83007: नश्छव्यप्रशान्¶
Padacheda: नः | S | 6 | 1 |
छवि | S | 7 | 1 |
अप्रशान् | S | 1 | 1 | 6
Sutrartha¶
‘प्रशान्’ इति शब्दं वर्जयित्वा, अन्यत्र पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य रुँ आदेशः भवति ।
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् सप्तमम् सूत्रम् । पदान्तनकारात् अनन्तरम् संहितायाम् छव्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् नकारस्य अनेन सूत्रेण रुँ आदेशः भवति (परन्तु प्रशान्-शब्दस्य विषये न भवति) इति अस्य सूत्रस्य आशयः । <pt> छव् = चवर्ग/टवर्ग/तवर्गस्य प्रथमद्वितीयव्यञ्जनम् = छ्, ठ्, थ्, च्, ट्, त् । <light> । आहत्य षट् व्यञ्जनानि ।</light> अम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । <light>सर्वे स्वराः + आहत्य दश व्यञ्जनानि ।</light> </pt> यथा, ‘भवान् तिष्ठति’ इत्यत्र अस्य सूत्रस्य प्रयोगं कृत्वा ‘भवाँस्तिष्ठति / भवांस्तिष्ठति’ इति द्वे रूपे भवतः । प्रक्रिया इत्थम् —
यथा - भवान् + तिष्ठति
→ भवारुँ + तिष्ठति [**नश्छव्यप्रशान्** (8.3.7) इति पदान्तनकारस्य रुँत्वम् ]
→ भवाँरुँ + तिष्ठति / भवांरुँ + तिष्ठति [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ भवाँः तिष्ठति / भवांः तिष्ठति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ भवाँस् तिष्ठति / भवांस् तिष्ठति [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः]
→ भवाँस्तिष्ठति / भवांस्तिष्ठति ।
अनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा —
राजन् + चिनुहि → राजँश्चिनु, राजंश्चिनु । अत्र प्रक्रियायाम् सकारस्य स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वे शकारः भवति ।
शार्ङ्गिन् + छिन्धि → शार्ङ्गिँश्छिन्धि, शार्ङ्गिंश्छिन्धि । अत्र प्रक्रियायाम् सकारस्य स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वे शकारः भवति ।
काव्यान् + टङ्कयति = काव्याँष्टङ्कयति, काव्यांष्टङ्कयति । अत्र प्रक्रियायाम् सकारस्य ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे षकारः भवति ।
गतवान् + ठक्कुरः = गतवाँष्ठक्कुरः, गतवांष्ठक्कुरः । अत्र प्रक्रियायाम् सकारस्य ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे षकारः भवति ।
विद्वान् + तत्र → विद्वाँस्तत्र, विद्वांस्तत्र ।
चक्रिन् + त्रायस्व → चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व ।
दोषान् + त्यक्त्वा → दोषाँस्त्यक्त्वा, दोषांस्त्यक्त्वा ।
भवान् + थूत्करोति → भवांस्थूत्करोति, भवाँस्थूत्करोति ।
<note>अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च अनुनासिकात् परोऽनुस्वारः (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः ।</note> <hlb>प्रशान् इति पदस्य विषये तु इदं सूत्रम् नैव प्रवर्तते</hlb> । प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते ‘प्रशाम्’ इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् ‘प्रशान्’ इति नकारान्तं जायते । अस्य शब्दस्य विषये अस्य सूत्रस्य प्रयोगः न भवति, अतः अस्मिन् सूत्रे “अप्रशान्” इति निषेधः कृतः वर्तते । अतः अस्य शब्दस्य विषये “प्रशान् + तनोति → प्रशान्तनोति” इत्येव जायते । </note>
दलकृत्यम्
1. पदान्तनकारस्य इति किमर्थम् ? अपदान्तनकारस्य विषये इदं सूत्रं न प्रवर्तते । यथा, तुदादिगणस्य कृतीँ (छेदने) धातोः लट्लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपम् “कृन्तति” इति भवति । अत्र नकारः पदान्ते न विद्यते, अतः अम्-परके तकारे परे अस्य रुँत्वम् न भवति । 2. छवि इति किमर्थम् ? “भवान् + करोति” अत्र प्रकृतसूत्रेण रुत्वँ न भवति । 3. अम्परे इति किमर्थम् ? यत्र छव्-वर्णात् अनन्तरम् अम्-वर्णः नास्ति, तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा, “सन् + त्सरुः (handle of a sword)” अत्र प्रकृतसूत्रेण रुत्वँ न भवति ।
Sutrartha (English)¶
In the context of संहिता, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is converted to रुँ. But this conversion does not happen for the word ‘प्रशान्’.
