83001: मतुवसो रु सम्बुद्धौ छन्दसि¶
Padacheda: मतुवसोः | S | 6 | 2 |
रु | S | | | 1
सम्बुद्धौ | S | 7 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
वैदिकप्रयोगेषु मतुँप्-प्रत्ययान्तपदस्य क्वसुँ-प्रत्ययान्तपदस्य संहितायाम् सत्याम् सम्बोधन-एकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति ।
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् प्रथमम् सूत्रम् । वैदिकप्रयोगे मतुँप्/क्वसुँ-प्रत्ययान्तपदयोः सम्बोधनैकवचनस्य प्रक्रियायाम् रुँ-आदेशः भवति इति अस्य सूत्रस्य आशयः । <hlb>मतुँप्-प्रत्ययः — </hlb> मतुप्-इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् (5.3.94) इति सूत्रेण ‘अस्य अस्ति’ तथा ‘अस्मिन् अस्ति’ एतयोः अर्थयोः अयम् प्रत्ययः विधीयते । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा — 1. इन्द्र मरुत्व इह पाहि सोमम् (ऋग्वेदः 3.51.7) अस्मिन् वाक्ये ‘मरुत्वः’ शब्दः एतादृशं सिद्ध्यति —
मरुत् + मतुप् + सुँ [ **तदस्यास्त्यस्मिन्निति मतुप्** (5.3.94) इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः]
→ मरुत्मत् + स् [इत्संज्ञालोपः । अत्र मरुत्-शब्दस्य **तसौ मत्वर्थे** (1.4.19) इत्यनेन भसंज्ञा भवति, अतः मकारे परे तकारस्य जश्त्वं न प्रवर्तते ।]
→ मरुत्मन् त् + स् [**उगिदचाम् सर्वनामस्थाने अधातोः** (7.1.70) इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]
→ मरुत्मन् त् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः ।]
→ मरुत्वन् त् [**झयः** (8.2.10) इति मकारस्य वकारादेशः]
→ मरुत्वन् [**संयोगान्तस्य लोपः** (8.2.23) इति तकारलोपः]
→ मरुत्वरुँ [सुँलोपे कृते अपि, **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते । अतः अत्र "मरुत्वन्" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति, ततश्च पदान्तवर्णस्य **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इति रुँत्वम् जायते ।]
→ मरुत्वः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
<br>
उपरिनिर्दिष्टे वाक्ये 'इह' इति शब्दे परे रुँ इत्यस्य **भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इत्यनेन यकारादेशः, ततश्च **लोपः शाकल्यस्य** (8.3.19) इत्यनेन लोपं कृत्वा 'मरुत्व इह' इति सिद्ध्यति ।
जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा (कृष्णयजुर्वेदः 4.7.15) — अत्र ‘हरिवः’ शब्दस्य प्रक्रिया एतादृशौ वर्तते -
हरि + मतुप् + सुँ [ **तदस्यास्त्यस्मिन्निति मतुप्** (5.3.94) इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः ]
→ हरिमत् + सुँ [इत्संज्ञालोपः]
→ हरिवत् + सुँ [**छन्दसीरः** (8.2.15) इति मकारस्य वकारादेशः]
→ हरि + वन् त् + सुँ [**उगिदचाम् सर्वनामस्थानेऽधातोः** (7.1.70) इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]
→ हरि + वन् त् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः]
→ हरिवन् [**संयोगान्तस्य लोपः** (8.2.23) इति तकारलोपः]
→ हरि वरुँ [पदान्तनकारस्य **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इति रुँत्वम् ]
→ हरिवः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
<br>
