83015: खरवसानयोर्विसर्जनीयः

Padacheda: खर्-अवसानयोः | S | 7 | 2 |

विसर्जनीयः | S | 1 | 1 |

Sutrartha

पदान्ते विद्यमानस्य रेफस्य संहितायाम् खर्-वर्णे परे अथवा अवसाने परे विसर्गादेशः भवति ।

अष्टाध्याय्यां विद्यमानम् इदम् विसर्ग-निर्माणस्य (एकम् एव) सूत्रम् । पदान्तरेफस्य अनेन सूत्रेण अवसाने परे, तथा च संहितायाम् खर्-वर्णे परे विसर्गादेशः भवति । <pt> खर् = कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शषसाः = ख्, फ्, छ्, ठ्, थ्, च, ट्, त्, क्, प्, श्, ष्, स् । <light>खर्-प्रत्याहारे हकारः न अन्तर्भवति । </light> </pt> <note>अवसानम् इति संज्ञा विरामोऽवसानम् (1.4.110) इति सूत्रेण दीयते ।</note> कानिचन उदाहरणानि एतादृशानि — **1. राम-शब्दात् विहितस्य सुँ-प्रत्ययस्य रेफादेशे कृते तस्य अवसाने परे विसर्गः — **

राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। ]
→ राम + रुँ [पदान्तसकारस्य **ससजुषो रुँ** (8.2.66) इति रुँत्वम् ]
→ राम + र् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। ]
→ रामः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति अवसाने परे रेफस्य विसर्गः]

2. “पुनर्” इति अव्ययस्य अन्ते विद्यमानस्य रेफस्य खर्-वर्णे परे विसर्गादेशः

पुनर् + करोति
→ पुनः + करोति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति खर्-वर्णे परे रेफस्य विसर्गः ]

3.”विद्वान् तपति” इत्यत्र संहितायाम् पदान्तनकारस्य **नश्छव्यप्रशान् (8.3.7) इति रुत्वे, प्रकृतसूत्रेण खर्-वर्णे परे तस्य विसर्गादेशः सम्भवति ।** प्रक्रिया इयम् —

विद्वान् + तपति
→ विद्वारुँ + तपति [**नश्छव्यप्रशान्** (8.3.7) इति पदान्तनकारस्य रुँत्वम् ]
→ विद्वाँरुँ + तपति / विद्वांरुँ + तिष्ठति [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ विद्वाँर् + तपति / विद्वांर् + तपति [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। ]
→ विद्वाँः + तपति / विद्वांः + तपति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ विद्वाँस् + तपति / विद्वांस् + तपति [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः]
→ विद्वाँस्तपति / विद्वाँस्तपति ।

**4. गॄ-धातोः क्विप्-प्रत्यये कृते ‘गिर्’ इति प्रातिपदिकम् सिद्ध्यति, तस्य प्रथमैकवचनस्य रूपे रेफस्य प्रकृतसूत्रेण विसर्गः भवति । ** प्रक्रिया इयम् —

गॄ + क्विप् + सुँ [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः । ततः प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ गिर् + स् [**ॠत इद्धातोः** (7.1.100) इति ॠकारस्य इकारादेशः भवति, स च**उरण् रपरः** (1.1.51) इति रपरः विधीयते ।]
→ गिर् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62)
इत्यनेन 'गिर्' इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति । ]
→ गीर् [**र्वोरुपधाया दीर्घ इकः** (8.2.76) इति दीर्घः]
→ गीः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति अवसाने परे पदान्तरेफस्य विसर्गः ।

5. दकारान्तस्य धातोः सिप्-प्रत्यये परे **दश्च (8.2.75) इत्यनेन रुत्वम् भवति, ततः प्रकृतसूत्रेण रेफस्य विसर्गादेशः सम्भवति । **प्रक्रिया इयम् —

भिदिँर् (विदारणे, रुधादिः, (7.2))
→ भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ भिद् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्लकारः]
→ अट् + भिद् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + भिद् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि...** (3.4.78) इत्यनेन सिप्-प्रत्ययः]
→ अ + भि श्नम् द् + सि [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-प्रत्ययः]
→ अ + भि न द् + स् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + भि न द् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ अ + भि न रुँ [**दश्च** (8.2.75) इति पदान्तदकारस्य वैकल्पिकं रुँत्वम्]
→ अ + भि न र् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। ]
→ अभिनः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति अवसाने परे रेफस्य विसर्गः]

