83020: ओतो गार्ग्यस्य

Padacheda: ओतः | S | 5 | 1 |

गार्ग्यस्य | S | 6 | 1 |

Sutrartha

ओकारात् परस्य अलघूच्चारण-यकारस्य संहितायाम् अश्-वर्णे परे नित्यम् लोपः भवति ।

<pt> अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । <light>खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।</light> </pt> ओकारात् परस्य पदान्तयकारस्य अश्-वर्णे परे लघुप्रयत्नतरः यकारादेशः न भवति चेत् नित्यम् लोपः भवति इति अस्य सूत्रस्य आशयः । सूत्रे गार्ग्यग्रहणम् केवलम् पूजार्थम् एव कृतम् अस्ति । अस्य सूत्रस्य प्रयोगः केवलम् “भोस्”, “भगोस्”, तथा “अघोस्” एतेषाम् त्रयाणाम् शब्दानाम् विषये एव भवति, यतः अन्यत्र कुत्रापि ओकारात् परः पदान्तयकारः न हि विद्यते । एतेषाम् त्रयाणाम् अपि उदाहरणानि एतादृशानि — 1. “भोस्-अत्र” इत्यत्र यकारलोपः —

भोस् अत्र
→ भोरुँ अत्र [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम्  ।
→ भोय् अत्र [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भो अत्र [**ओतो गार्ग्यस्य** (8.3.20) इति यकारलोपः]

प्रक्रियायाम् “भोय् अत्र” अस्यां स्थितौ आदौ व्योर्लघुप्रयत्नतरः शाकटायनस्य (8.3.18) इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते “भोय॔त्र” इत्यपि सिद्ध्यति । तदभावे ओतो गार्ग्यस्य (8.3.20) इति नित्यम् यकारलोपःविधीयते । 2. “भगोस् ईश्वराः” इत्यत्र यकारनिर्माणम् —

→ भगोरुँ ईश्वराः  [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ]
→ भगोय् ईश्वराः  [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भगो ईश्वराः  [**ओतो गार्ग्यस्य** (8.3.20) इति यकारलोपः]

अत्रापि “भगोय् ईश्वराः” अस्यां स्थितौ आदौ व्योर्लघुप्रयत्नतरः शाकटायनस्य (8.3.18) इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते “भगोयि॔श्वराः” इत्यपि सिद्ध्यति । तदभावे ओतो गार्ग्यस्य (8.3.20) इति नित्यम् यकारलोपःविधीयते । 3. “अघोस् असुराः” इत्यत्र यकारनिर्माणम् —

अघोस् असुराः
→ अघोरुँ असुराः  [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ]
→ अघोय् असुराः  [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ अघो असुराः  [**ओतो गार्ग्यस्य** (8.3.20) इति यकारलोपः]

प्रक्रियायाम् “अघोय् असुराः” अस्यां स्थितौ आदौ व्योर्लघुप्रयत्नतरः शाकटायनस्य (8.3.18) इति सूत्रेण विकल्पेन लघूच्चारणे यकारे कृते “अघोय॔सुराः” इत्यपि सिद्ध्यति । तदभावे ओतो गार्ग्यस्य (8.3.20) इति नित्यम् यकारलोपःविधीयते ।

