83005: समः सुटि

Padacheda: समः | S | 6 | 1 |

सुटि | S | 7 | 1 |

Sutrartha

सम्-उपसर्गस्य मकारस्य सुट्-आगमे परे रुँ-आदेशः भवति ।

सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् पञ्चमम् सूत्रम् । **सुट् कात् पूर्वः (6.1.135) अस्मिन् अधिकारे पाठितैः सूत्रैः विहितः सुट् इति आगमः सम्-उपसर्गात् अनन्तरम् विधीयते चेत् सम्-उपसर्गस्य मकारस्य रुँत्वम् भवति ** — इति अस्य सूत्रस्य अर्थः । <note>अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च अनुनासिकात् परोऽनुस्वारः (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।</note> यथा, सम्-उपसर्गात् परस्य कृ-धातोः ण्वल्तृचौ (3.1.133) इति सूत्रेण तृच्-प्रत्यये कृते सम्परिभ्यां करोतौ भूषणे (6.1.137) इति सम्-उपसर्गस्य सुट्-आगमः भवति, ततश्च प्रकृतसूत्रेण मकारस्य रुँत्वं विधीयते । सम्पूर्णा प्रकिया इयम् —

सम् + सुट् + कर्तृ [**सम्परिभ्यां करोतौ भूषणे** (6.1.137)  इति सुट्-आगमः]
→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ सरुँ + सुट् + कर्तृ [**समः सुटि** (8.3.5) इत्यनेन मकारस्य रुँत्वम् ]
→ सँरुँ / संरुँ + स् + कर्तृ [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारागमः ।]
→ सँःस्कर्तृ / संःस्कर्तृ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः]
→ सँस्स्कर्तृ / संस्स्कर्तृ [**वा शरि** (8.3.36) इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]

विसर्गस्य नित्यम् सकारादेशः

उपरिनिर्दिष्टायाम् प्रक्रियायाम् “सँःस्कर्तृ / संःस्कर्तृ” इत्यस्याम् अवस्थायाम् वा शरि (8.3.36) इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते तद्बाधित्वा नित्यम् एव सकारादेशः इष्यते । तदर्थम् काशिकायाम् तिस्रः पद्धतयः उक्ताः सन्ति — <hlb>1. <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः —</hlb> सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा —

  1. “सम् + सुट् + कर्तृ” इत्यत्र “सम्”-इत्यस्य मकारस्य समः सुटि (8.3.5) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “सँःस्कर्तृ / संःस्कर्तृ” इति सिद्धे अग्रे विसर्गस्य वा शरि (8.3.36) इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन “सँस्स्कर्तृ / संस्स्कर्तृ” इति प्रयोगौ सिद्ध्यतः ।

  2. “पुम् + काम” इत्यत्र पुम्-इत्यस्य मकारस्य पुमः खय्यम्परे (8.3.6) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “पुँःकाम / पुंःकाम” इति सिद्धे अग्रे विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन “पुँस्काम / पुंस्काम” इति प्रयोगौ सिद्ध्यतः ।

iii) “कान् + कान्” इत्यत्र कान्-इत्यस्य नकारस्य कानाम्रेडिते (8.3.12) इत्यनेन रुत्वे, ततश्च खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे कृते, “काँःकान् / कांःकान्” इति सिद्धे अग्रे विसर्गस्य कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन “काँस्कान् / कांस्कान्” इति प्रयोगौ सिद्ध्यतः । </listsp> <note>इदं वार्त्तिकम् वा शरि (8.3.36) इत्यत्र अपि निर्दिष्टम् वर्तते ।</note> <hlb>2. सूत्रे सकारप्रश्लेषं कृत्वा समः स्सुटि इति सूत्रविधानम् —</hlb> “सँःस्कर्तृ / संःस्कर्तृ” इत्यस्याम् अवस्थायाम् विसर्गस्य वा शरि (8.3.36) इत्यनेन प्राप्तं वैकल्पिकं सकारादेशं बाधितुम् प्रकृतसूत्रे सकारप्रश्लेषः अपि कर्तुं शक्यते इति निर्देशः अस्य सूत्रस्य भाष्ये अपि विद्यते । इत्युक्ते, प्रकृतसूत्रे सुटि इत्यस्य स्थाने सकारस्य प्रश्लेषं कृत्वा स्सुटि इति सकारसहितम् शब्दं प्रपठ्य, सम्-इत्यस्य सुट्-आगमे परे सकारादेशः भवति इति सूत्रार्थः करणीयः, इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा “सँस्स्कर्तृ / संस्स्कर्तृ” इति द्वे रूपे अवश्यं सम्भवतः । <hlb>3. वा शरि (8.3.36) इत्यत्र व्यवस्थितविभाषा —</hlb> वा शरि (8.3.36) इत्यनेन सूत्रेण निर्दिष्टा विभाषा व्यवस्थितविभाषा अस्ति इति स्वीकृत्य —** “सँःस्कर्तृ / संःस्कर्तृ” एतादृशेषु स्थलेषु नित्यम् सकारादेशः, अन्यत्र वैकल्पिकः सकारादेशः** — इति अस्य सूत्रस्य अर्थविधानं क्रियते चेद् अपि अत्र सकारादेशः नित्यं भवितुम् अर्हति ।

