34062: नाधाऽर्थप्रत्यये च्व्यर्थे

Padacheda: ना-धा-अर्थप्रत्यये | S | 7 | 1 |

च्व्यर्थे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affixes क्तवा and णमुल् are added to the roots कृ ‘to make’ and भू ‘to be’, when a word ending in the affix ना – विनञ्भ्यां नानाञौ नसह (5.2.27), or in an affix having the force of धा – संख्याया विधाऽर्थे धा (5.3.42), or having the sense of the affix च्वि ‘to make or to become something with it had not been before’ – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50), is in composition.

Vasu English Translation

The affixes क्तवा and णमुल् are added to the roots कृ ‘to make’ and भू ‘to be’, when a word ending in the affix ना – विनञ्भ्यां नानाञौ नसह (5.2.27), or in an affix having the force of धा – संख्याया विधाऽर्थे धा (5.3.42), or having the sense of the affix च्वि ‘to make or to become something with it had not been before’ – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50), is in composition. Two words, नाना ‘various’ and विना ‘without’ are formed by the affix ना (5.2.27); affixes having the force of धा are धा, ध्यम्, धम् and एधा (5.3.42) to (5.3.46) which are added to numerals in the sense of ‘part’ or ‘fold’ &c. The force of chvi has already been explained.

Thus अनाना नाना कृत्वा गतः = नाना कृत्य गतः Similarly नाना कृत्वा or नानाकारं गतः । So also विना कृत्य, विना कृत्वा or विना कारं गतः । So also नाना or विना भूय-भूत्वा or भावं गतः । With words formed by धा and cognate affixes, we have:- द्विधा or द्वैधं कृत्य—कृत्वा—कारं—भूय—भूत्वा or भावं गतः । But not so in हिरुक् कृत्वा, पृथक् कृत्वा ।

Why do we use the word ‘affix (प्रत्यय)’ in the sutra? Without it, the sutra would have run thus: नाधार्थे च्व्यर्थे, and then any word, having the sense of ना, which has the force of ‘except’, ‘various’ or the sense of धा which means ‘part or fold’, when in composition with कृ or भू, would have taken the affix णमुल् and क्त्वा. But that is not so. Thus the words हिरुक् ‘except’ and पृथक् ‘separately’ have the sense of ना and धा respectively; as हिरुक्कृत्वा, or पृथक् कृत्वा ।

Why do we say ‘when the upapada has the force of the affix chvi’? Observe नाना कृत्वा काष्ठानि गतः ।

The word अर्थ in नाधार्थ qualifies only the term धा, and not ना, for there are no other affix having the sense of ना, which is a single affix taught in (5.2.27); while, as shown above, there are other affixes having the force of धा । The composition optionally takes place by (2.2.22).

Bhashya

नाधार्थप्रत्यये च्व्यर्थे (1223) (603 क्त्वाणमुल्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आ.15) (आक्षेपभाष्यम्) अर्थग्रहणं किमर्थम्?। (समाधानभाष्यम्) नाघाप्रत्यय इतीयत्पुच्यमाने इहैव स्यात् - द्विघाकृत्य। इह च न स्यात् - द्वैधं कृत्य। अर्थग्रहणे पुनः क्रियमाणे न दोषो भवति। नाधाप्रत्यये च सिद्धं भवति। यश्चान्यस्तेन समानार्थः। (आक्षेपभाष्यम्) अथ प्रत्ययग्रहणं किमर्थम्?। (समाधानभाष्यम्) इह हि मा भूत् - हिरुक् कृत्वा पृथक् कृत्वा॥ नाधार्थ॥ 62 ॥

Kashika

नार्थो धार्थश्च प्रत्ययो यस्मात् स एवमुच्यते। नाधार्थप्रत्यये शब्दे च्वयर्थ उपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। अनाना नाना कृत्वा गतः, नानाकृत्य गतः। नाना कृत्वा गतः। नानाकारं गतः। विनाकृत्य गतः। विना कृत्वा गतः। विनाकारं गतः। नानाभूय गतः। नानाभूत्वा गतः। नानाभावं गतः। विनाभूय गतः। विना भूत्वा गतः। विनाभावं गतः। द्विधाकृत्य गतः। द्विधा कृत्वा गतः। द्विधाकारं गतः। द्विधाभूय गतः। द्विधा भूत्वा गतः। द्विधाभावं गतः। द्वैधंकृत्य गतः। द्वैधं कृत्वा गतः। द्वैधंकारं गतः। द्वैधंभूय गतः। द्वैधं भूत्वा गतः। द्वैधंभावं गतः। प्रत्ययग्रहणं किम्? हिरुक् कृत्वा। पृथक् कृत्वा। च्व्यर्थ इति किम्? नाना कृत्वा काष्ठानि गतः। धार्थमर्थग्रहणम्, ना पुनरेक एव **विनञ्भ्यां नानाञौ०**(५.२.२७) इति॥