उपरिनिर्दिष्टे वाक्ये 'मेदिनम्' इति शब्दे परे रुँ इत्यस्य **हशि च** (6.1.114) इत्यनेन उत्वम्, ततश्च **<आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते 'हरिवो मेदिनम्' इति सिद्ध्यति ।
<hlb>क्वसुँ-प्रत्ययः — </hlb> क्वसुँ इति कश्चन कृत् प्रत्ययः । वेदेषु लिट्-लकारस्य स्थाने क्वसुश्च (3.2.107) इति सूत्रेण क्वसु-आदेशः भवति । अयम् प्रत्ययः यस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सम्बोधनैकवचनस्य प्रक्रियायाम्, पदसंज्ञायां सत्याम् प्रकृतसूत्रेण रुँत्वम् भवति । यथा — 1. मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय (रूद्रम् - नमकम्) — अत्र ‘मीढ्वः’ इत्यस्य प्रक्रिया इयम् -
मिहँ (सेचने, भ्वादिः, (1.1147))
→ मिह् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् । ]
→ मिह् + क्वसुँ + सुँ [**क्वसुश्च** (3.2.107) इति क्वसुँ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ मीढ्वत् + स् [**दाश्वान् साह्वान् मीढ्वांश्च** (6.1.12) इति मीढ्वत्-शब्दस्य क्वसुँ-प्रत्यये परे निपातनम् ।]
→ मीढ्वत् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः]
→ मीढ्वरुँ [**मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इति रुँत्वम् ]
→ मीढ्वः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
सूत्ररचना
इदं सूत्रम् ‘पदस्य’ इत्यस्मिन् अधिकारे विद्यते । अतः अनेन सूत्रेण उक्तम् रुत्वम् पदान्तवर्णस्य विषये एव भवति । अस्यां स्थितौ अस्मिन् सूत्रे विद्यमानः ‘सम्बुद्धौ’ इति शब्दः परनिमित्तरूपेण स्वीकर्तुम् नैव शक्यः, यतः सम्बुद्धि-प्रत्यये परे मतुँप्/क्वसुँ-प्रत्ययान्तशब्दस्य पदसंज्ञा नैव सम्भवति । अतश्च ‘सम्बुद्धौ’ इत्यस्य अर्थः अत्र ‘सम्बोधन-एकवचनस्य प्रक्रियायाम्’ इति कृतः अस्ति । सम्बुद्धिप्रत्यये कृते, तस्य च हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन लोपे जाते, यः मतुँप्/क्वसुँ-प्रत्ययः पदान्तत्वं प्राप्नोति, तस्य विषये इदं रुत्वं प्रवर्तते — इति अस्य सूत्रस्य आशयः ।
शतृ-प्रत्ययस्य वसुँ-आदेशः
अस्मिन् सूत्रे प्रयुक्तेन ‘वसुँ’ शब्देन वस्तुतः विदेः शतुर्वसुः (7.1.36) इत्यत्र पाठितः वसुँ-आदेशः एव ग्राह्यः, न हि द्व्यनुबन्धकः क्वसुँ-प्रत्ययः । परन्तु वसुँ-प्रत्ययस्य प्रयोगेण सिद्धस्य ‘विद्वस्’ इति शब्दस्य सम्बोधनैकवचस्य रूपाणि वेदेषु नैव दृश्यन्ते, अतश्च तस्य ग्रहणम् अत्र नैव कर्तव्यम् — इति अस्यैव सूत्रस्य न्यासव्याख्याने प्रतिपादितं लभ्यते — <source> शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि विषये प्रयोगो नास्ति, इति तस्य अनुदाहरणम् । अतएव एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शनात् । <light>— 8.3.1 इत्यत्र न्यासः </light> </source> वसुँ-प्रत्ययस्य उदाहरणाभावात् अस्मिन् सूत्रे विद्यमानेन ‘वसुँ’ इत्यनेन ‘क्वसुँ’ प्रत्ययः एव गृह्यते इति अत्र आशयः ।
वार्त्तिकद्वयम्
<! 1. वन उपसङ्ख्यानं कर्तव्यम् । !> ‘क्वनिप्’ तथा ‘वनिप्’ एताभ्याम् कृत्प्रत्ययान्ताभ्याम् निर्मितानां शब्दानां विषये अपि सम्बोधनैकवचनस्य प्रक्रियायाम् रुत्वं भवति इति अस्य वार्त्तिकस्य आशयः । यथा, यस्त्वायन्तं वसुना प्रातरित्वः (ऋग्वेदे 1.115.2) इत्यत्र विद्यमानः ‘इत्वः’ इति शब्दः ‘इण्’ धातोः क्वनिप्-प्रत्ययान्तरूपस्य सम्बोधनस्य एकवचनम् अस्ति । अयं शब्दः इत्थं सिद्ध्यति —