भाष्योक्तिः —‌ <!समो वा लोपमित्येके !>

प्रकृतसूत्रे भाष्यकारेण <!समो वा लोपमित्येके !> इति किञ्चन वचनम् निर्दिष्टम् अस्ति । “सम् + सुट् + कर्तृ” इत्यस्याम् अवस्थायाम् मकारस्य प्रकृतसूत्रेण प्राप्तं रुँत्वं बाधित्वा केषाञ्चन मतेन मकारस्य लोपः अपि सम्भवति — इति अस्य भाष्यवाक्यस्य आशयः । अस्मिन् पक्षे प्रक्रिया इत्थं जायते —

सम् + सुट् + कर्तृ [**सम्परिभ्यां करोतौ भूषणे** (6.1.137)  इति सुट्-आगमः]
→ सम् + स् + कर्तृ [इत्संज्ञालोपः]
→ स + स् + कर्तृ [<!समो वा लोपमित्येके !> इति मकारलोपः]
→ सँ स् कर्तृ / सं स् कर्तृ [यद्यपि अत्र रुँत्वम् न प्रवर्तते, तथापि अस्य भाष्यवाक्यस्य अस्यैव प्रकरणे उपस्थितिः वर्तते, अतः  **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशः, पक्षे च अनुस्वारागमः अपि भवति ।]
→ सँस्कर्तृ / संस्कर्तृ

