Sutras 61 - 80¶
- 34061: स्वाङ्गे तस्प्रत्यये कृभ्वोः
- 34062: नाधाऽर्थप्रत्यये च्व्यर्थे
- 34063: तूष्णीमि भुवः
- 34064: अन्वच्यानुलोम्ये
- 34065: शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्
- 34066: पर्याप्तिवचनेष्वलमर्थेषु
- 34067: कर्तरि कृत्
- 34068: भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा
- 34069: लः कर्मणि च भावे चाकर्मकेभ्यः
- 34070: तयोरेव कृत्यक्तखलर्थाः
- 34071: आदिकर्मणि क्तः कर्तरि च
- 34072: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च
- 34073: दाशगोघ्नौ सम्प्रदाने
- 34074: भीमादयोऽपादाने
- 34075: ताभ्यामन्यत्रोणादयः
- 34076: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः
- 34077: लस्य
- 34078: तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्
- 34079: टित आत्मनेपदानां टेरे
- 34080: थासस्से