इण् (गतौ, अदादिः, (2.40))
→ इ + क्वनिप् + सुँ [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति क्वनिप्-प्रत्ययः । ततः सम्बोधनैकवचनस्य सुँ-प्रत्ययः ।]
→ इ + वन् + स् [इत्संज्ञालोपः]
→ इ + तुक् + वन् + स् [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
→ इत्वन् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः]
→ इत्वरुँ [पदान्तनकारस्य <! वन उपसङ्ख्यानं कर्तव्यम् !> इति वार्त्तिकेन रुत्वम् ।]
→ इत्वः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
<! 2. छन्दसि भाषायां च विभाषा भवद्भगवदघवतामोच्चावस्य !> “भवत्”, “भगवत्” तथा च “अघवत्” — एतेषाम् शब्दानाम् सम्बोधनैकवचनस्य प्रक्रियायाम् छन्दसि, भाषायां च विकल्पेन रुत्वं भवति, तथा च रुत्वे कृते ‘अव’ इत्यस्य ओकारादेशः अपि भवति । अनेन वार्त्तिकेन भोः, भगोः, अघोः - एते त्रयः शब्दाः सिद्ध्यन्ति । । प्रक्रिया इयम् —
भवत् / भगवत् / अघवत् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ भवत् / भगवत् / अघवत् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः]
→ भव न्त् / भगवन्त् / अघवन्त् [**उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुमागमः]
→ भवन् / भगवन् / अघवन् [**संयोगान्तस्य लोपः** (8.2.23) इति तकारलोपः]
→ भवरुँ / भगवरुँ / अघवरुँ [वैकल्पिकं रुँत्वम् ।]
→ भ् ओरुँ / भग् ओरुँ / अघ् ओरुँ [रुत्वपक्षे ओकारादेशः]
→ भोः / भगोः / अघोः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः]
<br>
रुत्वाभावे ओकारादेशः अपि न भवति, अतः 'भवन्', 'भगवन्', 'अघवन्' इत्येतानि रूपाणि अपि सिद्ध्यन्ति ।
अत्र सिद्धानाम् “भोः”, “भगोः” तथा च “अघोः” एतेषाम् शब्दानाम् भाषायाम् प्राचुर्येण प्रयोगः वर्तते । भोभगोअघोअपूर्वस्य योऽशि (8.3.17) इत्यस्मिन् सूत्रे अपि एते त्रयः शब्दाः उपयुक्ताः सन्ति । परन्तु तथापि एतेषाम् शब्दानाम् अत्र दत्ता सिद्धिः शङ्क्या एव इति अत्र काशिकायाम् निर्दिष्टं वर्तते । तत्र काशिकाकारः वदति — <source> अथ वा, भो इत्येवम् आदयः निपाताः द्रष्टव्याः । असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ, भो देवदत्तयज्ञदत्तविष्णुमित्राः । तथा च, स्त्रियाम् अपि च दृश्यन्ते - भो ब्राह्मणि इत्यादि । <light>— काशिका 8.2.1</light> </source> यद्यपि एते शब्दाः अनेन वार्त्तिकेन सम्बोधनैकवचनस्य रूपेण व्युत्पादयितुम् शक्याः, तथापि बहुत्र एते शब्दाः द्विवचने, बहुवचने, एवमेव स्त्रीलिङ्गे अपि प्रयुक्ताः दृश्यन्ते । अतः एते शब्दाः निपातरूपेण एव स्वीकरणीयाः इति अत्र काशिकाकारस्य मतम् । अतएव च एतेषाम् चादयोऽसत्त्वे (1.4.57) इत्यत्र निर्दिष्टे चादिगणे अपि समावेशः भवति ।
Sutrartha (English)¶
In the Vedic usages, the पद ending in मतुँप् or क्वसुँ प्रत्यय undergo रुँत्वम् in the formation of सम्बोधन-एकवचन form.
Vasu English Summary¶
For the final affixes मत् and वस् there is substituted रु in the Vocative Case singular, in the छन्दस् (Vedas).