दलकृत्यम्

**1. खरवसानयोः इति किमर्थम्? ** खर्-भिन्ने वर्णे परे रेफस्य विसर्गादेशः न भवति । यथा - “पुनर् + गच्छति →‌ पुनर्गच्छति” । **2. पदान्तरेफस्य इति किमर्थम्? ** अपदान्तरेफस्य खर्-वर्णे परे विसर्गः न भवति । यथा, “पार्थ”, “अर्क”, “सर्प”, “वर्ष” एतेषु शब्देषु रेफस्य विसर्गः न भवति । <note>अष्टाध्याय्यां पर्यायवाचिशब्दानां प्रयोगे गौरवलाघवचर्चा नाद्रीयते । The discussion of अल्पाक्षरत्वम् is typically not done while comparing synonyms, even inside Ashtadhyayi. अतः अस्मिन् सूत्रे “विसर्गः” इति लघुशब्दस्य स्थाने “विसर्जनीयः” इति बृहच्छब्दः प्रयुक्तः दृश्यते चेदपि अयम् न कश्चन गौरवदोषः । </note>

बहिरङ्गलक्षणस्य रेफस्य अन्तरङ्गलक्षणः विसर्गः न भवति

यत्र प्रक्रियायाम् बहिरङ्गनिमित्तकः रेफः जायते, तत्र तस्य रेफस्य अन्तरङ्गम् निमित्तम् आश्रित्य रेफस्य विसर्गादेशः नैव सम्भवति, यतः असिद्धं बहिरङ्गमन्तरङ्गे इत्यनया परिभाषया बहिरङ्गं कार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति । अत्र द्वे उदाहरणे अधः दत्ते स्तः — 1. “नृपतेः अपत्यम्” अस्मिन् अर्थे नृपति-शब्दात् तद्धितसंज्ञकः अण्-प्रत्ययः भवति । “नृपति + अण्” इति स्थिते प्रक्रियायाम् तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिं तथा च यस्येति च (6.4.148) इत्यनेन अन्तिम-इवर्णस्य लोपं कृत्वा “नार्-पत्य” इति सिद्ध्यति । अत्र ‘नार्’ इति पृथक् पदम् अस्ति, अपि च तस्य अन्ते विद्यमानात् रेफात् परः संहितायाम् खर्-वर्णः (पकारः) अवश्यं विद्यते । अतः अत्र खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन रेफस्य अनिष्टः विसर्गादेशः प्राप्नोति । तस्य निवारणार्थम् असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषा प्रयुज्यते । अत्र रेफस्य निमित्तम् (तद्धितसंज्ञकः अण् वर्णः) विसर्गस्य निमित्तस्य (पकारस्य) अपेक्षया बहिरङ्गः अस्ति (इत्युक्ते — दूरे विद्यते, प्रक्रियायाम् अनन्तरं च विधीयते) अतः रेफविधानम् विसर्गादेशस्य अपेक्षया बहिरङ्गम् कार्यम् अस्ति । असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषया इदं बहिरङ्गकार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति, अतः अत्र रेफविधानम् विसर्गनिर्माणार्थम् नैव दृश्यते । अतः एव “नार्-पत्य” अस्मिन् उदाहरणे रेफस्य विसर्गादेशः नैव सम्भवति, अपि तु केवलं वर्णमेलनं कृत्वा “नार्पत्य” इत्येव शब्दः सिद्ध्यति । 2. “देवानाम् ऋषिः” इत्यस्मिन् अर्थे देव-शब्दस्य अकारस्य ऋषि-शब्दस्य ऋकारेण सह आद्गुणः (6.1.87) इति एकादेशं कृत्वा “देव्-अर्-षि” इति जायते । अत्र अन्तादिवच्च (6.1.85) इति सूत्रेण अन्तवद्भावं प्रयुज्य ‘देवर्’ इति शब्दः पूर्वपदत्वं प्राप्नोति, अतश्च पदान्ते विद्यमानस्य रेफस्य खर्-वर्णे परे (षकारे परे) अनिष्टः विसर्गादेशः प्राप्नोति । अत्रापि असिद्धं बहिरङ्गमन्तरङ्गे इत्येव परिभाषां स्वीकृत्य अस्य निवारणं कर्तुं शक्यते । अत्र रेफस्य निर्माणार्थम् ‘देव’ तथा ‘ऋषि’ इति द्वे पदे आवश्यके, अतः रेफः पदद्वयाश्रितः अस्ति । विसर्गादेशार्थम् तु केवलम् षकारः निमित्तरूपेण आवश्यकम्, अतः विसर्गः एकपदाश्रितः अस्ति । इत्युक्ते, रेफनिर्माणविधिः विसर्गादेशस्य अपेक्षया बहिरङ्गः वर्तते । अस्यां स्थितौ असिद्धं बहिरङ्गमन्तरङ्गे इत्यनया परिभाषया अयं रेफादेशः विसर्गनिर्माणार्थम् असिद्धः भवति, अतश्च अस्मात् रेफात् विसर्गनिर्माणम् नैव सम्भवति । एवमेव, “सुखेन ऋर्तः” इत्यस्मिन् अर्थे एत्येधत्यूठ्सु (6.1.89) इत्यत्र पाठितेन <!ऋते च तृतीयासमासे!> इति वार्त्तिकेन सुख-शब्दस्य ऋत-शब्देन सह वृद्ध्येकादेशे कृते “सुख्-आर्-त” इत्यवस्थायाम् “सुखार्” इत्यत्र पदान्ते विद्यमानस्य रेफस्य तकारे परे खरवसानयोर्विसर्जनीयः (8.3.15) इति अनिष्टे विसर्गादेशे प्राप्ते एकपदाश्रितस्य विसर्गस्य कृते द्विपदाश्रितस्य वृद्ध्यादेशस्य असिद्धत्वं स्वीकृत्य अयम् अनिष्टः विसर्गादेशः निवार्यते । “प्रार्च्छति” इत्यस्मिन् उदाहरणे अपि अनेनैव कारणेन विसर्गादेशः न भवति । पाणिनिना स्वयमपि उभयथर्क्षु (8.3.8) (= उभयथा + ऋक्षुः), कर्तरि चर्षिदेवतयोः (3.2.186) (= च + ऋषिदेवतयोः) इत्यादिसूत्रेषु एकादेशे कृते तस्य असिद्धत्वं स्वीकृत्य विसर्गादेशः नैव क्रियते । अस्मिन् सन्दर्भे प्रौढमनोरमायाम् शब्दरत्ने च केचन अन्ये परिहाराः अपि उक्ताः सन्ति, जिज्ञासुभिः ते तत्तत्स्थले एव द्रष्टव्याः ।

