34071: आदिकर्मणि क्तः कर्तरि च

Padacheda: आदिकर्मणि | S | 7 | 1 |

क्तः | S | 1 | 1 |

कर्तरि | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix क्त also denotes the agent when it expresses a beginning of an action.

Vasu English Translation

The affix क्त also denotes the agent when it expresses a beginning of an action. The word आदिकर्मणि means ‘the beginning of an action’ or when the action signified by the roots, is intended to be expressed merely as having been simply begun. The force of च in the sutra is to indicate that even when the beginning of an action is intended to be expressed, the क्त may be used to denote the act and the object as well. Thus प्रकृतः कटं देवदत्तः here the agent is denoted. प्रकृतः कटो देवदत्तेन; here the object is denoted. प्रकृतम् देवदत्तेन; here mere action is denoted. Similarly प्रभुक्त ओदनं देवदत्तः (agent); प्रभुक्त ओदनो देवदत्तेन (object); प्रभुक्तं देवदत्तेन (act).

Kashika

आदिकर्मणि यः क्तो विहितः, स कर्तरि भवति। चकाराद् यथाप्राप्तं भावकर्मणोः। आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्यायमर्थनिर्देशः। प्रकृतः कटं देवदत्तः। प्रकृतः कटो देवदत्तेन। प्रकृतं देवदत्तेन। प्रभुक्त ओदनं देवदत्तः। प्रभुक्त ओदनो देवदत्तेन। प्रभुक्तं देवदत्तेन।

Siddhanta Kaumudi

आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥

Balamanorama

अदिकर्मणि क्तः कर्तरि च - आदिकर्मणि क्तः कर्तरि च । चाद्भावकर्मणोरिति ।तयोरेव कृत्ये॑त्यतस्तदनुवृत्तेरिति भावः ।प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः॑ इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः ।

Tattvabodhini

अदिकर्मणि क्तः कर्तरि च - आदिकर्मणीति । आद्येषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाऽभावान्निष्ठा न प्राप्नोतीति वचनम्, आदिकर्मणि क्तस्य कर्तरि विधानार्थं चेत्याहुः । चादिति । अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः ।

Padamanjari

कर्मधारयः, कर्मशब्दश्च क्रियावचन इत्याह - आदिभूतः क्रियाक्षण आदिकर्मेति । साधनकर्म तु न गृह्यते, आदिशब्देन विशेषणात् । बहूनां समवाये आदिमध्यान्तभावः, साधनकर्म कत्वेमेवेति कि तत्रादिशब्देन । तस्मिन्नादिकर्मणि भूतत्वेन विवक्षित इति । एतेन’निष्ठा’ इत्यनेनैवादिकर्मणि क्तः सिद्धः, न पुनरादिकर्मणि निष्ठा वक्तव्येति दर्शयति । आद्ये हि क्रियाक्षणे भूते समूहरूपारोपादेकदेशे समूहे चेति न्यायाद्वा धात्वर्थ एव भूतो भवतीति युक्त एव क्तः । प्रकृतः कट्ंअ देवदत इति । प्रारब्धवानित्यथः । प्रकृतं देवदतेनेति । अत्र कर्मणोऽविवक्षितत्वेन धातोरकर्मकत्वाद्भाव एव क्तः । एवं प्रभुक्तं देवदतेनेत्यत्रापि ॥

Nyaas

आदिकर्मणि इति। आदिश्चासौ कर्म चेति विशेषणसमासः। क्रियाक्षणः इति। एतेन कर्मशब्दोक्रियां कर्माचष्टे, न साधनं कर्मेति दर्शयति। कुतः पुनरेतदवसितम् - क्रियां कर्माचष्ट इति? आदिशब्देन विशेषणात्। बहुनां क्रियाक्षणनामादिमध्यान्तभावे सत्यनादिभूतक्रियाक्षमव्यवच्छेदादादिभूतो यः क्रियाक्षणस्तदादिकर्मेति युक्तं प्रतिपादयितुम्। आदिग्रहणेन साधनं कर्म त्वेकमेवेत्यादिशब्देन विशेषयितुं न शक्यते; आदेरनादिभूतत्वापेक्षत्वादादिशब्दस्य तत्राप्रवृत्तिः, व्यवच्छेद्याभावात्। आदिकर्मणि च `भूते (3.2.84) इत्यनुवर्तमाने निष्ठा (3.2.102) इत्यनेनैव विहित इति दर्शयतिन्नाह - तस्मिन् इत्यादि। आद्यो यः क्रियाक्षणः स परिनिष्पन्नत्वाद्भूतो भवतीति युक्ता तस्य भूतत्वेन विवक्षितता। प्रकृतः कटं देवदत्तः इति। कर्तरि क्तः। तेनैव कर्ताऽभिहित इति देवदत्तशब्दात् तृतीया न भवति। कर्मणस्त्वनभिहितत्वात् कटशब्दाद्द्वितीया भवत्येव। प्रकृतः कटो देवदत्तेन इति। अत्र कर्मणि क्तः। तेनैव कर्णणोऽभिहितत्वाद्द्वितीया न भवति। कर्तरनभिहितत्वाद्देवदत्तशब्दात् तृतीया भवत्येव। प्रकृतं देवदत्तेन इति। भावे क्तप्रत्ययः। सर्वत्र प्रशब्द आदिकर्म द्योतयति। ननु चादिभूतक्रियाक्षमकाले कटोऽनभिनिर्वृत्त एव भवति, कटकारणभूता एव पीरणादयस्तदानीं सन्ति, न च तदवस्थः कटः तदवस्थः कटः, तत्कथं प्रकृतः कट इति भूतकालेन प्रकृतशब्देन कटस्य सामानाधिकरण्यम्? आद्येन क्रियाक्षणेन यो वीरणादीनां विशेष आहितस्तत्र तादथ्र्यात् कटशब्दो वर्तते, स च भूत एवेत्यदोषः॥

Prakriyasarvasvam

आरम्भार्थे क्तस्तु कर्तरि भावकर्मणोश्च स्यात् । <karika>प्रभुक्तो गोरसं कृष्णः प्रयुक्तोऽनेन गोरसः । प्रक्रीडितो वने शौरिः प्रक्रीडितमिहामुना ।। ९८ ।।</karika>

Sutra Prayogas

  • आशिताः (भट्टिकाव्यम्): आदिकर्मणि क्तः कर्तरि च इति कर्तरि क्तः ।

  • प्रगदिता (भट्टिकाव्यम्): आदिकर्मणि क्तः इति क्तप्रत्ययः।