Vasu English Translation¶
For the final affixes मत् and वस् there is substituted रु in the Vocative Case singular, in the छन्दस् (Vedas). The word संहितायाम् is understood here. A word ending in the affix मत् or वस्, changes its final त् or स् into र्, in the Chhandas, in the Vocative singular. Thus मत् :- इन्द्र॑ मरुत्व इह पा॑हि सोम॒म् (Rig. III.51.7) हरिवो मेदिनं त्वा ॥ Here मरुत्वः is Vocative Singular of मरुत्वत् and हरिवः of हरिवत्, meaning “he who is possessed of Maruts or Hari horses”. The म् of मत् is changed to व by (8.2.103); (8.2.15). The base मरुत् before this termination is Bha by (1.4.19). The affix सु (nominative singular) is elided by (6.1.68); the त् is elided by (8.2.23), and the न् (of नुम् (7.1.70)) is changed to र् by this sutra. So also इन्द्रायाहि तूतुजानः उपब्रह्माणि हरिवः (Rig. I.3.6).
With वस् :- मीढ्व॑स्तो॒काय॒ तन॑याय मृळ (Rig. II.33.14), इन्द्रसाह्वः ॥ See (6.1.12), for the formation of मीढ्वान्, साह्वान् with क्वसु ॥
Why do we say ‘of मत् and वस्’? Observe ब्रह्मन् स्तोष्यामः ॥ Why do we say in the Vocative Singular? Observe य एवं विद्वानग्निमादत्ते ॥ Why do we say in the Chhandas? Observe हे गोमन्, हे पपिवन् ॥
Vart:- The affix वन् should also be enumerated. The affixes क्वनिप् and वनिप् are both meant here. Its final is also changed to रु in the Vocative Singular. As यस्त्वायन्तं वसुना प्रातरित्वः ॥ The word प्रातरित्वन् is formed by adding क्वनिप् to the root इ (इण्) preceded by प्रातः ॥ See (3.2.75). The तुक् is added by (6.1.71).
Vart:- The finals of भवत्, भगवत् and अघवत् are changed to रु, optionally in the secular as well as the sacred literature, and the syllable अव् of these words is changed to ओ ॥ This is a general rule, applying both in the Vedas and the Bhasha. Thus भवत् — हे भोः or हे भवन् ॥ भगवत् — हे भगोः or हे भगवन् ॥ अघवत् — हे अघोः or हे अघवन् ॥ Or these words भोः भगोः and अघोः are so irregularly formed by the acharya himself in (7.3.17). These are found in other numbers than the Vocative Singular, as भो देवदत्तयज्ञदत्तौ, भो देवदत्तयज्ञदत्तविष्णुमित्राः ॥ It is found in connection with Feminine nouns also, as भो ब्राह्मणि ॥
The adhikara of the word संहितायां does not exert any apparent influence in this sutra. It however has influence in those subsequent sutras, where the change in one word is occasioned by another word on account of sanhita or juxta-position, as in (8.3.7).
See (8.2.3) (Vartika 2) by which the lopa is considered siddha in हरिवः, otherwise there would have been no उ change in हरिवो मे &c.