Sutrartha (English)

A र् present at end of a पद is converted to a विसर्ग when it is either followed by nothing, or when it is followed by a खर् letter in the context of संहिता.

Vasu English Summary

The विसर्जनीय is substituted for र् before a खर् consonant or when there is a Pause.

Vasu English Translation

The विसर्जनीय is substituted for र् before a खर् consonant or when there is a Pause. The word रः is understood. The visarga is the substitute of र् final in a Pada, before surd consonants and sibilants, or at a Pause.

Thus वृक्षश्छादयति (8.3.34), (8.4.40), प्लक्षश्छादयति, वृक्षस्तरति, प्लक्षस्तरति, वृक्षष्ठकारः, वृक्षष्टीकते, प्लक्षष्टीकते, वृक्षश्चिनोति, प्लक्षश्चिनोति ॥ Pause:- वृक्षः; प्लक्षः ॥

Who do we say “before a खर् consonant or at a Pause”? Observe अग्निर्नयति, वायुर्नयति, नार्कुटः (नृ कुढ्यां भवः), नार्पत्यः (नृपतेरपत्यं) ॥ In these two latter, the Vriddhi being considered as Bahiranga, and the र् being the result of such Bahiranga Vriddhi, is asiddha, and is consequently not changed to visarga.

The word पदस्य is understood here, and the genitive should be consrued here as sthana-sashthi, so that for the final र् of a Pada there is visarga, and not for that र् which is not final.

