34079: टित आत्मनेपदानां टेरे¶
Padacheda: टितः | S | 6 | 1 |
आत्मनेपदानाम् | S | 6 | 3 |
टेः | S | 6 | 1 |
ए | S | | | 1
Sutrartha¶
टित्-लकाराणाम् विषये आत्मनेपदस्य प्रत्ययस्य टि-संज्ञकस्य ए-आदेशः भवति ।
येषाम् लकाराणाम् नाम्नि इत्संज्ञकः टकारः आगच्छति, ते टित्-लकाराः । एते षट् सन्ति - लट्, लिट्, लुट्, लृट्, लेट्, लोट् । एतेषाम् लकाराणाम् ये आत्मनेपदस्य प्रत्ययाः सन्ति, तेषां टि-संज्ञकस्य वर्तमानसूत्रेण एकारादेशः भवति । यथा - 1. वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - वन्द् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → वन्द् + त [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘त’ प्रत्ययः] → वन्द् + शप् + त [कर्तरि शप् (3.1.68) इत्यनेन औत्सर्गिकम् गणविकरणम् ‘शप्’ ] → वन्द् + अ + ते [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन त-प्रत्ययस्य यः टिसंज्ञकः अकारः तस्य एकारादेशः] → वन्दते । 2. लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् - लभ् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → लभ् + इट् [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् ‘इट्’ प्रत्ययः] → लभ् + शप् + इ [कर्तरि शप् (3.1.68) इत्यनेन औत्सर्गिकम् गणविकरणम् ‘शप्’ ] → लभ् + अ + ए [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन इ-प्रत्ययस्य यः टिसंज्ञकः इकारः तस्य एकारादेशः] → लभे [अतो गुणे (6.1.97) इति पररूप-एकादेशः] 3. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [परोक्षे लिट्**(3.2.115) इति लिट्] → पच् पच् + लिट् [**लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → प पच् + आताम् [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुष-द्विवचनस्य विवक्षायाम् ‘आताम्’ प्रत्ययः] → पेच् + आताम् [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेच् + आते [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन आताम्-प्रत्ययस्य यः टिसंज्ञकः ‘आम्’, तस्य एकारादेशः] → पेचाते
Sutrartha (English)¶
In case of टित्-लकारs, the ‘टि’ of the आत्मनेपद प्रत्ययs is converted to ‘ए’.
Vasu English Summary¶
The substitute ए replaces he last vowel, with the consonant that follows it, of the आत्मनेपद substitutes of that ल which has an indicatory ट्।
Vasu English Translation¶
The substitute ए replaces he last vowel, with the consonant that follows it, of the आत्मनेपद substitutes of that ल which has an indicatory ट्। The ल or the tense-affixes that have an indicatory ट् are six:- लट्, लिट्, लुट्, लृट्, लोट्, लेट् । In these tenses the final portion called टि of the Atmanepada affixes is changed into ए । Thus त becomes ते, आताम् becomes आते, झ becomes झे &c, as shown in the foregoing table.