Bhashya¶
मतुवसो रु संबुद्धौ छन्दसि ॥ मतुवसोरादेशे वन उपसङ्ख्यानम्॥ मतुवसोरादेशे वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। ॥ विभाषा भवद्भगवदघवतामोच्चाऽवस्य॥ छन्दसि भाषायाञ्चभवत्भगवत्अघवदित्येतेषां विभाषा रुर्वक्तव्यः, ओच्चाऽवस्य वक्तव्यः। भोः। भवन्। भगोः। भगवन्। अघोः। अघवन्निति॥ संबुद्धावित्युच्यते तत्रैदं न सिध्यति-भो ब्राह्मणा इति। तथा विभक्तौ लिङ्गविशिष्टग्रहणं(3) नेतीह न प्राप्नोति भो ब्राह्मणि!॥ नैषः दोषः। अव्ययमेष भोःशब्दो नैषा भवतः प्रकृतिः(4)॥ कथमव्ययत्वम्?॥ विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोऽव्ययमित्यव्ययसंज्ञा॥ मतुवसो रु
Kashika¶
संहितायामिति वर्तते। मत्वन्तस्य वस्वन्तस्य च पदस्य रुरित्ययमादेशो भवति संबुद्धौ परतश्छन्दसि विषये। मत्वन्तस्य तावत् — इन्द्॑र मरुत्व इ॒ह पा॑हि॒ सोम॒म् (तै०सं० १.४.१८.१)। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। मरुतोऽस्य सन्ति, हरयोऽस्य सन्तीति मतुप्। सुतकारयोः हल्ङ्यादिलोपे (६.१.६८) संयोगान्तस्य लोपे (८.२.२३) च कृते नकारस्य रुर्भवति। वस्वन्तस्य खल्वपि — मीढ्व॑स्तो॒काय॒ तन॑याय मृळ (ऋ० २.३३.१४)। इन्द्र साह्वः। क्वसोर्निपातनं दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२) इति। मतुवसोरिति किम्? ब्रह्मन् स्तोष्यामः। संबुद्धाविति किम्? य॑ ए॒वं॑ वि॒द्वा॑न॒ग्नि॑मुप॒ति॑ष्ठ॒ते (मै०सं०१.५.७)। छन्दसीति किम्? हे गोमन्। हे पपिवन्॥ वन उपसंख्यानं कर्तव्यम्॥ यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः(ऋ० १.१२५.२)। इणः प्रातःपूर्वस्य छन्दसि क्वनिप्॥ विभाषा भवद्भगवदघवतामोच्चावस्य॥ छन्दसि भाषायां च भवद् भगवद् अघवद् इत्येतेषां विभाषा रुर्वक्तव्यः, अवशब्दस्य च ओकारादेशः। सामान्येन छन्दसि भाषायां चेदं वचनम्। भवत् — हे भोः, हे भवन्। भगवत् — हे भगोः, हे भगवन्। अघवत् — हे अघोः, हे अघवन्। निपातविज्ञानाद् वा सिद्धम्। अथवा भो इत्येवमादयो निपाता द्रष्टव्याः। असंबुद्धावपि द्विवचनबहुवचनयोरपि दृश्यन्ते। भो देवदत्तयज्ञदत्तौ। भो देवदत्तयज्ञदत्तविष्णुमित्राः। तथा स्त्रियामपि च दृश्यन्ते — भो ब्राह्मणि इत्यादि। संहिताधिकार उत्तरत्रोपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ — ‘नश्छव्यप्रशान्>>(८.३.७) इति॥
Siddhanta Kaumudi¶
रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य (SK42) इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः (SK3600) इति वत्वम् ॥
Padamanjari¶
‘युवोरनाकौ’ इतिवन्मतुवसोरिति निर्देशोऽनुबन्धपरित्यागेन वा सकारान्तस्य वसोर्ग्रहणम्, निपातनाच्चाल्पाच्तरस्य परनिपातः । रु - इत्यविभक्तिको निर्देशः । मरुत्व इति ।’झयः’ इति वत्वम्ऽ तसौ मत्वर्थेऽ इति भसंज्ञा । हरिवो मेदिनमिति ।’