Bhashya

खरवसानयोर्विसर्जनीयः ॥ विसर्जनीयोऽनुत्तरपदे॥ विसर्जनीयोऽनुत्तरपद इति वक्तव्यम्। इह मा भूत्-नार्कुटो नार्पत्य इति॥ तत्तर्हि वक्तव्यं विसर्जनीयोऽनुत्तरपद(1) इति?॥ न वा बहिरङ्गलक्षणत्वात्॥न वा वक्तव्यम्॥ किं कारणम्?॥ बहिरङ्गलक्षणत्वात्। बहिरङ्गो रेफोऽन्तरङ्गो विसर्जनीयः। असिद्धं बहिरङ्गमन्तरङ्गे॥ नैष युक्तः परिहारः। अन्तरङ्गं बहिरङ्गमिति प्रतिद्वन्द्वभाविनावेतौ पक्षौ, सत्यन्तरङ्गे बहिरङ्गं, सति च(2) बहिरङ्गेऽन्तरङ्गं भवति(2)। न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति(3)॥ किं कारणम्?॥ असिद्धत्वात्॥ कथमसिद्धत्वम्(1)?॥ पूर्वत्रासिद्धमिति। न चाऽनभिनिर्वृत्ते(1) बहिरङ्गेऽन्तरङ्गं प्राप्नोति, तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य भवति(2)। -अनिमित्तं बहिरङ्गमन्तरङ्गस्याऽसिद्धत्वात्(2)- अनि(3) मित्तं बहिरङ्गमन्तरङ्गस्य॥ किं कारणम्?॥ असिद्धत्वात्॥ कथमसिद्धत्वं यावतापूर्वत्राऽसिद्धमित्यसिद्धा परिभाषा। असिद्धं बहिरङ्गमन्तरङ्गे॥ कथम्?॥ कार्यकालं संज्ञापरिभाषामिति। खरवसानयोर्विसर्जनीयः। उपस्थितमिदं भवत्यसिद्धं बहिरङ्गमन्तरङ्ग इति। एवमेषा सिद्धा परिभाषा(1) भवति॥ कुतो नु(2) खल्वेतद्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्रासिद्धमिति च,(1)असिद्धं बहिरङ्गमन्तरङ्गः इति च,-पूर्वत्रासिद्धमित्येतामुपमृद्याऽसिद्धं बहिरङ्गमन्तरङ्ग इत्येतया व्यवस्था भविष्यति, न पुनरसिद्धं बहिरङ्गमन्तरङ्ग इत्येतामुपमृद्य पूर्वत्रासिद्धमित्येतया व्यवस्था स्यात्?॥ अतः किम्?॥ अतोऽयुक्तः परिहारो न वा बहिरङ्गलक्षणत्वादिति॥

Kashika

र इति वर्तते। रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने — वृक्षः। प्लक्षः। खरवसानयोरिति किम्? अग्निर्नयति। वायुर्नयति। इह नृकुट्यां भवो नार्कुटः, नृपतेरपत्यं नार्पत्य इति वृद्धेर्बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गम्० इत्यसिद्धत्वाद् विसर्जनीयो भवति॥

Siddhanta Kaumudi

खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु (SK3630) कर्तरि चर्षिदेवतयो (SK3167)रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः (SK92) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥

Laghu Siddhanta Kaumudi

खरि अवसाने च पदान्तस्य रेफस्य विसर्गः। संपुंकानां सो वक्तव्यः (वार्त्तिकम्) । सँस्स्कर्ता, संस्स्कर्ता॥

