34065: शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्

Padacheda: शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति-अर्थेषु | S | 7 | 3 |

तुमुन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix तुमुन् is added to every verb when another verb having the sense of 1. शक् ‘to be able’ 2. धृष् ‘to make bold’ 3. ज्ञा ‘to know’ 4. ग्लै ‘to be weary’ 5. घट् ‘to strive’ 6. रभ् ‘to begin’ 7. लभ् ‘to get’ 8. क्रम् ‘to set about’ 9. सह् ‘to bear’ 10. अर्ह् ‘to be pleased or to condescend’ 11. अस् ‘to be’.

Vasu English Translation

The affix तुमुन् is added to every verb when another verb having the sense of 1. शक् ‘to be able’ 2. धृष् ‘to make bold’ 3. ज्ञा ‘to know’ 4. ग्लै ‘to be weary’ 5. घट् ‘to strive’ 6. रभ् ‘to begin’ 7. लभ् ‘to get’ 8. क्रम् ‘to set about’ 9. सह् ‘to bear’ 10. अर्ह् ‘to be pleased or to condescend’ 11. अस् ‘to be’. The use of the Infinitive in तुमुन् formed by this rule, differs from that given in sutra (3.3.10). In that sutra the Infinitive had the force of ‘purpose’ and here there is no such force. Moreover in this case there is an upapada in construction, though that upapada is a verb; in rule (3.3.10), there was no such upapada.

Thus शक्नोमि भोक्तुम् ‘I am able to eat’. Similarly जानाति—ग्लायति—घटते—आरभते—लभते—प्रक्रमते—सहते—अर्हति—अस्ति—भवति—or विद्यते भोक्तुम् ‘he knows’, he is wearied, he strives, he begins, he gets, he proceeds, he bears, he condescends or he is, to eat’.

This sutra presents a knotty point. Bhattoji Dikshita says अर्थग्रहणमस्तिनैव सम्बध्यते अनन्तरत्वात् i.e. the sutra gives roots from शक् to अर्ह and roots having the same sense as अस् ‘to be’. But this is hardly consistent with the almost overwhelming evidence of usage. According to Dikshita’s interpretation, पारय ‘to be able’ cannot be used with the Infinitive, but न पारयामि निवेदयितुम् (S. 4), पारयिष्यस्यत्रभवत्यअपरान्दधुम् (M. 3.) are instances from a standard author; similarly विद् ‘to know’ cannot be used with the Infinitive; but न च वेद सम्यग् द्रष्टुम् न सा (R. VI.30) is as good an instance. We must, therefore, suppose that the sutra indicates the existence of an interpretation connecting अर्थ with all the preceding roots; otherwise we shall have to condemn as wrong, all such constructions as those given above. Taking this view I have interpreted the sutra, connecting अर्थ with all the above roots.- Apte’s Composition.

Kashika

शकादिषूपपदेषु अस्त्यर्थेषु वा धातुमात्रात् तुमुन् प्रत्ययो भवति। अक्रियार्थोपपदार्थोऽयमारम्भः। शक्नोति भोक्तुम्। धृष्णोति भोक्तुम्। ग्लायति भोक्तुम्। घटते भोक्तुम्। आरभते भोक्तुम्। लभते भोक्तुम्। प्रक्रमते भोक्तुम्। सहते भोक्तुम्। अर्हति भोक्तुम्। अस्त्यर्थेषु खल्वपि — अस्ति भोक्तुम्। भवति भोक्तुम्। विद्यते भोक्तुम्॥

Siddhanta Kaumudi

एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥

Tattvabodhini

शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् - शकधृष । अयमप्यक्रियार्थोपपदार्थ आरम्भः ।भोक्तुं शक्नोति जानाती॑त्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च गम्यते । ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते ।भोक्तुं घटते॑ इत्यत्र तु भोक्तुमर्हतीति योग्यता ।आरभते भोक्तु॑मित्यत्र भोक्तुं प्रक्रमते = उत्सहते इति भुजेराद्यावस्था ।लभते इत्यत्राऽप्रत्याख्यानम् ।अस्ति भोक्तु॑मित्यादौ तु संभवमात्रम् ।