सूत्रे ‘अश्’ इति अनुवृत्तेः प्रयोजनम् , सूत्रस्य व्याप्तिः

अस्मिन् सूत्रे “अश्” इत्यस्य अनुवृत्तिः वस्तुतः अच्-वर्णे परे यकारस्य लोपं कर्तुम् कृता अस्ति । इत्युक्ते, यद्यपि अस्मिन् सूत्रे “अश्” इति पदम् अनुवर्तते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् अच्-वर्णे परे (स्वरे परे) एव भवति । मृदृव्यञ्जने परे प्रकृतसूत्रेण प्राप्तं वैकल्पिकम् यकारलोपं बाधित्वा हलि सर्वेषाम् (8.3.22) इत्यनेन नित्यम् यकारलोपः भवति । अस्मिन् सन्दर्भे लघुशब्देन्दुशेखरे नागेशेन ‘विकल्पस्य विच्छिन्नत्वेन नित्यत्वसिद्धेः’ इति निर्देशः कृतः दृश्यते । यदि द्वाभ्याम् सूत्राभ्याम् समानम् कार्यम् सम्भवति, परन्तु एकेन सूत्रेण तत् कार्यम् नित्यम् भवति, अपरेण च विकल्पेन भवति, तर्हि वैकल्पिकसूत्रं बाधित्वा नित्यसूत्रम् एव तत्र प्रवर्तते — इति अस्य वाक्यस्य आशयः । अतः हल्-वर्णे परे हलि सर्वेषाम् (8.3.22) इत्यनेन प्राप्तः नित्यलोपः प्रकृतसूत्रेण प्राप्तं वैकल्पिकलोपं बाधते । अस्मिन् विषये अधिकं पिपठिषवः लघुशब्देन्दुशेखरे हलि सर्वेषाम् (8.3.22) सूत्रस्य व्याख्यां वीक्षेरन् ।

सूत्रे गार्ग्यग्रहणम् पूजार्थम्

प्रकृतसूत्रेण निर्दिष्टः लोपः नित्यम् भवति, न हि विकल्पेन । अतः अत्र गार्ग्यग्रहणम् केवलम् पूजार्थम् (to give respect / to mention credits) स्थापितम् अस्ति, न हि विकल्पविधानार्थम् ।

सूत्रे भोस्, भगोस् अघोस् इत्येतेषाम् अनुवृत्तिविषये पक्षद्वयम्

प्रकृतसूत्रम् केवलम् भोस्, भगोस्, अघोस् इत्येतेषां विषये एव प्रवर्तते यतः केवलम् एतेषु एव ओकारात् परः पदान्तयकारः भवितुम् अर्हति । परन्तु तथापि अत्र सूत्रे भोस्, भगोस्, अघोस् इत्येतेषाम् पदानाम् स्पष्टरूपेण अनुवृत्तिः विद्यते वा — अस्मिन् विषये वैयाकरणमतानि भिद्यन्ते । अस्य सूत्रस्य न्यासव्याख्याने भोभगोअघोअपूर्वस्य इत्यनुवर्तते इति निर्देशः कृतः अस्ति । परन्तु सिद्धान्तकौमुद्याम् तु पदान्तस्य किम् ? तोयम् इत्युक्त्वा “तोयम्” इति शब्दस्य विषये इदं सूत्रं अपदान्त-यकारत्वात् न प्रवर्तते इति निर्देशः कृतः अस्ति, तदनुषङ्गेन बालमनोरमायाम् <hl>अनेनाऽत्र ‘भोभगो’ इति नानुवर्तते इति सूचितम्</qt> इति स्पष्टीक्रियते ।

लघूच्चारणयकारस्यापि लोपः इति गौणः पक्षः

प्रकृतसूत्रेण विहितः यकारलोपः लघूच्चारणयकारस्य अपि भवति इति कश्चन गौणः पक्षः काशिकाकारेण उपस्थापितः अस्ति । अस्मिन् पक्षे व्योर्लघुप्रयत्नतरः शाकटायनस्य (8.3.18) इति सूत्रम् केवलम् लघुप्रयत्नतरस्य वकारस्य कृते आवश्यकम् भवति, यतः अनेन सूत्रेण निर्मितः लघुप्रयत्नतरः यकारः अपि प्रकृतसूत्रेण नित्यमेव लुप्यते ।

सूत्रे केवलम् यकारस्यैव अनुवृत्तिः

अस्मिन् सूत्रे ‘व्योः’ इत्यस्मात् केवलम् यकारः एव अनुवर्तते, यतः ओकारात् परः पदान्तवकारः नैव कुत्रचित् भवितुम् अर्हति ।

Sutrartha (English)

Non-लघूच्चारण-यकार present at end of a पद and situated after the letter ओ gets removed when it is followed by a letter from अश् प्रत्याहार in the context of संहिता.