Vasu English Summary¶
रु is substituted for the final न् of a word, with the exception of न् of प्रशान् before a छव् letter (छ ठ थ च ट त) which is followed by an अम् letter (vowel, semi-vowel and nasal).
Vasu English Translation¶
रु is substituted for the final न् of a word, with the exception of न् of प्रशान् before a छव् letter (छ ठ थ च ट त) which is followed by an अम् letter (vowel, semi-vowel and nasal). The word अम्परे is to be read into this sutra. The word अप्रशान् in the sutra is in the Nominative case, but it has the force of Genitive.
Thus भवाँश्छादयति or भवांश्छादयति; भवाँश्चिनोति or भवांश्चिनोति; भवाँष्टीकते or भवांष्टीकते, (from the root टीकि ‘to go’), भवाँस्तरति or भवांस्तरति ॥
Why do we say ‘before a छव् letter’? Observe भवान् करोति ॥ Why do we say ‘with the exception of the न् of प्रशान्’? Observe प्रशाम् छादयति, प्रशान् चिनोति ॥ Why do we say ‘when अम् follows छव्’? See भवान् त्सरुकः ॥ त्सरु is sword, he who is dexterous in it, is called त्सरुकः (कन् (5.2.64)).
Kashika¶
अम्पर इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। भवाँश्छादयति, भवांश्छादयति। भवाँश्चिनोति, भवांश्चिनोति। भवाँष्टीकते, भवांष्टीकते। भवाँस्तरति, भवांस्तरति। छवीति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छादयति। प्रशान् चिनोति। अम्पर इत्येव — भवान् त्सरुकः॥
Siddhanta Kaumudi¶
अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिँश्छिन्धि । शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥
Laghu Siddhanta Kaumudi¶
अम्परे छवि नान्तस्य पदस्य रुः ; न तु प्रशान्शब्दस्य॥
Balamanorama¶
नश्छव्यप्रशान् - नश्छव्यप्रशान् । ‘न’ इति षष्ठन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । ‘अम्परे’ इत्यनुवर्तते, ‘रु’ इति च । तदाह-अम्पर इत्यादिना ।अप्रशा॑निति षष्ठर्थे प्रथमा । तदाह-न त्विति । विसर्ग इति । ‘शाङ्ग-छिन्धि’चक्रिन्-त्रायस्वे॑ति स्थिते नकारस्यानेन रुत्वम् । अनुनासिकानुस्वारविकल्पः । ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शार्ङिंश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङिंश्चिन्धीति । अनुस्वारपक्षे रूपम् ।चक्रिंस्त्रायस्वे॑त्यनुनासिकपक्षे । अनुस्वारपक्षे तुचकिंरस्त्रायस्वे॑ति । त्रैङ् पालने । ङित्त्वादात्मनेपदी ।त्राही॑ति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम् । प्रशानिति । प्रपूर्वाच्छाभ्यतेः क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।मो नो धातो॑रिति मस्य नः । तस्यासिद्धत्वान्नलोपो न ।
Tattvabodhini¶
नश्छव्यप्रशान् - प्रशानिति । प्रपूर्वाच्छाम्यतेः क्विप् ।अनुनासिकस्ये॑ति दीर्घः ।मो नो धातो॑रिति नः । तस्याऽसिद्धत्वान्नलोपो न ।
Padamanjari¶
प्रशान्वर्जितस्येति । सूत्रे तु ठप्रशान्ऽ इति षष्ठ।ल्र्थे प्रथमा । टीकतिर्गत्यर्थोऽनुदातेत् । त्सरुः उ खङ्गग्रहणप्रदेशः, तत्र कुशलः त्सरुकः, आकर्षादिभ्यः कन् ॥
Nyaas¶