अनेन प्रकारेण अत्र द्वे भिन्ने रूपे सम्भवतः ।

संस्कर्ता-शब्दस्य 108 रूपाणि

“सम् + सुट् + कर्ता” इत्यस्य प्रक्रियायाम् मकारस्य समः सुटि (8.3.5) इत्यनेन रुँत्वे कृते “सँस्स्कर्ता / संस्स्कर्ता” इति द्वे रूपे, तथा च मकारस्य <!समो वा लोपमित्येके !> इत्यनेन लोपे कृते “सँस्कर्ता / संस्कर्ता” इति अपरे द्वे रूपे — इति आहत्य चत्वारि रूपाणि आदौ सिद्ध्यन्ति । एतेभ्यः चतुर्भ्यः रूपेभ्यः भिन्नानि वैकल्पिकसूत्राणि उपयुज्य, आहत्य अष्टोत्तरशतं रूपाणि भवितुम् अर्हन्ति । एतानि अधः संक्षेपेण विवरितानि सन्ति । <listsp> 1. “सम् + सुट् + कर्ता” इत्यत्र समः सुटि (8.3.5) इत्यनेन रुँत्वे कृते “सँस्स्कर्ता / संस्स्कर्ता” इति द्वे रूपे । पक्षे <!समो वा लोपमित्येके !> इत्यनेन मकारलोपे कृते “सँस्कर्ता / संस्कर्ता” इति अपरे द्वे रूपे । आहत्य चत्वारि प्रारम्भिकरूपाणि । 2. अनुस्वारः अच्-प्रत्याहारे स्वीक्रियते, अतः “सँस्स्कर्ता / संस्स्कर्ता” इत्यत्र अनचि च इति प्रथमसकारस्य द्वित्वे कृते “सँस्स्स्कर्ता / संस्स्स्कर्ता” इति त्रिसकारात्मके द्वे रूपे भवतः ।आहत्य 4 (पूर्वम् उक्तानि) + 2 (नूतनानि) = 6 रूपाणि । एतेषु त्रीणि रूपाणि अनुस्वारयुक्तानि, अवशिष्टानि त्रीणि च अनुनासिकस्वरयुक्तानि - इति भेदः । <light>’सँस्कर्ता / संस्कर्ता’ इत्यत्रापि ‘अनचि च’ इत्यनेन द्वित्वम् अवश्यम् सम्भवति, परन्तु तेन ‘सँस्स्कर्ता / संस्स्कर्ता’ इत्येव रूपे सिद्ध्यतः येषाम् परिगणनम् पूर्वमेव कृतम् अस्ति, अतः तेषाम् पुनः परिगणनम् नैव क्रियते ।</light> 3. अनुस्वारः यथा अच्-प्रत्याहारे अस्ति, तथैव शर्-प्रत्याहारे अपि अस्ति इति विसर्जनीयस्य सः (8.3.34) अस्मिन् सूत्रे सिद्धान्तकौमुद्यां दीक्षितः स्पष्टी करोति । अतः अनुस्वारः ‘यर्’ प्रत्याहारे अस्ति इत्यपि वक्तुं शक्यते, यतः शर्-प्रत्याहारः यर्-प्रत्याहारे सम्मिलितः अस्ति । अस्यां स्थितौ, अस्मात् यर्-वर्णात् (अनुस्वारात्) पूर्वम् अच्-वर्णः (स्वरः), ततश्च अस्मात् अनुस्वारात् अनन्तरम् हल्-वर्णः (सकारः) यत्र विद्यते तत्र अनुस्वारस्य अपि अनचि च (8.4.47) इत्यनेन वैकल्पिकं द्वित्वं सम्भवति । एतादृशी स्थितिः अनुस्वारयुक्तेषु त्रिषु रूपेषु — “संस्कर्ता / संस्स्कर्ता / संस्स्स्कर्ता” — एतेषु विद्यते, अतः एतेषु विद्यमानस्य अनुस्वारस्य अनचि च (8.4.47) इत्यनेन वैकल्पिकं द्वित्वं कृत्वा “सं[ं]स्कर्ता / सं[ं]स्स्कर्ता / सं[ं]स्स्स्कर्ता” इति त्रीणि नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 6 (पूर्वम् उक्तानि) + 3 (नूतनानि) = 9 रूपाणि । एतेषु त्रीणि रूपाणि अनुस्वारद्वययुक्तानि, त्रीणि रूपाणि अनुस्वारयुक्तानि, अवशिष्टानि त्रीणि च अनुनासिकस्वरयुक्तानि - इति भेदः । <light>Note that the newly generated forms on this step have two anuswar each. They cannot be properly typed in Devanagari, hence the additional anuswar is shown in square-brackets.