Laghu Shabdendushekhar

निर्देशादिति । न च कर्त्तरि चर्षिदेवतयोः (३.२.१८६) इत्यादौ गुणस्य पदद्वयसम्बन्धिवर्णद्वयाश्रितत्वेन बहिरङ्गत्वाद्रेफाभावेन न विसर्ग इति वाच्यम् । गुणस्येव पदद्वयसम्बन्धिरेफखरात्मकवर्णद्वयाश्रितत्वेन विसर्गस्यापि तत्त्वात् । पर निमित्तकत्वमप्युभयोः समम् । किं च कार्यकालपक्षे त्रिपाद्यां तदुपस्थितावपि पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्यान्तरङ्गनिरूपितबहिरङ्गत्वाभावात्कथं तस्यासिद्धत्वप्रतिपादनम् । न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं पूर्वत्रासिद्धम् (८.२.१) इत्यनेन वक्तुमशक्यमिति वाच्यम् । एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्तौ विसर्गो दुर्वारः । एवञ्च विरोधात्कार्यकालपक्षेऽपि तदनुपस्थितिरेव त्रिपादीस्थेऽन्तरङ्गे उचिता । अत एव विसर्जनीयसूत्रे (खरवसानयोर्विसर्जनीयः (८.३.१५)) भाष्ये इमावेव युक्तिमुक्त्वा अयुक्तोऽयं परिहारो न वा बहिरङ्गलक्षणत्वात् इत्युक्तम् । एवञ्च तत्र तत्र वचनान्येव कार्याणि ज्ञापकानुसरणं वा कर्त्तव्यम् । अत एव “निगाल्यते” इत्यादौ लत्वाद्यर्थं “तस्य दोष” इति वचनमेवारब्धम् । अन्यथाऽन्तरङ्गत्वाण्णिलोपात्पूर्वं वैकल्पिकलत्वे “चक्र्यत्र, माषवपनी” इत्यादौ बहिरङ्गासिद्धत्वेन च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । यत्तु लक्ष्यानुरोधात्कार्यकालपक्षे उपस्थितयान्तरङ्गपरिभाषयाऽऽनुमानिक्या प्रत्यक्षसिद्धस्यापि पूर्वत्रेत्यस्य बाध इति, तन्न लक्षणैकचक्षुषामादरणीयम्। अत एव उरण् रपरः (१.१.५१) इति सूत्रे रेफस्य पूर्वान्तवत्त्वे विसर्जनीयप्रतिषेधो वक्तव्यो नार्कुटाद्यर्थम् इत्युक्तं भाष्ये इति दिक् । उपसर्गेणैवेति । तत्सञ्ज्ञायाः क्रियायोगनिमित्तत्वादित्यर्थः । यदर्थे क्रियारूपे प्रादीनामन्वयस्तं प्रत्येवोपसर्गत्वमिति भावः । प्रकृते च प्रत्यासत्त्या ऋकारादिनिमित्तोपसर्गग्रहणात् प्रगतः ऋद्धः “प्रर्द्ध” इत्यत्र न । पुनरिति । प्रकृतसूत्रे भाष्ये स्फुटमेतत् ॥

Balamanorama

खरवसानयोर्विसर्जनीयः - इति रेफस्येति । उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह — खरवसानयोः ।रो री॑त्यतो र इति षष्ठन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम् । फलितमाह — खर्यवसाने चेति । पदान्त इति ।विद्यमानस्ये॑ति शेषः । यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः । अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः । कुत इत्यत आह — उभयथर्क्ष्विति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः । नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह — उपसर्गेणैवेत्यादिना । उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाभ इत्यत आह — योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गादृतीति धाताविति च सूत्रं विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः । किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः ।