The affixes शानच्, and कानच् are also Atmanepada affixes. Why are not their finals changed into ए as in पचमानः, यजमानः? Because the word आत्मनेपदानां in the sutra refers by context to the Atmanepada affixes included in the Pratyahara तिङ् ।
Bhashya¶
टित आत्मनेपदानां टेरे (1240) (608 टेरेत्वादेशविधिसूत्रम्॥ 3 । 4 । 1 आ.20 ॥) (5067 आक्षेपवार्तिकम्॥ 1 ॥) - टित एत्वे आत्मनेपदेष्वान प्रतिषेधः- (भाष्यम्) टित एत्वे आत्मनेपदेष्वानस्य प्रतिषेधो वक्तव्यः। पचमानः। यजमानः। टित इत्येत्वं प्राप्नोति॥ (4068 वार्तिकम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्?। ज्ञापकं वा सानुबन्धकस्यादेशवचनमित्कार्याभावस्य इति॥ (समाधानबाधकभाष्यम्) नैतदस्त्युक्तम्। एवं किल तदुक्तं स्यात्। (उक्तसमाधानसञ्ञ्जनार्थं सामानाधिकरण्यान्वयप्रदर्शकभाष्यम्) यद्येवं विज्ञायते - टित् आत्मनेपदं टिदात्मनपदं टिदात्मनेपदानामिति। तच्च न। (वैयधिकरण्यान्वयाङ्गीकारभाष्यम्) टितो लकारस्य यान्यात्मनेपदानीत्येवमेतद्विज्ञायते॥ (सामानाधिकरण्यान्वये दूषणभाष्यम्) अवश्यं चैतदेवं विज्ञेयम्। टित् आत्मनेपदं टिदात्मनेपदं टिदात्नेपादानामिति हि विज्ञायमाने अकुर्वि इत्यत्रापि प्रसज्येत॥ (प्रसक्त्यनुपपत्तिभाष्यम्) नैष टित्। कस्तर्हि?। ठित्। स चावश्यं ठित् कर्तव्यः। आदिर्मा भूदिति। (आक्षेपभाष्यम्) कथम् इटोत्इति॥ (उत्तरभाष्यम्) इठोत् इति वक्ष्यामीति॥ (ठित्करणावश्यकत्वभाष्यम्) तच्चावश्यं वक्तव्यम्। पर्यवापाद्यस्य मा भूत् - लविषीष्ट। (ठित्करणदूषणभाष्यम्) इह तर्हि इषमूर्जमहमित आदीति आऽतो लोप इटि च इत्याकारलोपो न प्राप्नोति। तस्माटि्टदेषः॥ (आक्षेपभाष्यम्) आदिस्तर्हि कस्मान्न भवति। (समाधानभाष्यम्) सप्तदशादेशाः स्थानेयोगत्वं प्रयोजयन्ति तानेको नोत्सहते विहन्तुमिति कृत्वा आदिर्न भविष्यति॥ (प्रश्नभाष्यम्) पर्यवपाद्यस्य तर्हि कस्मान्न भवति - लविषीष्टेति?। (समाधानभाष्यम्) असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण इति। (समाधानभाष्यम्) इदं तर्ह्युक्तम् - प्रकृतानामात्मनेपदानामेत्वं भवतीति। के च प्रकृताः?। तादयः॥ (भाष्यम्) आने मुग्ज्ञापकं त्वेत्वे, टित्तङामिशिसीरिचः। डारौरः सु, टिदटितः, प्रकृते तद्, गुणे कथम्॥ टित आत्मने॥ 79 ॥
Kashika¶
टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति। तथा चैवोदाहृतम्। इह कस्माद् न भवति — पचमानो यजमानः? प्रकृतैस्तिबादिभिरात्मनेपदानि विशेष्यन्ते॥
Siddhanta Kaumudi¶
टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥
Laghu Siddhanta Kaumudi¶
॥ अथ आत्मनेपदिनः ॥ {$ {! 1 एध !} वृद्धौ $} (धातुपाठे (01.0002)) ॥ टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥
Balamanorama¶
टित आत्मनेपदानां {टे}रे - टित आत्म । टेः - ए इति च्छेदः । लस्येत्यधिकृतं । तदाह — टितो लस्येति ।आदेशाना॑मिति शेषः । अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशेटित आत्मनेपदाना॑मिति आम एत्वे, शपि एध — आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह — सार्वधातुकमपित् । ‘गाङ्कुटादिभ्य’ इत्यतो ङिदित्यनुवर्तते । अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते । तदाह — ङिद्वदिति ।
Tattvabodhini¶
टित आत्मनेपदानां {टे}रे - ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इतय्त्र टेरेत्वेन भवितव्यमिति चेत् । अत्राहुः — प्रकृतैस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः । एवं तुटितस्तङां टेरे॑ इत्येव वक्तुमुचितमिति ।
Padamanjari¶
टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति - तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः’पूङ्यजोः शानन्’ तस्यायं निर्देशः स्याद् - वयमानः, यजमान इति ॥
Prakriyasarvasvam¶
टिल्लकारस्य तङो टेरेत्वं स्यात् । शब्गुणौ । भवते । भू आताम् । टेरेत्वम् । शब्गुणौ । भव आते । सार्वधातुकमपित्’ इत्यातामो ङित्त्वे—