</light> 4. अनचि च (8.4.47) इत्यत्र <!शरः खयः!> इति वार्त्तिकम् पाठितम् अस्ति । शर्-वर्णात् (सकारात्) परस्य खय्-वर्णस्य (ककारस्य) अनेन वार्त्तिकेन वैकल्पिकं द्वित्वं भवति । अतः अत्र प्राप्तेषु नवसु अपि रूपेषु एतादृशम् ककारस्य वैकल्पिके द्वित्वे कृते “सँस्क्कर्ता / सँस्स्क्कर्ता / सँस्स्स्क्कर्ता / संस्क्कर्ता / संस्स्क्कर्ता / संस्स्स्क्कर्ता / सं[ं]स्क्कर्ता / सं[ं]स्स्क्कर्ता / सं[ं]स्स्स्क्कर्ता **”एतानि नव नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 9 (पूर्वम् उक्तानि) + 9 (नूतनानि) = 18 रूपाणि । 5. एतेषु अष्टादशसु अपि रूपेषु “कर्ता” इति अंशः अन्ते विद्यते । अस्मिन् शब्दे अच्-वर्णात् परः रेफः, तस्मात् परः तकारः विद्यते । अस्यां स्थितौ **अचो रहाभ्यां द्वे (8.4.46) इति तकारस्य वैकल्पिकं द्वित्वं सम्भवति, येन “कर्त्ता” इति द्वितकारात्मकम् रूपम् सिद्ध्यति । सर्वेषु अपि अष्टादशसु रूपेषु एतादृशम् तकारस्य वैकल्पिकं द्वित्वं कृत्वा अष्टादश नूतनानि रूपाणि सिद्ध्यन्ति । आहत्य 18 (पूर्वम् उक्तानि) + 18 (नूतनानि) = 36 रूपाणि । 6. एतेभ्यः 36 रूपेभ्यः अष्टादशसु रूपेषु कर्त्ता इति द्वितकारात्मकम् रूपं विद्यते । अस्मिन् रूपे यण्-वर्णात् (इत्युक्ते, रेफात्) परः मय्-वर्णः (तकारः) विद्यते । अस्यां स्थितौ अनचि च (8.4.47) इत्यनेन पाठितेन <!यणो मयो द्वे वाच्ये!> इति वार्त्तिकेन रेफात् परस्य तकारस्य विकल्पेन द्वित्वम् सम्भवति । एतादृशम् द्वित्वम् “कर्ता” इति एकतकारात्मके रूपे न कर्तुं शक्यते यतः तत्र त्रिपादीक्रमम् अनुसृत्य आदौ अचो रहाभ्यां द्वे (8.4.46) इत्येव सूत्रम् प्रसज्यते । परन्तु अचो रहाभ्यां द्वे (8.4.46) इत्यनेन द्वित्वे कृते तत्र सिद्धेषु अष्टादशसु रूपेषु “कर्त्ता” इति द्वितकारात्मकानाम् रूपानाम् विषये अस्य वार्त्तिकस्य प्रयोगः अवश्यम् सम्भवति, येन “कर्त्त्ता” इति आहत्य अष्टादश नूतनानि त्रितकारात्मकाणि रूपाणि अपि सिद्ध्यति । आहत्य 36 (पूर्वम् उक्तानि) + 18 (नूतनानि) = 54 रूपाणि । 7. अन्ते, अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) इति सूत्रेण ‘कर्ता’ शब्दस्य अन्तिमः आकारः विकल्पेन अनुनासिकत्वं प्राप्नोति । अत्र सर्वेष्वपि 54 रूपेषु अन्ते आकारः विद्यते, अतः सर्वत्र विकल्पेन अनुनासिके कृते “ताँ” इत्यन्तानि इतोऽपि 54 रूपाणि सिद्ध्यन्ति ।आहत्य 54 (पूर्वम् उक्तानि) + 54 (नूतनानि) = 108 रूपाणि । </listsp> ** अनेन प्रकारेण “संस्कर्ता” शब्दस्य आहत्य 108 वैकल्पिकरूपाणि सिद्ध्यन्ति** । एतानि सर्वाणि अधः सङ्कलितानि सन्ति । <gana> <span class=’default-english-font’> Enumeration: सँस्कर्ता । सँस्स्कर्ता । सँस्स्स्कर्ता । संस्कर्ता । संस्स्कर्ता । संस्स्स्कर्ता । सं[ं]स्कर्ता । सं[ं]स्स्कर्ता । सं[ं]स्स्स्कर्ता । सँस्क्कर्ता । सँस्स्क्कर्ता । सँस्स्स्क्कर्ता । संस्क्कर्ता । संस्स्क्कर्ता । संस्स्स्क्कर्ता । सं[ं]स्क्कर्ता । सं[ं]स्स्क्कर्ता । सं[ं]स्स्स्क्कर्ता । सँस्कर्त्ता । सँस्स्कर्त्ता । सँस्स्स्कर्त्ता । संस्कर्त्ता । संस्स्कर्त्ता । संस्स्स्कर्त्ता । सं[ं]स्कर्त्ता । सं[ं]स्स्कर्त्ता । सं[ं]स्स्स्कर्त्ता । सँस्क्कर्त्ता । सँस्स्क्कर्त्ता । सँस्स्स्क्कर्त्ता । संस्क्कर्त्ता । संस्स्क्कर्त्ता । संस्स्स्क्कर्त्ता । सं[ं]स्क्कर्त्ता । सं[ं]स्स्क्कर्त्ता । सं[ं]स्स्स्क्कर्त्ता । सँस्कर्त्त्ता । सँस्स्कर्त्त्ता । सँस्स्स्कर्त्त्ता । संस्कर्त्त्ता । संस्स्कर्त्त्ता । संस्स्स्कर्त्त्ता । सं[ं]स्कर्त्त्ता । सं[ं]स्स्कर्त्त्ता । सं[ं]स्स्स्कर्त्त्ता । सँस्क्कर्त्त्ता । सँस्स्क्कर्त्त्ता । सँस्स्स्क्कर्त्त्ता । संस्क्कर्त्त्ता । संस्स्क्कर्त्त्ता । संस्स्स्क्कर्त्त्ता । सं[ं]स्क्कर्त्त्ता । सं[ं]स्स्क्कर्त्त्ता । सं[ं]स्स्स्क्कर्त्त्ता । सँस्कर्ताँ । सँस्स्कर्ताँ । सँस्स्स्कर्ताँ । संस्कर्ताँ । संस्स्कर्ताँ । संस्स्स्कर्ताँ । सं[ं]स्कर्ताँ । सं[ं]स्स्कर्ताँ । सं[ं]स्स्स्कर्ताँ । सँस्क्कर्ताँ । सँस्स्क्कर्ताँ । सँस्स्स्क्कर्ताँ । संस्क्कर्ताँ । संस्स्क्कर्ताँ । संस्स्स्क्कर्ताँ । सं[ं]स्क्कर्ताँ । सं[ं]स्स्क्कर्ताँ । सं[ं]स्स्स्क्कर्ताँ । सँस्कर्त्ताँ । सँस्स्कर्त्ताँ । सँस्स्स्कर्त्ताँ । संस्कर्त्ताँ । संस्स्कर्त्ताँ । संस्स्स्कर्त्ताँ । सं[ं]स्कर्त्ताँ । सं[ं]स्स्कर्त्ताँ । सं[ं]स्स्स्कर्त्ताँ । सँस्क्कर्त्ताँ । सँस्स्क्कर्त्ताँ । सँस्स्स्क्कर्त्ताँ । संस्क्कर्त्ताँ । संस्स्क्कर्त्ताँ । संस्स्स्क्कर्त्ताँ । सं[ं]स्क्कर्त्ताँ । सं[ं]स्स्क्कर्त्ताँ । सं[ं]स्स्स्क्कर्त्ताँ । सँस्कर्त्त्ताँ । सँस्स्कर्त्त्ताँ । सँस्स्स्कर्त्त्ताँ । संस्कर्त्त्ताँ । संस्स्कर्त्त्ताँ । संस्स्स्कर्त्त्ताँ । सं[ं]स्कर्त्त्ताँ । सं[ं]स्स्कर्त्त्ताँ । सं[ं]स्स्स्कर्त्त्ताँ । सँस्क्कर्त्त्ताँ । सँस्स्क्कर्त्त्ताँ । सँस्स्स्क्कर्त्त्ताँ । संस्क्कर्त्त्ताँ । संस्स्क्कर्त्त्ताँ । संस्स्स्क्कर्त्त्ताँ । सं[ं]स्क्कर्त्त्ताँ । सं[ं]स्स्क्कर्त्त्ताँ । सं[ं]स्स्स्क्कर्त्त्ताँ । </span> </gana> The regular expression &nbsp;”(सँ|सं|सं ं)स्{1-3}क्{1-2}अर् त्{1-3}(आँ|आ)” captures all these forms. This is to be read as — “सँ or सं or सं ं <light>followed by</light> one/two/three स् <light>followed by</light> one/two क् <light>followed by</light> अर् <light>followed by</light> one/two/three त् <light>followed by</light> आँ or आ”. It clearly exhibits a total of <span class=’default-english-font’>3 X 3 X 2 X 3 X 2 = 108</span> choices. Needless to say, except for a couple of these forms, all others are purely theoretical in nature, with no practical applications. Most of them can’t even be pronounced properly !