च्छन्दसीरः’ इति वत्वम्,’संयोगान्तलोपो रो रुत्वे सिद्धो वक्तव्यः’ इति वचनात्’हशि च’ इत्युत्वम् । वन इति । क्वनिब्वनिपोः सामान्येन ग्रहणम् । अनुबन्धानिर्देशादत्र तदनुबन्धकपरिभाषाया अनुपस्थानात् क्वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति ठन्येभ्योऽपि दृश्यन्तेऽ इति क्वनिपि ह्रस्वस्य तुक् । अवशब्दस्य चेति । सर्वस्येति द्रष्टव्यम्; अनर्थकेऽलोन्त्यपरिभाषाया अभावात् । उपसंख्यानं प्रत्याचष्टे - निपातविज्ञानाद्वेति । एतदेव विवृणोति - अथ वेति । अवश्यं चैतन्निपातत्वमेव विज्ञेयमित्याह - असम्बुद्धावपि हीति । स्त्रियामिति । भो ब्राह्मणीति । विभक्तिनिमितेषु कार्येषु लिङ्गविशिष्टपरिभाषा नोपतिष्ठत इत्युक्तम् -‘न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्’ इति, तेन भवतीशब्दस्य रुत्वौत्वे न स्याताम् । अथापि स्याताम् ? एवमीकारस्य रुत्वे अवशब्दस्य चौकारो रूपं न सिध्यति । तस्मादसम्बुद्धौ स्त्रियां च दर्शनान्निपाता एवेति विज्ञेयम् । निपातत्वं च विभक्तिस्वरप्रतिरूपकत्वेनेति । नन्वसत्यस्मिन्नुपसंख्याने भोइत्यादिकः शब्दो विभक्त्यन्तो नास्ति, यत्प्रतिरूपका एते स्युः ? तस्मात्सौत्रा एते निपाताः,’भोभगोअघोः’ इत्यत्र सूत्रे निर्दिष्टाः, चादिषु वा पठितव्याः । तदेवं प्रत्याख्यातमुपसंख्यानम् । अन्ये त्वाहुः - ठितराभ्योऽपि दृश्यन्तेऽ इति भवदादियोगे विधीयमानास्तसिलादयः, ततः’भो’ इत्यादावपि यथा स्युरिति वार्तिकारम्भ इति । अन्ये तु - भवदादेरपरिगणितत्वाद् निपाता भोइत्यादयो भविष्यन्तीति मन्यन्ते ॥
Nyaas¶
युधोः (7.1.1) इत्यत्र द्वेष्यपरीहारायोक्तं तत्? मतुवसोः इत्यत्रापि द्रष्टव्यम्। इन्द्रमरुत्व इति। मरुच्छब्दान्मतुप्, झयः (8.2.10) इति यत्वम्, उगिदचाम् (7.1.70) इति नुम्, हल्ङ्यादि (6.1.66) संयोगान्त (8.2.23) लोपौ, नकारस्य रुत्वम्, तस्य भोभगो (8.3.17) इत्यादिना यकारः, तस्यापि लोपः शाकल्यस्य (8.3.19) इति लोपः। हरिषो मेदिनं त्वा इति। हरिशब्दान्मतुप्, छन्दसीरः (8.2.15) इति वत्वम्, पूर्ववन्नुमादि। अयं त्वत्र विशेषः -हशि च (6.1.110) इति रोरुत्वम्, पूर्वेण स ह आद्गुणः (6.1.87) । मीढ्वस्तोकाय इति। मिह सेचने (धातुपाठः-992) लिटः क्वसुः, दाआआन्? सह्वान्? मीढ्वांश्च (6.1.12) इत्यद्वित्वम्, अनिट्त्वम्? उपधादीर्घत्वञ्च निपात्यते, हो ढः (8.2.31) इति ढत्वम्, रोर्विसर्जनीये कृते तस्य विसर्जनीयस्य सः (8.3.34) ति सकारः। शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि दिषये प्रयोगो नास्तीति तस्यानुदाहरम्। अत एव एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य (व्या।प।52) इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शसात्।विद्वान् इति। विदेः शतुर्वसुः (7.1.36) । हे पपिवन् इति। पातेः पिबतेर्वा परस्य क्वसोः वस्वेकाजाद्घसाम् (7.2.67) इतीट्, आतो लोप इटि च (6.4.64) इत्याकारलोपः स्थानिवद्भावाद्द्विर्वचनम्। वन उपसंख्यानम् इति। अननुबन्धकस्य वनोऽसम्बवात्सामान्येन क्वनिब्बनिपोग्र्रहणम्। यश्च मत्वर्थे क्वनिब्वनिपौ छन्दसि वक्तव्यौ (वा।