Vasu English Summary

य् preceded by ओ is elided before an अश् letter (vowels and soft-consonants) according the opinion of गार्ग्य ।

Vasu English Translation

य् preceded by ओ is elided before an अश् letter (vowels and soft-consonants) according the opinion of गार्ग्य । There can be no व् preceded by ओ, so only य् is taken in explaining the sutra. Thus भो अत्र, भगो अत्र, भो इदम्, भगो इदम् ॥

The making of it a separate sutra, is for the sake of indicating that this is a necessary (nitya) rule and not a vibhasha rule. The name of Gargya is used simply honoris causa (pujartha). The elision of laghu-prayatna य्, which (8.3.19) would have otherwise caused, is hereby prohibited. So that laghu pratyatnatara य् does come also. As भो अत्र or भोयत्र, भगो अत्र or भगोयत्र, अघो अत्र and अघोयत्र ॥

According to others every kind of य् (whether heavy or light) is to be elided: and भोयत्र is not valid in their opinion.

Bhashya

ओतो गार्ग्यस्य किमर्थमिदमुच्यते न लोपः शाकल्यस्येत्येव सिद्धम्?॥ ॥ ओकाराल्लोपवचनं नित्यार्थम्॥ ओकारल्लोपवचनं क्रियते॥ किमर्थम्?॥ नित्यार्थम्(1)। नित्यार्थोऽयमारम्भः॥ ओतो गार्ग्यस्य॥

Kashika

ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्यांचार्यस्य मतेनाशि परतः। भो अत्र। भगो अत्र। भो इदम्। भगो इदम्। नित्यार्थोऽयमारम्भः। गार्ग्यग्रहणं पूजार्थम्। योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते। लघुप्रयत्नतरस्तु भवत्येव यकारः। भो अत्र, भोयत्र। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। केचित् तु सर्वमेव यकारमत्र नेच्छन्ति॥

Siddhanta Kaumudi

ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥

Balamanorama

ओतो गार्ग्यस्य - अतो गाग्र्यस्य । ‘ओत’ इति पञ्चमी ।व्यो॑रित्यतो यग्रहणमनुवर्तते, नतु वकारोऽपि, ओतः परस्य तस्याऽसंभवात् । ‘पदस्ये’ त्यधिकृतं यकारेण विशेष्यते, ततस्तदन्तविधिः । तेन ओकारात्परो यो यकारस्तदन्तस्य पदस्येति चार्थो लभ्यते । अलोऽन्त्यपरिभाषया च पदान्तस्य यकारस्येति फलितम् । ‘भोभगो’ इत्यतोऽशीत्यनुवर्तते ।लोपश्शाकल्यस्ये॑त्यतो ‘लोप’ इत्यनुवर्तते । सच पूर्वविगितलघुप्रयत्नस्य न भवति, विधानसामर्थ्यात्, तदाह — ओकारादिति । ननु लोपस्य कथं नित्यत्वं,गाग्र्य॑ग्रहणादित्यत आह — गाग्र्यग्रहणमिति । व्याख्यानादिति भावः । भो अच्युतेति । अलघुप्रयत्नपक्षे यकारस्य नित्यं लोपः । लघुप्रयत्नपक्षे-भोयज्युतेति । अत्र लघुप्रयत्नस्य विधिसामर्थ्यान्न लोपः । तोयमिति । अत्र यकारस्य पदान्तत्वाभावादोतो गाग्र्यस्येति न भवति । अनेनाऽत्र ‘भोभगो’ इति नानुवर्तते इति सूचितम् ।

Tattvabodhini

ओतो गार्ग्यस्य - विधानसामर्थ्याल्लघुप्रयत्नतरस्य न भवतीत्याशयेनाह-अलघुप्रत्नयस्येति । भोयच्युतेति । एवं भगोयच्युत । अघोयच्युत । वकारस्योदाहरणं तु-॒असावादित्यः॑ । एतच्च काशिकायां स्पष्टम् ।

