34074: भीमादयोऽपादाने¶
Padacheda: भीमादयः | S | 1 | 3 |
अपादाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The words भीम etc. are irregularly formed and denote ablation.
Vasu English Translation¶
The words भीम etc. are irregularly formed and denote ablation. These words are formed by Unadi affixes. Thus भी + मक् = भीम (Un. I.145.148); भी + षुक् + मक् =भीष्म (Un. I.148) &c. By the next sutra, Unadi words do not denote ordinarily the recipient and the ablation.
The present sutra makes them do so in the case of भीमादि words. The following is a list of Bhimadi*words :- भीमः, भीष्मः, भयानकः (*Un. III.82), वरुः, चरुः, (Un. I.7), भूमिः (Un. IV. 45), रजः (Un. IV. 217), संस्कारः, सङ्क्रन्दनः, प्रपतनः, समुद्रः, स्रुचः, or स्रुवः (Un. II.61),स्रक् (Un. II.62) खलतिः ।
Kashika¶
भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते। श्याधूसूभ्यो मक्**(प०उ० १.१४५) **भियः षुग् वा**(प०उ० १.१४८) इत्येवमादयः। **ताभ्यामन्यत्रोणादयः (३.४.७५) इति पर्युदासे प्राप्ते निपातनमारभ्यते। भीमः। भीष्मः। भयानकः। वरुः। चरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुवः। स्रुक्। खलतिः॥
Siddhanta Kaumudi¶
भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥
Tattvabodhini¶
भीमादयोऽपादाने - भीमः । भीष्म इति ।भियो हेतुभये षु॑गिति मप्रत्ययसंनियोगेन वैकल्पिकः षुक् । प्रस्कन्दत्स्मादिति प्रस्कन्दनः । अपादाने ल्युट् । प्ररक्षत्यस्मादिति प्ररक्षः । पचाद्यच् । मुह्रत्यस्मादिति मूर्खः ।मुहेः खो मूर्च॑ । स्खलत्यस्मादिति खलतिर्निष्केशशिरा इति प्रागुक्तम् । ताभ्यामितीति ।ताभ्या॑मित्यनुक्तौ तु सन्निहिताऽपादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थः स्यादिति भावः । ततोऽसाविति । तनोतेः कर्तरि क्तः ।अनुदात्तोपदेशे॑त्यनुनासकिलोपः । असौ ततो भवति = विस्तृतो भवतीत्यर्थे तनोतेस्तुन् । वृत्तमिति । गमनादिना निष्पन्नं यत्तद्वत्र्म । वृतेः कर्मणि मनिन् ।अयनं वत्र्ममार्गाऽध्वे॑त्यमरः ।
Padamanjari¶
उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वाताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावतत्र वक्तव्यः - ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ॥
Nyaas¶
{उणादिप्रत्ययान्ता एते - काशिका} ऊणादिप्रत्यया एते`। इति। उणादयः प्रत्यया येषां ते तथोक्ताः। के पुनस्त उणादयः प्रत्ययाः? इत्यत आह - श्याधूसूभ्यो मक् इत्यादि। आदिशब्देन मङ्क्वन्नादीनां ग्रहणम्। यदि तर्ह्रुणादिप्रत्यया एते, एवं सत्युणादिप्रत्ययानां रूढिशब्दात् क्रियाकारकसम्बन्धाभावादपादाने वृत्तिर्न सम्भवत्येव? नैष दोषः; रूढिशब्देष्वपि केषाञ्चित् क्रियाकारकसम्बन्धोऽस्त्येव, यथा - तैलपायिकादिषु। अतोऽदेश्यमेतत्। ताभ्याम् इत्यादि। ननु चासत्यस्मिन् सूत्रे ताभ्यामित्येष निर्देशो नोपपद्यते; अपादानस्याप्रकृतत्वात्, तत्कुतः पर्युदासस्य प्रसङ्गः? नैष दोष-; अर्थकत्वमेतत्। अस्मिन् ह्रसति तत्रैवं सूत्रं कर्तव्यम् - ततोऽपादानाच्चान्यत्रोणादय इति। तथा च यदीदं नोच्येत,तदा स्यादेव पर्युदासः॥
Prakriyasarvasvam¶
बिभेत्यस्मादिति भीमः भीष्मः भयानकः । स्रवत्यस्मादिति स्रुवः स्रुक् इत्यादि ॥ इति वर्तमानाधिकाराः ॥
Sutra Prayogas¶
भीमताम् (शिशुपालवधम्): भीमादयोऽपादाने इति निपातनादपादानार्थता।
भीष्मो (भट्टिकाव्यम्): भीमादयोऽपादाने इति अपादाने साधुः।