582) इत्यौपसंख्यानिकः, तस्यापि ग्रहणम्। प्रातरित्व इति। इण्? गतौ (धातुपाठः-1045) प्रातापूर्वः, आतो मनिन्क्वनिब्धनिपश्च` (3.2.74) इत्यनुवर्तमाने अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति क्वनिप्, ह्रस्वस्य पिति कृति तुक् (6.1.71) । इदं तु सम्पदादित्वादिना क्विपि तुकि तदन्तन्मतुपि झयः (8.2.10) इति वत्वे मत्वन्तादेव सिध्यतीति नोपसंख्यानं प्रयोजयति। विभाषा इत्यादि। भवच्छब्दः भातेर्डवतुः [भातेर्डवतुप् -पं।उ।1-64] इति डवतुप्रत्ययान्तो व्युत्पादितः। अव्युत्पन्नं वोकारानुबन्धं प्रातिपदिकम्; इतरौ तु मत्वन्तौ। हे भोः इति। नुमो रुत्वे कृतेऽवशब्दस्य सर्वस्यैव स्थान ओकारः क्रियते, नालोऽन्त्यस्य, नान्र्थकेऽलोन्त्यविधिः (व्या।प।62) इति कृत्वा। नुपातविज्ञानात्? सिद्धम् इति। एतद्ग्रहणकवाक्यम्। अथ वा इति। अस्यैव विवरणम्। असम्बद्धावपि इत्यादि। एतेन निपातत्वे हेतुं दर्शयति। यद्युपसंख्यानादेव भो इत्येवमादिकं स्यात्, द्विवचनबहुवचनयोर्न स्यात्; सम्बुद्ध्यभावात्। स्त्रियाञ्च सम्बुद्धावपि न स्यात् -भो ब्राआहृणीति; अत्र स्त्रीलिङ्गविशिष्टानामनुपादानात्। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् (व्या।प।29) इति चेत्, न; विभ्कतौ तत्प्रतिषेधात् -विभक्तौ यत्कार्यं विषीयते तत्रेयं परिभाषा प्रतिषिध्यते; विभक्तौ लिङ्गविशिष्टस्याग्रहणम् (व्या।प।30) इति वचनात्। अथापि न प्रतिषिध्यते? एवमपि भवतीति स्थिते इकारस्य[ईकारस्य -प्रांउ।पाठः] रुत्वे कृतेऽवशब्दस्य चौकारे कृते रुत्वस्यासिद्धत्वात्? संयोगान्तलोपाभावे सति विसर्जनीये कृतेनिष्टं रूपं स्यात्। तस्मादसम्बुद्धौ, स्त्रियाञ्च दर्शनान्निपाता एवैते वेदितव्याः। निपातत्वं पुनरेषां विभक्तिप्रतिरूपकत्वात्, विभक्तिस्वरप्रतिरूपकाश्च (ग।सू।16) इति चादिषु पाठात्। पवञ्च भोः शब्दस्य निपातत्वं स्यात्; भवतेर्विचि कृते गुणे च विभक्त्यन्ते भोःशब्दस्यैव विद्यमानत्वात्, इतरयोस्तु न स्यात्। न ह्रसत्यस्मिशुपसंख्याने भगोशब्दः, अघोःशब्दस्च विभक्त्यन्तोऽस्ति, यत्प्रतिरूपकौ निपातौ स्याताम्। तस्मात्? सौत्रा एवैते निपाता वेदितव्याः; भोभगोअधोअपूर्वस्य (8.3.17) इत्यत्र सूत्रे एषां पाठात्। अथ वा -उपसर्गविभक्तित्वरप्रतिरूपकाश्चेति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातत्वमेषां वेदित्वयम्। यदि तर्हि निपातत्वमेषामाश्रित्योपसंख्यानं प्रत्याख्यायते, तदा भोःशब्दप्रयोगे समोस्ततोभोस्तत्रभो इत्यत्र इतराभ्योऽपि दृश्यन्ते (5.3.14) ति भवदादियोगे विधीयमानास्तसिलादयो न सिध्यन्ति? अनिष्टस्वाददोषः। यो हि निपातत्वादुपसंख्यानं प्रत्याचष्टे स भोःशब्दप्रयोगे तसिलादीन्नेच्छत्येव॥
Prakriyasarvasvam¶
मत्वन्तस्य वस्वन्तस्य च पदस्य संबुद्धौ रुः स्यात् । मरुत्वन् त् इत्यत्र संयोगान्तलोपे कृते नस्य रुत्वम् । इन्द्र मरुत्वः । हरिवो मेदि त्वा । अत्र संयोगान्तलोपस्यासिद्धत्वेन हश्परत्वाभावे प्राप्ते ‘संयोगान्तलोपो रुत्वे सिद्धो वाच्यः’ इति ‘हशि च’ (६-१-११४) इत्युत्वम् । वसोः- मीढ्वस्तोकाय । ‘वन उपसंख्यानम्’ (वा.) वसुना प्रातरित्वः ।
Vartika¶
वन उपसङ्ख्यानम् ।