Padamanjari

आकारादुतरस्य यकारस्येति । वकारस्त्वस्मिन्विषये न सम्भवति । नित्यार्थोऽयमारम्भ इति । विकल्पस्य पूर्वणैव सिद्धत्वात् । किमर्थं तहि गार्ग्यग्रहणम् ? इत्याह - गाग्यग्रहणं पूजार्थमिति । व्योरिह प्रकरणे लघुप्रयत्नतरोऽपि विहितः, लोपोऽपि, तत्कस्यायं नित्यो लोपो बाधकः, आनन्तर्याल्लपिविकल्पस्य ? इत्याह - योऽयमिति । केचित्विति । यदस्मिन्प्रकरणे व्योः कार्यं तत्समुदायोऽपेक्ष्यते, न त्वनन्तरो लोपविकल्प इति तेषामभिप्रायः ॥

Nyaas

ओकारादुत्तरो वकारो नास्ति, पदान्त इति यकारस्यैवायं विधिर्विज्ञास्यत इत्याह -ओकारादुत्तरस्य यकारस्य इति। ननु च पूर्वसूत्रेणैवौकारादुत्तरस्य यकारलोपः सिद्धः, तत्किमर्थमिदमारभ्यते? इत्याह -मित्यार्थोऽयमारम्भः इति। गाग्र्यग्रहणं तर्हि किमर्थम्? इत्याह -गाग्र्यग्रहणम् इत्यादि। व्योरिह प्रकरणे लघुप्रयत्नतरपक्षेविहितो लोपोऽपि, तत्कस्यार्य नित्यो लोपो बाधकः? इत्याह -योऽयम् इत्यादि। अथ वा -यदि नित्यार्थोऽयमारम्भः, पक्षे लघुप्रत्यत्नतरो न स्यादित्यत आह -योऽयम् इत्यादि। लोपविकल्पस्यानन्तरत्वात्? तस्यैव निवृत्तिर्युक्ता कर्तुमिति भावः।केचित्तु इत्यादि। कथं पुनरिष्यमाणमपि लघुप्रयत्नतरस्य बाधनं भवति, यावतानन्तरत्वाल्लोपविकल्पस्यानेन बाधा युक्ता? व्योः कार्यसमुदायस्यापेक्षितत्वाददोषः। यदि लोपविफल्पमात्रमपेक्षते, ततः स एव बाध्यते, न लघुप्रयत्नतरः; लोपेन व्यवहितत्वात्। यदा तु व्योर्यवस्मिन्? प्रकरणे कार्यं विहितं तत्समुदायोऽपेक्ष्यते, तदा तस्यानन्तर्यात्? स एव निवर्त्त्यते। तपरकरणमसन्देहार्थम्। यतो हि ओः इत्युक्ते सन्देहः स्यात् -किमयमोकरस्य निर्देशः? आहोस्विदुकारस्येति? मैवम्; भोभगोअघोअपूर्वस्य (8.3.17) इत्यनुवर्तते, न भोःप्रभृतीनामुकारोऽस्ति, तत्कुतः सन्देङः? एवं तर्हि मुखसुखार्थम्॥

Praudhamanorama

यत्त्वोकारान्तादङ्गादिति प्राचा व्याख्यातं तन्न, अङ्गस्याप्रकृतत्वात्, असम्भवाच्च। नह्युदाहरणेष्वोकारान्तमङ्गमस्ति।

Prakriyasarvasvam

ओकारात् परस्य पदान्तस्यालघुप्रयत्नतरस्य यस्य नित्यं लोपः स्यात् । गार्ग्योक्तिः पूजार्था । भो इह । भगो अत्र । अघो एहि । <karika>प्राग्वल्लघुप्रयत्नत्वे भोयिहेत्यादि दृश्यताम् । तथा भवन्निहेत्यादि रुत्वाभावमते ङमुट् ॥ ४८ ॥</karika> ओकारात् परस्य पदान्तस्यालघुप्रयत्नतरस्य यस्य नित्यं लोपः स्यात् । गार्ग्योक्तिः पूजार्था । भो इह । भगो अत्र । अघो एहि । <karika>प्राग्वल्लघुप्रयत्नत्वे भोयिहेत्यादि दृश्यताम् । तथा भवन्निहेत्यादि रुत्वाभावमते डमुट् ॥ ४८ ॥</karika>