34080: थासस्से¶
Padacheda: थासः | S | 6 | 1 |
से | S | | | 1
Sutrartha¶
टित्-लकाराणाम् विषये आत्मनेपदस्य थास्-प्रत्ययस्य ‘से’ आदेशः भवति ।
‘थास्’ इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य प्रत्ययः । टित्-लकाराणाम् विषये अस्य प्रत्ययस्य से-आदेशः भवति । यथा - 1. वन्द्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् - वन्द् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → वन्द् + थास् [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् ‘थास्’ प्रत्ययः] → वन्द् + शप् + थास् [कर्तरि शप् (3.1.68) इत्यनेन औत्सर्गिकम् गणविकरणम् ‘शप्’ ] → वन्द् + अ + से [थासस्से (3.4.80) इत्यनेन थास्-इत्यस्य से-आदेशः ] → वन्दसे । 2. पच्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् पच् + लुट् [अनद्यतने लुट् इति लुट्] → पच् + तास् + लुट् [स्यतासी लृलुटोः (3.1.33) इति तास्-लकारविकरणप्रत्ययः] → पच् + तास् + थास् [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् ‘थास्’ प्रत्ययः] → पच् + तास् + से [थासस्से (3.4.80) इत्यनेन थास्-इत्यस्य से-आदेशः] → पच् + ता + से [तासस्त्योर्लोपः (7.4.50) इत्यनेन तास्-प्रत्ययस्य सकारस्य सकारादि-प्रत्यये परे लोपः] → पक् + ता + से [चोः कुः (8.2.30) इति कुत्वम् ] →पचिषे
Sutrartha (English)¶
In case of टित्-लकारs, the आत्मनेपद प्रत्यय थास् is converted to ‘से’.
Vasu English Summary¶
The word से is the substitute of थास् in those tenses that have an indicatory ट्।
Vasu English Translation¶
The word से is the substitute of थास् in those tenses that have an indicatory ट्। In the six tenses already mentioned in the last sutra, the Atmanepada थास् is replaced by से, as we have already shown in the preceding table. Thus पचसे, पेचिषे, पक्तासे, पक्ष्यसे ।
Kashika¶
टित इत्येव। टितो लकारस्य यस्थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे॥
Siddhanta Kaumudi¶
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे (SK191) । एधे । एधावहे । एधामहे ॥
Laghu Siddhanta Kaumudi¶
टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥
Balamanorama¶
थासस्से - थासः से । ‘से’ इति लुप्तप्रथमाकम् । एधस इति । थासि शपि थासः सेभावः । एधेथे इति । लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति — अतो गुणे इति ।अतो गुणे॑इति पररूपे वृद्ध्यपवादे कृते सति ‘एधे’ इति रूपमित्यर्थः । एधावहे इति । लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधमह इति । लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिङिति ङकारस्तङ्प्रत्ययार्थः । इति लट्प्रक्रिया ।
Tattvabodhini¶
थासस्से - एकारोच्चारणं ज्ञापनार्थमितिलिटस्तझयो॑रित्यत्र स्फुटीभविष्यति । अतो गुणे इति । इट एत्वे कृते आद्गुणं बाधित्वा वृद्धौ प्राप्तायामनेन पररूपमित्यर्थः ।
Padamanjari¶
पेचिषे इति । लिट्, ठत एकहलमध्येऽ इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह’थः सः’ इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? ठात्मनेपदानाम्ऽ इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते - धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति - पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात्’थासः से’ इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति - आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ॥
Nyaas¶
पेचिषे इति।लिट्, अत एकहल्मध्वेऽनादेशादेर्लिटि (6.4.120) इत्येत्वाभ्यासपोपौ। पक्तासे इति। लुट्, तासिः, तासस्त्योर्लोपः (7.4.50) इति सकारलोपः। पक्ष्यसे इति। लृट्, चोः कुः (8.2.30) इति कुत्वम् - ककारः। अथ थकारमात्रस्यैव सकारादेशः कस्मान्न भवति - थः स इति, थकारस्य सकारे कृते परस्य भागस्य टेरेत्वे सत्यभीष्टं सिध्यत्येव? नैतच्छक्यम्च एवं ह्रार्थाशब्दस्य यस्थकारस्तस्यापि स्यात्। धात्वधिकाराद्धातोर्यो विहित इति विशेषणान्न भवतीति चेत्? न; असम्भवात्। न हि तथाविधस्तकारो धातोर्विहितः सम्भवति। अथ धातोरनन्तरस्यैति विशिष्येत? एवमप्यनादित्व एव परस्य स्यात्, नेतरेभ्यो विकरणेभ्यः; व्यवधानादिति यथान्यासमेवास्तु। टेरेत्त्वेनैव सिद्ध एकारान्तत्वे यदेकारान्तत्वामादेशस्य क्रियते, तत् तिङामादेशानां टेरेत्वं न भवति इति ज्ञापनार्थम्। तेन डारौरस्प्रभृतिषु टेरेत्वं न भवतीति - पक्ता, पक्तारौ, पक्तार इति॥
Prakriyasarvasvam¶
टितो लस्य थासः से स्यात् । भवसे । आथामि आतांवत् । भवेथे । ध्वमष्टेरेत्वम् । भवध्वे । उत्तमपुरुषे—इट् । टेरेत्वम् । भव ए । ‘अतो गुणे’ । भवे । वहिमह्योष्टेरेत्वम् । यञि दीर्घः । भवावहे, भवामहे । एवं भावकर्मणोरपि लट् । तत्र सत्तार्थस्य भुवोऽकर्मकत्वात् भावे ‘भू लट् । अत्र ‘भावकर्मणोः’ इत्यात्मनेपदमेव । तत्रापि भावस्यैकत्वाद् युष्मदस्मत्सामाना- धिकरण्याभावाच्च प्रथमपुरुषैकवचनमेव । भू त । टेरेत्वम् । ‘सार्वधातुके यक्’ (३-१-६७) । कित्त्वाद्गुणः । भूयते कृष्णेन । प्राप्त्यर्थस्य तु सकर्मकत्वात् कर्मणि लट् । अत्र नवापि तङः स्युः । प्राग्वद् यक् । तङुक्तवत्सर्वम् । शप्स्थाने यगित्येव भेदः । भूयते भूयेते भूयन्ते । भूयसे भूयेथे भूयध्वे । भूये भूयावहे भूयामहे । अत्र भूयत इति प्राप्यत इत्यर्थः । <karika>अकर्मकाणां कालाध्वभावदेशेषु कर्मसु । भावे कर्मणि चेच्छन्ति लकारं भाष्यकोविदाः ॥ ६७२ ॥</karika> तेन सत्तार्थस्यापि भुवो मासं भवतीत्यादौ कर्मणि मासो भूयतेऽनेन, मासौ भूयेते, इत्यादि । भावे तु मासं भूयतेऽनेनेत्येव । इति लट् ॥