Tattvabodhini

खरवसानयोर्विसर्जनीयः - न विसर्ग इति । एतच्चसुखार्त॑इत्यादावपि बोध्यम् ।

Padamanjari

यद्यत्रापि पदस्येति विशेषणषष्ठी स्यात्, तदा चकर्ष, कर्कश इत्यादावपदान्तस्यापि रेफस्य विसर्जनीयः स्यात् । स्थानषष्ठ।लं तु रेफेण पदे विशेषिते रेफान्तस्य पदस्यालोन्त्यस्य विसर्जनीयविधानान्न कश्चिद्दोष इति मन्यमान आह - रेफान्तस्य पदस्येति । खरि परतोऽवसाने चेति ।’परतः’ इत्येतत्खरैव सम्बध्यते, नावसानेन; असम्भवात् । येन वर्णेन विरम्यते स एवावसानं स्यात् । विरतिःउवर्णस्यानुच्चारणम् । तत्र पदान्तस्य रेफस्य येन वर्णन विरम्यते स तावत्परो न सम्भवति । इतरत्पुनरवसानमभावरूपम्, न चाभावेन पौर्वापर्यं सम्भवति । तस्मात्’खरवसानयोः’ इत्येकापि सप्तमी विषयभेदाद्धिद्यतेखरि परसप्तमी, अवसाने विषयसप्तमीति । अपर आह - वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिविरचितं पौर्वापर्यमस्ति, तत्वभावेनापि सम्भवति; तस्मादुभयत्रापि परसप्तमीति । उदाहरणेषु खरि विसर्जनीयस्य सत्वम्, चवर्गे श्चुत्वम्, टवर्गे ष्टुअत्वम् । नार्पत्य इति । पत्युतरपदाण्ण्यः । वृद्धेर्बहिरङ्गलक्षणत्वादिति । बहिर्भूततद्धितापेक्षत्वाद् वृद्धेर्बहिरङ्गत्वम् । तदाश्रयस्य रेफस्येति । तदाश्रयत्वं तु तया सह विधानात् । ठुरण् रपरःऽ इत्येतद्धि गुणवृद्धिविधिभिरेकतामापाद्य रपरत्वं विधते, तेन वृद्धेर्यन्निमितं तदेव रेफस्यापि, ततस्तस्यापि बहिरङ्गत्वम् । विसर्जनीयस्तु खर्मात्रमाश्रित्य भवन्नन्तरङ्गः । ननु बहिरङ्गपरिभाषा’वाह ऊठ्’ इत्यत्र ज्ञापितत्वातद्देशा, ततः किम् ? तस्यां कर्तव्यायां विसर्जनीयः’पूर्वत्रासिद्धम्’ इत्यसिद्धः, सा कथमन्तरङ्गमपश्यन्ती बहिरङ्गस्यासिद्धत्वमापादयति ? नैष दोषः;’कार्यकालं संज्ञापरिभाषम्’ , ततश्च परिभाषान्तरवद् बहिरङ्गपरिभाषाया अप्यत्र प्रकरणे प्रवृत्तिरविरुद्धा ॥

Nyaas

यद्यत्र पदस्येति विशेषणवष्ठी स्यात् -पदस्यावयवो यो रेफ इति, तदा अर्कः इत्यादानप्यपदान्तस्य रेफस्यापि विसर्जनीयः स्यात्। स्थानषष्ठआ न दोषः; अत्र हि पदं रेफेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवति, तेन रेफान्तसय कार्यमुच्यमानमलोऽन्त्यस्यैव भवतीत्येतदालौच्च पदसयेत्येषा स्थाने षष्ठी; तच्च पदं रेफेण वेशेष्यत इत्यतद्दर्शयन्नाह -रेफान्तस्य पदस्य इति। खरि परतोऽवसाने च इति। पतः इत्येतत्? पूर्वेणैव सम्बध्यते, न परेणावसानेन,[परेण अवसाने -कांउ।पाठः] तस्य पौर्वापर्याभावात्। तथा हि येन वर्णेन विरम्यते सोऽवसानं स्यात्। विरतिर्वा विरामः=वर्णस्यानुच्चारणम्। तेन रेफान्तात्? पदाद्येन वर्णेन विरभ्यते स तावदवसानसंज्ञकः परो न सम्भवति; तन्मात्रस्याप्रयोगात्। अप्रयोगस्तु निरर्थकत्वात्। इतरत्र तु पुनरवसानमभावरूपम्। अभावे च पौर्वापर्यं न सम्भवति; तस्य वर्णधर्मत्वात्। तस्मात्? तदपि नैव रेफान्तात्? पदात्? परमुपपद्यते। केचित्तु बुद्धिकल्पितं पौर्वापर्यमाश्रित्य `अवसाने च इत्यानेनापि सह परतः इत्येतत्सम्बन्धन्ति। तत्र यदि वुद्धिकल्पितं पौर्वापग्र्रं नाश्रीयते, तदा खरवसानयोः इत्येकाप्येषा सप्तम्यधिकरणभेदाद्भिद्यते; खर्यौपश्लेषिकेऽञिकरणे सप्तमी भवति -खरि परत इति, अवसाने तु वैषयिकेऽधिकरणे सप्तमी भवति -अवसाने विषय इति। यदा तु वृद्धिकल्पितमभावेऽपि पौर्वापयमवसानेऽप्याश्रीयते, तदोभत्रापि परसप्तम्येव। उदाहरणेषु खरि विसर्जनीये कृते विसर्जनीयस्य सः (8.3.34) इति सकारः, तस्य चवर्गे परतः श्चुत्वम्। ञधेह नृकुटआं भवः, तत्र भवः (4.3.53) इत्यणि -नार्कुटः, नृपतेरपत्यम्? दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः (4.1.85) इति नार्पत्य इत्यत्र विसर्जनीयः कस्मान्न भवति? इत्याह -इह इत्यादि। वृद्धिहिं भवादावर्थे विहितं तद्धितमाश्रित्य भवन्ती बहिरङ्गा, तस्याश्च बहिरङ्गत्वात्? तदाश्रयस्यापि रेफस्य बहिरङ्गत्वम्; वृद्ध्याश्रितत्वात्, पुना रेफस्य तद्भक्तात्वात्? तन्निमित्तात्वाच्च। विसर्जनीयक्तु खर्माधमाश्रित्य भवतीत्यन्तरङ्गः। असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति विसर्जनीये कर्तव्ये रेफोऽसिद्धः, अत इह विसर्जनीयो न भवति। ननु च बृद्धौ कर्तव्यायां विसर्जनीयोडभिमतोऽन्तरङ्गोऽसद्धः, तदसति तस्मिन्? वृद्धेर्बहिरङ्गव्यपदेशो नोपपद्यते, तस्यान्तरङ्गापेक्षकत्वात्; असति तस्मिन्? वृद्धेर्बहिरङ्गव्यपदेशे रेफस्यापि स न स्यात्। वृद्धेर्बहिरङ्गद्वारकं हि रेफस्य बहिरङ्गत्वम्; ततश्चोमयाङ्गविकलत्वात्? बहिरङ्गपरिभाषा (व्या।प।42) नोपतिष्ठत इति यदुक्ततम् -`बृद्धेर्बहिरङ्गलक्षणत्वात् इति, तन्नोपपद्यते? नैतत्; न मु ने (8.2.3) इति कार्यान्तरार्थम्? इति योगाविभागः कृतः। तेन वृद्धौ कर्तव्यायां विसर्जनीयस्यासिद्धत्वं न भविष्यति। अत एव बहिरङ्गपरिभाषायामपि विसर्जनीयस्यासिद्धत्वं न भविष्यतीति वेदितव्यम्। कार्यकालं संज्ञापरिभाषम् (व्या।प।58) इत्यस्य दर्शनस्येहाश्रितत्वाच्च। युक्तञ्चैतत्, कार्यप्रयुक्तत्वाद्धि संज्ञापरिभाषस्य तद्देशतैव न्याय्या। यत्र ह्रनयाऽसिद्धत्वं क्रियते सोऽस्याः कार्यदेशः। क्व चानयाऽसिद्धत्वम्? विसर्जनीयविधौ। तस्मात्? तद्देशैवेयम्; न तु यत्रोपसंख्याता -विप्रतिषेधे परं कार्यम् (1.4.2) इति, तद्देशा; नापि यत्र ज्ञापिता -वाह ऊरु (6.4.132) इत्यत्र, तद्देशा॥

