34060: तिर्यच्यपवर्गे

Padacheda: तिर्यचि | S | 7 | 1 |

अपवर्गे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affixes क्तवा and णमुल् come after the root कृ ‘to make’ when the word त्रियक् is in composition in the sense of ‘carrying to the end’.

Vasu English Translation

The affixes क्तवा and णमुल् come after the root कृ ‘to make’ when the word त्रियक् is in composition in the sense of ‘carrying to the end’. The word अपवर्ग means ‘completing or finishing’. Thus तिर्यक् कृत्य, तिर्यक् कृत्वा or तिर्यक्कारं गतः - समाप्य गतः ‘having completed, he went away’.

Why do we say ‘when meaning completion’? Observe तिर्यक् कृत्वा काष्ठं गतः ‘having placed the wood obliquely, he went away’. Here णमुल् is not employed. See (2.2.22) for compounding. The word तिर्यचि is the locative of the word-form तिर्यच्, and not of the word तिर्यच् । Other examples are: एतदोश् (5.3.5); अदसो मात् (1.1.12).

Bhashya

तिर्यच्यपवर्गे (1221) (602 क्त्वाणमुल्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आदृ 14) (आक्षेपभाष्यम्) अयुक्तोयं निर्देशः। तिरश्चीति भवितव्यम्॥ (समाधानभाष्यम्) सौत्रो निर्देशः॥ तिर्यच्य॥ 60 ॥

Kashika

तिर्यक्शब्द उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतोऽपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः। तिर्यक् कृत्वा गतः। तिर्यक्कारं गतः। समाप्य गत इत्यर्थः। अपवर्ग इति किम्? तिर्यक् कृत्वा काष्ठं गतः। तिर्यचीति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्। एतदोऽश्**(२.४.३३), **अदसो मात् (१.१.१२) इति॥

Siddhanta Kaumudi

तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥

Tattvabodhini

तिर्यच्यपवर्गे - तिर्यक्कृत्वेति । अनृजुत्वादग्रतः स्थितं पार्ातः कृत्वा गत इत्यर्थः ।

Padamanjari

तिर्यवकृत्येति । तिरोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्,’तिरसस्तिर्यलोपे’ इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः ।’तिर्यचि’ इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, ठचःऽ इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह - तिर्यचीति शब्दानुकरणमेतदिति । ठचऽ इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; ठभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताःऽ इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एततु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि’प्रकृतिबदनुकरणं भवति’ इति लोपः प्राप्नोत्येवात आह - न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह - अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्ट्ंअ तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह - एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवतिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्तव्य पवायम् ? कथम् ?’यतदेतेभ्यः’ इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि ठव्यक्तानुकरणस्यात इतौऽ इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम् - सौत्रो निर्देश इति ॥

Nyaas

तिर्यक्कृत्वा इति। तिरोऽञ्चतीति ऋत्विगादिना (3.2.59) क्विन्। झलां जशोऽन्ते (8.2.39) इति चकारस्य जकारे कृते क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम् - गकारः, तस्यापि चर्त्वम् - ककारः, तिरसस्तिर्यलोपे (6.3.94) इति तिर्यादेशः। तिर्यक्कृत्वा `{काष्ठं इति मूलपाठः} काण्डं गतः`इति। अनृजृ कृत्वा। पार्(ातः कृत्वेत्यर्थः।अथ `तिर्यचि कोऽयं निर्देशः, यावता भसंज्ञायां सत्यां अचः (6.4.38) इत्यकारलोपे कृते तिरश्चीति भवितव्यमित्यत आह - तिर्यचि इत्यादि। सर्वत्र ह्रनुकरणभूतशब्दः शब्दस्वरूपस्यैवानुकरणम्। एतावांस्तु विशेषः - क्वचिच्चब्दपदार्थस्यानुकरणम्, क्वचिदर्थस्येति। तत्रानुकरणमित्येतावपि वक्तव्ये शब्दरूपग्रहणं शब्दरूपमात्रस्यार्थरहितस्यैतदनुकरणमिति ज्ञापनार्थम्। तदेतदुक्तं भवति - शब्दपदार्थको यस्तिर्यक्छब्दस्तस्येदमनुकरणम्, न तु स एव। तेन शब्दान्तरत्वादकारलोपो न भवतीति भावः। नन्वेवमपि प्रकृतिवदनुकरणं भवति`(व्या।प।113) इति भवितव्यमेवात्र प्रकृतिकार्येणाकारलोपेन? इत्यत आह - `न च इत्यादि। अत्रैवोपपत्तिमाह - अनुक्रियमाणरूपविनाशप्रसङ्गात् इति। यद्यत्र प्रकृतिकार्यं स्यात् ततो यादृशमनुकरणं तिर्यगिति शब्दरूपं तस्य विनाशोऽनुपलब्धिः स्यात्। यादृशमनुकर्त्तुमिष्टमकृताकारलोपं तादृशं न प्रतीयेतेत्यर्थः। यतएवं प्रकृतिवदनुकरणभावे सत्येष दोष आपतति, ततोनेह प्रकृतिवदनुकरणेन भवितव्यम्। प्रकृतिवदनुकरणं भवति (व्या।प।113) इत्यस्य तु यत्रार्थपदार्थस्यानुकरणं सोऽवकाशो वेदितव्यः। क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह - एतदोऽश् इत्यादि। एतदोऽदस इत्युभयमप्येतच्छब्दरूपपदार्थकस्यानुकरणम्। यदि च शब्दपदार्थकस्य यदनुकरणं तस्यापि प्रकृतिभावः स्यात्, तदा त्यदाद्यत्वादिके प्रकृतिकार्ये कृते - एतस्य, अमुष्येति रूपं स्यात्। तस्याद्यथेह प्रकृतिभावो न भवति,तथातिर्यचीत्यत्रापि॥