34064: अन्वच्यानुलोम्ये

Padacheda: अन्वचि | S | 7 | 1 |

आनुलोम्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affixes क्तवा and णमुल् come after the root भू ‘to be’ when the word अन्वक् in the sense of being favourably disposed, is in composition.

Vasu English Translation

The affixes क्तवा and णमुल् come after the root भू ‘to be’ when the word अन्वक् in the sense of being favourably disposed, is in composition. The word आनुलोम्य means ‘agreeable, friendly or favourably disposed, or doing according to the wish of another’. Thus अन्वग्भूय—अन्वग्भूत्वा or अन्वग् भावमास्ते ‘he is favourably disposed’.

Why do we say ‘when meaning friendly’ ? Observe अन्वग्भूत्वा तिष्ठति ‘he remains behind’.

Bhashya

अन्वच्यानुलोम्ये (1225) (604 क्त्वाणमुल्प्रत्ययविधिसूत्रम् ॥ 3 । 4 । 1 . 16) (आक्षेपभाष्यम्) अयुक्तोयं निर्देशः। अनूचीति भवितव्यम्। (समाधानभाष्यम्) सौत्रोयं निर्देशः ॥ अन्वच्या ॥ 64 ॥ (अव्ययकृतः समाप्ताः)

Kashika

अन्वक्शब्द उपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यमनुलोमता, अनुकूलत्वम्, परचित्तानुविधानम्। अन्वग्भूयास्ते। अन्वग् भूत्वास्ते। अन्वग्भावमास्ते। आनुलोम्य इति किम्? अन्वग् भूत्वा तिष्ठति॥

Siddhanta Kaumudi

अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥

Tattvabodhini

अन्वच्यानुलोम्ये - अन्वच्या । नन्विहअचः॑ इत्यकारलोपेच्वौ॑ इति पूर्वस्याऽणो दीर्घऽनूचीति निर्देष्टुमुचितम् ।द्युप्रागपागि॑ति सूत्रेप्रतीचोय॑दितिवतो । एवंतिर्यच्यपवर्गे॑ इति सूत्रेऽपितिरश्ची॑त्येव निर्देष्टुमुचितमिति चेत् । अत्र केचित् — शास्त्रोक्तं कार्यमर्थवत्येव भवति । अर्थश्च लोके प्रसिद्ध एव गृह्रते ।अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः॑ इति न्यायात् । अतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति । तच्चिन्त्यम् । एवं तर्हिक्षियो दीर्घात् इत्यादावियङादिकं न स्यात् ।प्रतीचो य॑दित्यपि न सिध्येदिति । वस्तुतस्तुप्रकृतिवदनुकरण॑मित्यस्य वैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषखः । वैकल्पिकत्वं चयत्तदेतेभ्यः॑ इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम् । अग्रत इत्यादि । अन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम् । पृष्ठतो भूत्वत्यर्थ इति । इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यते, तस्य देशविशेषमात्र पर्यवसानात् । प्रमाणान्तरेण क्वचिदिहानुकूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या । इत्युत्तरकृदन्तम् ।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणसेवकज्ञानेन्द्रसरस्वतीकृतायां सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां कृदन्तं समाप्तम् । समाप्ता चेयं तत्त्वबोधिनी ।

Padamanjari

अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ॥

Nyaas

अन्वचि इति निर्देशस्तिर्यचीत्यनेन व्याख्यातः। `अन्वग्भूय`इति। पूर्ववत् क्विनि कृते तदन्तस्य जश्त्वे कृते च रूपम्। `अन्वग्भूत्वाट इति। अनुचरो भूत्वा तिष्ठतीत्यर्थः॥

Prakriyasarvasvam

अन्वग्भावम् । अन्वग्भूय । असमासोऽपि । अनुकूलों भूत्वेत्यर्थ: ।।

Sutra Prayogas

  • अन्वग्-भावं (भट्टिकाव्यम्): अन्वच्यानुलोम्ये इति अन्वक्पूर्वाद्भवते: णमुल्।