Padamanjari

अत्रानन्तरेणास्तिशब्देनैवार्थशब्दः सम्बद्ध्यते, शकधृषज्ञानां घटाईयोश्च पृथगुपादानात्, तदाह - शकादिषूपपदेषु अस्त्यर्थेषु वैति । तुमुन् प्रत्ययो भवतीति । भावे । अक्रियार्थोपपदार्थ आरम्भ इति ।’क्रियार्थोपपदे तुमुन्ण्वुलौ’ इत्यादिनैव सिद्धत्वात् । तत्र तावत् शक्नोति भोक्तुम्, धष्णोति, जानातीति भोजने प्रावीण्यं गम्यते । ग्लायति भोक्तुमिति । तत्राशक्तिः । घटतेऽर्हतीति योग्यता । आरभते प्रक्रमत इति । भुजेरेवाद्यावस्था । लभते भोक्तुमिति । अप्रत्याख्यातं भोजनं लभते इत्यर्थः । उत्सहते भोक्तुमिति । भोजने व्याप्रियत इत्यर्थः । अस्ति भोक्तुमिति । भोजनमस्तीत्यर्थः । प्रवीणो भोक्तुम्, कुशलो भोक्तुम्, पटुअर्भोक्तुमित्यादौ पर्याप्तिविवक्षायामुतरसूत्रेण तुमुन् भवति ॥

Nyaas

ननु च तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (3.3.10) इत्येवं शकादिषूपपदेषु तुमुन् सिद्धः, तत् किमर्थोऽयमारम्भ इत्याह - अक्रियार्थोऽयमारम्भः इति। अक्रियार्थेष्वपि शकादिषु तुमुन् यथा स्यादित्येवमर्थोऽयमारम्भः। न हि शक्नोति भोक्तुमित्यादौ क्रियार्थोपपदं गम्यते। किं तर्हि? अर्थान्तरम्, अन्यदेव। इह तावत् - शक्नोति भोक्तुम्, उत्सहते भोक्तुम्, जानाति भोक्तुम् इति प्रावीण्यं गम्यते। ग्लायति भोक्तुम् इति तदशक्तता गम्यते, घटयति भोक्तुम्, अर्हति भोक्तुम् इति तद्योग्यतामात्रम्। आरभते भोक्तुम्, प्रक्रमते भोक्तुम् इति भुजेरेवाद्यावस्थानक्रियान्तरम्। लभते भोक्तुम् इति प्रत्याख्यानम्। अस्ति भोक्तुम् इत्यादौ सम्भवमात्रम्॥

Prakriyasarvasvam

शकादिधातुष्वस्त्यर्थेषु चोपपदेषु धातो: तुमुन् स्यात् । <karika>कर्तुं शक्नोषि धृष्णोषि वक्तुं जानासि मानितुम् । न ग्लायसि रिपून् हन्तुं घटसे हरिमर्चितुम् ।। १८९ ।।</karika> <karika>आरभसे खलु योद्धुं लभसे जेतुं च रक्षितुं क्रमसे । उत्सहसेऽर्थं लब्धुं नार्हसि तमितुं प्रमोदितुं तेऽस्तु ॥ १९० ॥</karika> एवं भवतु इत्यादि । जयं लभसे, रक्षणे प्रयतसे, प्रमोदोऽस्त्वित्त्याद्यर्थाः । शकादि- ष्वप्यर्थग्रहात् वक्तुं प्रगल्भते, वक्तुं वेत्ति, गन्तुं ताम्यतीत्याद्यप्याह दण्डनाथः ॥

Sutra Prayogas

  • बाधितुम् (किरातार्जुनीयम्): शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् इति तुमुन्।

  • लब्धुम् (किरातार्जुनीयम्): शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् इति तुमुन् ।

  • निचायितुम् (किरातार्जुनीयम्): शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् इति तुमुन्प्रत्ययः।

  • स्थातुम् (शिशुपालवधम्): शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् इति तुमुन्प्रत्ययः।

  • वक्तुम् (शिशुपालवधम्): शकघृष- इत्यादिना तुमुन्।

  • कर्तुम् (शिशुपालवधम्): शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् इति तुमुन्।

  • सोढुम-शक्नुवाना (भट्टिकाव्यम्): शक-टप इति तुमुन् ।

  • सहितुं (भट्टिकाव्यम्): शक-धृष इत्यादिना तुमुन् ।

  • गन्तुमुत्साहिनी (भट्टिकाव्यम्): शक - धृप इति तुमुन्।

  • द्रष्टुं (भट्टिकाव्यम्): शक- टप इत्यादिना तुमुन्।