वतवान् before पायु।

Vasu English Translation

रु is substituted for the न् of स्वतवान् before पायु। As स्वतवाँ पा॒युर॑ग्ने॒ (Rig. IV. 2.6). The word is स्वतवस्, the नुम् is added by (7.1.83). The word is derived from तु वृद्धौ with the affix असुन् (स्वन्तवो यस्यऽसौ स्वतवान्) ॥

Kashika

स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः। स्वत॑वाँः पा॒युर॑ग्ने (ऋ०४.२.६)॥

Siddhanta Kaumudi

रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ॥

Padamanjari

‘तु वृद्धौ’ सौत्रो धातुः, ततोऽसुन् - स्वं तवो यस्याऽसौ स्वतवान्,’दृक्स्ववः स्वतसां च्छन्दसि’ इति नुम् ॥

Nyaas

स्वतवानिति पूर्ववन्निर्देशौ वेदितव्यः। तथा कान् (8.3.12) इति परसूत्रेऽपि। स्वतवाः, पायुरग्ने इति। दृक्स्वःसवतवसाञ्छन्दसि (7.1.83) नुम, हल्ङ्यादि (6.1.66) संयोगान्त (8.2.23) लोपौ॥

Sutra Prayogas

  • कपिष्ठल-सम-त्विषाम् (भट्टिकाव्यम्): कपिष्ठलो गोत्रे इति साधुः ।