Sutrartha (English)

When followed by सुट् आगम, the मकार of सम् is converted to रुँ.

Vasu English Summary

रु is substituted for the म् of स्म् (and thereby अँ or अं is substituted for अ) when the augment स् follows in a संहिता ।

Vasu English Translation

रु is substituted for the म् of स्म् (and thereby अँ or अं is substituted for अ) when the augment स् follows in a संहिता । The augment सुट् is added by (6.1.137) &c. Thus सँस्स्कर्त्ता or संस्स्कर्त्ता, सँस्स्कर्तुम् or संस्स्कर्तुम्, सँस्स्कर्त्तव्यम् or संस्स्कर्त्तव्यम् ॥ The word is thus evolved: सम् + स् + कर्ता = सर् + स् + कर्ता (8.3.5). Here rule (8.3.15) appears and requires to be changed to visarjaniya. This visarga may optionally be retained unchanged by (8.3.36). This, however, is not done in the present instance : but the visarga is always and necessarily changed to स् by (8.3.34). In fact, the option of (8.3.36) is a determinate option (vyavasthita vibhasha) and does not apply to the present case.

Or even this sutra may be so read as to teach the स् substitution as well. Thus, the sutra is समः स्सुटि with two स्, and the sutra will mean, “रु is substituted for the म् of सम् before सुट्, and this रु is always changed to स्” ॥

Why do we say “for the म् of सम्”? Observe उपस्कर्त्ता ॥ Why do we say “before सुट्”? Observe संकृति ॥

Vart:- For the finals of सम्, पुम् and कान् there is always substituted स ॥ There would arise anomalies, if रु be substituted. Thus संस्कर्त्ता, पुंस्स्कामा, कांस्स्कान् ॥ In fact, according to this vartika, रु is never substituted for सम् (8.3.5), पुम् (8.3.6) and कान् (8.3.12).

Vart:- समो वा लोपमेके ॥ Some would have the elision of the स् after सम् ॥ This Vartika is not given in the Kasika, but the Padamanjari gives it, and so also the Mahabhashya.

According to Bhattoji Dikshita there will be 108 forms of this word संस्कर्त्ता ॥ Thus सँस्कर्त्ता and संस्कर्त्ता with the elision of स् ॥ Then with two स्, as सँस्स्कर्त्ता or संस्स्कर्ता ॥ Then we apply (8.4.47) to this latter, and have three स, as सँस्स्स्कर्ता or संस्स्स्कर्ता ॥ The anusvara is considered to be a vowel (अच्) for this purpose. From the three nasal forms सँस्कर्ता, सँस्स्कर्ता and सँस्स्स्कर्ता, we get three more by doubling the क् by the vartika : शरः खयः ॥ The three forms having anusvara, will also double their anusvara in addition to क् doubling. Thus we have 12 forms in anusvara: and six in nasal, altogether 18 forms. Then the त will be doubled and trebled : and thus with one त, two त and three त, we have 3 x 18 = 54 forms. This will be doubled (2 x 54 = 108) when अण् is nasalised.

Bhashya

समः सुटि पुमः खय्यम्परे ॥ कानाम्रिडिते ॥ ॥ संपुंकानां सत्वम्॥ संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)॥ रुविधौ ह्यनिष्टप्रसङ्गः॥ रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः (क)(पा(2)विति)(कः प्रसज्येत॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते॥ यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति॥ सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परइति निवृत्तम्। ॥ समो(1) वा लोपमेके॥ समो वा लोपमेक इच्छन्ति॥ संस्कर्ता सँस्कर्ता॥ समः सुटिः॥

Kashika

रुर्वर्तते। सम् इत्येतस्य रुर्भवति सुटि परतः संहितायां विषये सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। अत्र रोर्विसर्जनीये कृते वा शरि (८.३.३६) इति पक्षे विसर्जनीय एव प्राप्नोति। व्यवस्थितविभाषा द्रष्टव्या। तेनात्र नित्यं सकार एव भवति। अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते। समः स्सुटीति द्विसकारको निर्देशः। सम इति किम्? उपस्कर्ता। सुटीति किम्? संकृतिः। कश्चिदाह — ॥ संपुंकानां सो वक्तव्यः॥ रुविधौ ह्यनिष्टप्रसङ्गः — संस्स्कर्ता, पुंस्कामा, कांस्कानिति॥

