83008: उभयथर्क्षु¶
Padacheda: उभयथा | S | 0 | 0 |
ऋक्षु | S | 7 | 3 |
Sutrartha¶
वैदिकप्रयोगेषु, पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य विकल्पेन रुँ आदेशः भवति ।
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि (8.3.1) इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु ‘रुँ’ इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् अष्टमम् सूत्रम् । **नश्छव्यप्रशान् (8.3.7) इति सूत्रेण पदान्तनकारस्य उक्तम् ऋत्वम् वैदिकप्रक्रियायाम् विकल्प्यते ** — इति अस्य सूत्रस्य आशयः । अस्मिन् सूत्रे ‘उभयथा’ तथा ‘ऋक्षु’ इति द्वे शब्दे प्रयुक्ते स्तः । अत्र ‘उभयथा’ इति शब्दस्य अर्थः ‘विकल्पेन’ इति अस्ति । रुत्वं भवति न वा भवति; उभयथा प्रयोगाः दृश्यन्ते * — इति आशयः । ‘ऋक्षु’ इति शब्दः तु ‘ऋक्’ (छन्दसः पङ्क्तिः) इत्यस्य सप्तम्येकवचनम् अस्ति । वेदेषु पूर्वसूत्रेण उक्तं रुँत्वं विकल्प्यते इति अत्र आशयः । कानिचन उदाहरणानि एतानि — 1 आपस्तम्बीयश्रौत्रसूत्रेषु **तस्मिंस्त्वा देवयजन आ क्षिणोमीति* इति वाक्यम् विद्यते । अत्र “तस्मिन् + त्वा” इत्यत्र नकारस्य रुँत्वे कृते तस्मिंस्त्वा इति रूपम् सिद्ध्यति —
तस्मिन् + त्वा
→ तस्मिरुँ + त्वा [**उभयथर्क्षु** (8.3.8) इत्यनेन रुँत्वम् ]
→ तस्मिंरुँ + त्वा [**अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ तस्मिंः + त्वा [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ तस्मिंस् त्वा [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः ]
→ तस्मिंस्त्वा
पुरुषसूक्ते पशूंँस्ताँश्चक्रे इति उल्लेखः अस्ति । अत्र “पशून् + तान्” इत्यत्र तथा “तान् + चक्रे” इत्यत्र वर्तमानसूत्रेण रुँत्वं विधीयते । यथा -
पशून् + तान्
→ पशूरुँ + तान् [**उभयथर्क्षु** (8.3.8) इत्यनेन रुँत्वम् ]
→ पशूँरुँ + तान् [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अनुनासिकम्]
→ पशूँः + तान् [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ पशूँस् तान् [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः ]
→ पशूँस्तान्
तस्मिन्तं धेहि मा पणौ (ऋग्वेदे 8.97.2) अस्यां पङ्क्तौ “तस्मिन् तम्” इत्यत्र पदान्त-नकारात् परः खय्-वर्णः, तस्मात् परः च अम्-वर्णः अस्ति । तथापि अत्र रुँत्वम् न भवति । रुँत्वस्य इयम् अनुपस्थितिः उभयथर्क्षु (8.3.8) इत्यनेन प्रतिपाद्यते ।
Sutrartha (English)¶
In the context of संहिता and in the vedas, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is optionally converted to रुँ.
Vasu English Summary¶
In both ways in the ऋग् verses.
Vasu English Translation¶
In both ways in the ऋग् verses. This ordains an option to the last sutra, by which the रु substitution was compulsory. A word ending in म् followed by a letter of छव् class, which itself is followed by अम्, changes its final म् to र् optionally in the Rig Veda. Sometimes there is र् and sometimes म् ॥ Thus तस्मिन् त्वा दधाति or तस्मिँस् त्वा दधाति; पशूँस्ताँश्चक्रे ॥
Why do we say “in the Rig verses”. No option is allowed here ताँस्त्व खाद सुखादिताम् ॥
Kashika¶
पूर्वण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतोऽम्पर उभयथा ऋक्षु भवति, रुर्वा नकारो वा । तस्मिंस्त्वा दधाति, तस्मिन्त्वा दधाति। ऋक्ष्विति किम्? ताँस्त्वं खा॑द॒ सुखा॑दितान् (मा०सं० ११.७८)॥
Siddhanta Kaumudi¶
अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ॥
Nyaas¶
पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्॥
Prakriyasarvasvam¶
अम्परे छवि परे नान्तस्य पदस्य ऋक्षु रुर्वा नकारो वेत्युभयथा स्यात् । तांस्त्रायस्व । (तान्त्रायस्व) ।