स इति। निवृत्तम्, रुरेवानुवर्तते; सोऽपि मतुवसुभ्यामसम्बद्ध एव; तयोरपि निवृत्तत्वात्। न इति वर्णग्रहणम्, तच्च प्रकृतस्य पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - नकारान्तस्य पदस्य इत्यादि। भवांश्छादयति इति। झद अपवारणे (धातुपाठः-1833), चुरादिणिच्। भवांष्टीकते इति। टिकृ टीकृ रधि लघि गत्यर्थाः (धातुपाठः-103,104,107,108)। अनुदात्तत्त्वादात्मनेपदम्। प्रशान् इति। प्रपूर्वाच्छमेः क्विप्? अनुनासिकस्य विवझलोः क्ङिति (6.4.15) इति दीर्घः, मो नो धातोः (8.2.64) इति मकारस्य नकारः, तस्यासिद्धत्वान्नलोपाभावः। भवान्? त्सरुकः इति। त्सरौ कुशलः, आकर्षादिभ्यः कन् (5.2.64) इति कन्प्रत्ययः॥
Praudhamanorama¶
चक्रिँस्त्रायस्वेति। यत्तु प्राचा त्राहीत्युक्तं, तत्र परस्मैपदमयुक्तम्। त्रायतेर्ङित्त्वात्। त्रायत इति त्राः स इवाचरतीत्यर्थे कर्तरि क्विबन्तादाचारक्विपि वा बोध्यम्। प्रशानिति। प्रपूर्वाच्छाम्यतेः क्विप्। अनुनासिकस्य क्वि— (6.4.15) इति दीर्घः। मो नो धातोः (8.2.64) इति नः। तस्यासिद्धत्वान्नलोपो न॥
Prakriyasarvasvam¶
अम्परे छवि परे नान्तस्य पदस्य रुः स्यात् नतु प्रशान् शब्दस्य । क्रीडर् चक्री । जनार् त्राता । प्राग्वदनुनासिकानुस्वारौ ।
Sarala¶
पदस्य (८.१.१६) इत्यधिकृतं, तच्च विशेष्यं, “न” इति च विशेषणम् । विशेषणेन च तदन्तविधिः ॥ मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यतः “रु” इति, पुमः खय्यम्परे (८.३.६) “अम्परे” इति चानुवर्तते इत्याह - अम्परे इति ॥
Sudha¶
नश्छव्यप्रशानिति । न इति षष्ठ्यन्तं पदस्येत्यधिकृत्य विशेषणम् । तदन्तविधिः । अम्परे इति रुँ इति चानुवर्तते, तदाह — अम्पर इत्यादिना । ** **चक्रिंस्त्रायस्वेति । ** “चक्रिन्-त्रायस्व” इति स्थिते **नश्छव्यप्रशान् (8.3.7) इत्यनेन नान्तस्य पदस्य “चक्रिन्” इत्यस्य रुँत्वे प्राप्ते अलोऽन्त्यस्य (1.1.52) इत्यनेन न् इत्यस्य स्थाने रुँ कृते अम्परकछव्प्रत्याहारान्तःपातिनि ककारे परे “चक्रिरुँ त्रायस्व” इति जाते रेफोत्तरवर्त्युकारस्येत्संज्ञायां लोपे च “चक्रिर् त्रायस्व” इति जाते अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति अनुनासिके, पक्षे अनुनासिकात्परोऽनुस्वारः (8.3.4) इत्यनुस्वारे च “चक्रिँर् त्रायस्व”, “चक्रिंर् त्रायस्व” इति जाते खरवसानयोर्विसर्जनीयः (8.3.15) इति उभयत्र रेफस्य विसर्गे कृते सति विसर्जनीयस्य सः (8.3.34) इत्यनेन विसर्गस्य सत्वे “चक्रिँस्त्रायस्व”, “चक्रिंस्त्रायस्व” इति रूपद्वयं बोध्यम् ॥ अप्रशान् किमिति । “प्रशान् तनोति” इत्यत्र सूत्रार्थसमन्वयात् नकारस्य रुत्वं प्राप्तम्, तन्नेष्टमिति शास्त्रे अप्रशान् इति पर्युदस्यते ॥
Sutra Prayogas¶
त्रि-मूर्धाश्चाऽहतां (भट्टिकाव्यम्): नश्छव्यप्रशान् इति रुः ।
स्वस्मिंस्तिष्ठन्तमात्मनि (भट्टिकाव्यम्): नश्छव्यप्रशान् इति नकारस्य रुत्वम्।
काम्यंस्तमस् (भट्टिकाव्यम्): नश्छव्यप्रशान् इति रुत्वं विसर्जनीयसकारौ च पूर्वस्यानुनासिकः।
भक्ष्यांश्चाऽऽदन्यथेप्सितान् (भट्टिकाव्यम्): नश्छव्यप्रशान् इति रुत्वम्।
अवर्त्स्यंस्तरां (भट्टिकाव्यम्): नश्छव्यप्रशान् इति रुत्वं पूर्वस्यानुस्वारः।