Siddhanta Kaumudi

समो रुः स्यात् सुटि । अलोऽन्त्यस्य (SK42) ॥

Laghu Siddhanta Kaumudi

समो रुः सुटि॥

Balamanorama

समः सुटि - समः सुटि । ‘सम’ इति षष्टन्तम् ।मतुवसो रु सम्बुद्धौ॑ इत्यतः रुग्रहणमनुवर्तते । तदाह-समो रुरिति । ‘रु’ इत्युकार इत् । अलोऽन्त्यस्येति । ‘उपतिष्ठते’ इति शेषः । सम्पूर्वात्करोतेस्तृचिसम्परिभ्या करोतौ भूषणे॑ इति सुडागमे सम्-स्कर्तेति स्थिते मस्य रुत्वम् । सर्-स्कर्तेति स्थिते ।

Tattvabodhini

समः सुटि - समः सुटि । यद्यपि मोऽनुस्वारेण सिद्धं, तथापि अनुनासिकत्रिसकारसिध्द्यर्थमिदम् ।

Padamanjari

‘मो’ नुस्वारःऽ इत्यनुस्वारे प्राप्ते वचनम् । संस्कर्तेति ।’सम्पर्युयेभ्यः करोतौ भूषणे’ इति सुट्, समो मकारस्य रुत्वम्, तस्य विसर्जनीयः, तस्य’वा शरि’ इति विकल्पे यथा नित्यं सकारो भवति तथा दर्शितम् । कथं पुनरस्मिन्सूत्रे सकारो निर्दिश्यते ? इत्याह - समः स्सुटीति द्विसकारको निर्देश इति । स च सुटः सकारे सन्देहाभावातद्व्यतिरेकेण द्विसकारकत्वम् । वस्तुतस्तु त्रयः सकाराः - एको विभक्तिसम्बन्धी, द्वितीय आदेशः, तृतीयस्तु रुसम्बन्धी । यदि तर्हि सकारे आदेशो विधीयते, अनुनासिको न प्राप्नोति; यस्मादत्रग्रहणं रुणा सह सन्नियोगप्रतिपत्यर्थमित्युक्तम् ? नैष दोषः; अत्र रुप्रकरणे यद्विधीयते तदुपलक्षणार्थं तत्र रुग्रहणम् । एतेन पूर्वसूत्रे रोः पूर्व इति व्याख्यातम् । तदत्र सत्वे कृते यदा पूर्वस्यानुनासिकः, तदा सत्वस्यासिद्धत्वाद्रुत्वाभावात् ठनचि चऽ इति द्विर्वचने’झरो झरि’ इति पाक्षिके लोपे द्विसकारकः, त्रिसकारको वा प्रयोगः । यदा त्वनुस्वारः, तदाऽयोगवाहानां अट्प्रत्याहार उपदेशचोदनातस्य च हल्त्वात्’झरो झरि’ इति वा लोपे द्विसकारकः, एकसकारको वा प्रयोगः । यदा त्वनुस्वारस्य हल्त्ववदच्त्वमपीष्यते, तदा ततः परस्य द्विर्वचनपक्षे सकारत्रयमपि भवति । तदेवं पञ्च रूपाणि भवन्ति - अनुनासिकपक्षे द्वौ सकारौ, त्रयो वा, अनुस्वारपक्षे द्वावेकस्त्रयो वा । पञ्चस्वपि पक्षेषु’शरः खयः’ इति वा ककारस्य द्विर्वचने कृते दश रूपाणि भवन्ति । समो वा लोपमेके । एके आचार्याः समो विकल्पेन लोपमिच्छन्ति, अत्राप्यनुनासिकानुस्वारौ भवतः । तस्यापि रुप्रकरणे विधानातत्रानुनासिकपक्षे सकारस्य ठनचिचऽ इति द्विर्वचने पाक्षिके च लोपे एकसकारकत्वमपि कदाचिद्भवति । तत्रापि ककारस्य पक्षे द्विर्वचनमिति द्वादश रूपाणि भवन्ति ॥