Praudhamanorama

न विसर्ग इति। एतच्च ‘सुखार्तः’ इत्यादावपि तुल्यम्। अत्र च कार्यकालपक्षे बहिरङ्गत्वादसिद्धत्वमपि बोध्यम्। न च ‘नाजानन्तर्य-’ इति निषेधः, यत्रान्तरङ्गे, बहिरङ्गे वा अचोरानन्तर्यं तत्रेति हरदत्तपक्षे तत्प्राप्तावपि यत्र पश्चात् प्रवर्तमानेऽजानान्तर्यमिति कैयटमते निषेधाप्राप्तेः। बह्वपेक्षत्वेन बहिरङ्गायां वृद्धावजानन्तर्यसत्त्वेऽपि पश्चात् प्रवर्तमाने तदभावात्। उपसर्गेणेति। यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इत्युक्तत्वादिति भावः।

Prakriyasarvasvam

खरि परे अवसाने च पदान्तस्य रेफस्य विसर्गः स्यात् ।

Sarala

पदस्य (८.१.१६) इत्यधिकृत, रो रि (८.३.१४) इत्यत “र” इत्यनुवर्त्तते, तदन्तविध्यलोन्त्यविधिप्रवृत्तिलब्धमर्थमाह - पदान्तस्येति

Sutra Prayogas

  • गवि-ष्ठिराम् (भट्टिकाव्यम्): गवि - युधिभ्याम् इति पत्वम् ।

  • द्वास-स्थैर् (भट्टिकाव्यम्): खरवसानयोर्विसर्जनीयः इति विसर्जनीयः।