Nyaas

मोऽनुस्वारः (8.3.23) इत्यनुस्वारे प्राप्ते वचनम्। सँस्कर्ता`[`संस्कर्तेति -न्यासे, पदमञ्जर्यां च मुद्रितः पाठः] इत्यादि। करोतेः सम्पूर्वात्? तृजादयः, सम्पर्युपेभ्यः करोतौ भूषणे (6.1.137) (इति) सुट्, समो मकारस्य अलोऽन्त्यस्य (1.1.52) इत्यनेन रुत्वे ततः पूर्वस्यानुनासिकः, रोर्विसर्जनीयः। तस्य वा शरि (8.3.36) इति विकल्पेन सकारे प्राप्ते विसर्जनीये च यथा नित्यं सकारो भवति, तथा वृत्तौ दर्शितम्। कथं पुनरस्मिन्? सूत्रे सकारो निर्द्दिश्यते? इत्याह -समः स्सुटि इत्यादि। यस्मिन्? पक्षे विभक्तिसकारस्य विसर्जनीये कृते वा शरि (8.3.36) इति सकारो न क्रियते, सं पक्षमाश्रित्येदमुक्तम्; अन्यथा हि त्रिसकारकोऽयं निर्देश इति वक्तव्यं स्यात्; त्रयाणां सकाराणां सन्निपातात्। एको हि विभक्तिसम्बन्धी सकारः, द्वितीयस्त्वादेशसम्बन्धी, तृतीयः सुटसम्बन्धी। यदा तु त्रिसकारं कृत्वा सूत्रं पठते, तदा द्विशब्दोऽधिकसकारोपलणार्थो द्रष्टव्यः। यदि तर्हि सकार आदेशो विधीयते, संस्कर्ता इत्यत्रानुनासिको न प्राप्नोति; यस्मादत्रात्रग्रहणं रुणैव सह सन्नियोगप्रतिपत्त्यर्थमुक्तम्। रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थत्वाददोषः। रुणा सह इति। रुप्रकरणे यद्विधीयते तेन सहेत्यर्थः। यदपि पूर्वस्मिन्? सूत्रे वृत्तो रोः पूर्वः इत्युक्तम्, तत्रापि रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थं वेदितव्यम्; अन्यथा हि संस्कर्ता इति पक्षेऽनुस्वारो न स्यात्॥

Praudhamanorama

यद्यपि मोऽनुस्वारेण सिद्धं तथाप्यनुनासिकत्व-त्रिसकारकत्वसिद्ध्यर्थमिदम्॥

Prakriyasarvasvam

सुटि परे समो रुः स्यात् । ‘अलोऽन्त्यस्य’ (१-१-५२) इति मस्य रुः । रोरुकारलोपः । सर् स् करोति ।

Sarala

मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यतो “रु” इत्यनुवर्तते । तदाह - रुरिति । सुडत्रागम एव गृह्यते, व्याख्यानात् ॥

Sudha

समः सुटीति । ** सम इति षष्ठ्यन्तम् । **मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यतो रुग्रहणमनुवर्तते, तदाह — समो रुः स्यात् सुटी इति । सँस्कर्तेति । “सम्-कर्ता” इत्यत्र सम्परिभ्यां करोतौ भूषणे (6.1.137) इति सूत्रेण सुडागमेऽनुबन्धलोपे सति “सम् स कर्ता” इति जाते अत्र समः सुटि (8.3.5) इति सुट्सम्बन्धिनि सकारे परे सर्वस्य समो रुत्वे प्राप्ते अलोऽन्त्यस्य (1.1.52) इति योगेनान्त्यस्य मस्य रुत्वे उकारकलोपे च विहिते “स र् स् कर्ता” इति भूते अत्रानुनासिक पूर्वस्य तु वा (8.3.2) इत्यनेन रोः पूर्वमनुनासिके जाते “सँर् स् कर्ता” इति जाते, यस्मिन् पक्षे वाग्रहणादनुनासिको नाभूत् तस्मिन् पक्षे अनुनासिकात्परोऽनुस्वारः (8.3.4) इति योगेनानुस्वारे कृते <”संर् स् कर्ता” इति जाते अत्र खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन खर्-प्रत्याहारान्तःपातिनि सकारे परे रेफस्य विसर्गे विहिते “सः कर्ता, संः कर्ता” इति जाते अत्र विसर्जनीयस्य सः (8.3.34) इति विसर्जनीयस्य सत्वे प्राप्ते वा शरि (8.3.36) इति विसर्जनीयस्य विसर्जनीयत्वे च लब्धे इहोभयमपि प्रबाध्य <!सम्पुङ्कानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य सत्वे कृते “सँस्कर्ता” इति, “संस्कर्ता” इति च रूपद्वयं सिद्ध्यति ॥

Vartika

संपुंकानां सो वक्तव्यः, समो वा लोपमेके ।