Siddhanta Kaumudi

नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥

Tattvabodhini

नाधाऽर्थप्रत्यये च्व्यर्थे - नार्धार्थ । नार्थौविनञ्भ्या॑मिति विहितौ नानाञौ । धार्थाः — द्वित्र्योश्च धमुञादयः ।सङ्ख्याया विधार्थे धे॑ति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति — एकधाभूयेत्यादि । एवं द्वैधङ्कृत्य द्वैधम्भूय द्वैधम्भावमित्याद्युदाहर्तव्यम् । ननु नानाञौ प्रत्ययौ, धा च प्रत्ययः, धमुञादिविधौ तुएकाद्धो ध्यमुञ्यन्यतरस्या॑मित्यतोध॑ इत्यनुवर्त्त्यतेषामादेशत्वाऽश्रयणेऽपि स्थानिवद्भावेन धमुञादिर्धाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्यक्षिपति — प्रत्ययग्रहणमिति । यद्यप्युक्तरीत्या धाग्रहणेन धमुञादेग्र्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थं, तथापिधमुञन्तात्सवार्थे डदर्शन॑मिति डप्रत्ययान्तसङ्ग्रहार्थमर्थग्रहणं, तत्फलं । तु द्वैधीकृत्येत्यादिप्रयोगः ।

Padamanjari

नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ।ल विग्रहः कर्तव्यः - नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति ।’विनञ्भ्यां नानाञौ नसह’ इति नानाञौ । द्विधाकृत्येति ।’सङ्ख्याया विधार्थे धा’ । द्वैधंकृत्येति ।’द्वित्र्योस्च धमुञ्’ । हिरक्पृथक्शब्दौ विनार्थे । नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः’धमुञन्तात्स्वार्थे डदर्शनम्’ इति तदर्थमर्थग्रहणम् - द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह - ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः - निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते - तन्त्रावृत्यैकशेषाणामन्यतमस्याश्रयणातस्यापि भविष्यति ॥

Nyaas

नार्थो धार्थश्च इति। नाप्रत्ययसहचरितोऽर्थो ना इत्युच्यते, धाप्रत्ययसहचरितश्च धा इति। नाऽर्थो यस्य प्रत्ययस्य स नार्थः धाऽर्थो यस्य प्रत्ययस्य स धार्थ इति। द्विधाकृत्य इति। संख्याया विधार्थे धा (5.3.42) । द्वैधं कृत्वा इति। द्वित्र्योस्च धमुञ् (5.3.45) इति धमुञ्। द्वेधाकृत्य इति। एधाच्च (5.3.46) इत्येधाच्।हिरुक् कृत्वा, पृथक् कृत्वा इति। असति प्रत्ययग्रहणे हिरुक्पृथक्शब्दयोरसहार्थत्वात् नार्थत्वनमस्तीति तयोरप्युपपदयोः क्त्वाणमुलौ स्याताम्। पूर्वसूत्रादेव प्रत्ययग्रहणानुवृत्त्या सिद्धे पुनरिह प्रत्ययग्रहणं सुखप्रतिपत्त्यर्थम्। पूर्वकं हि प्रत्ययग्रहणं समासैकदेशत्वाद्यत्नानुवृत्तं स्यात्। नाना कृत्वा काष्ठानि गतः इति। च्व्यर्थोऽत्र नास्ति; प्रकृत्यन्यावस्थाया अविवक्षितत्वात्। धार्थमर्थग्रहणम् इति। धाप्रत्ययोऽर्थः प्रयोजनं यस्य तत् तथोक्तः। धार्था हि प्रत्यया बहवः,तत्रसत्यर्थग्रहणे धाप्रत्ययस्यैव ग्रहणं स्यात्, नान्येषां तदर्थानाम्। अथग्रहणे तु सति तेषामपि ग्रहणं भवति। अथ नार्थमप्यर्थग्रहणं कस्मान्न भवति? इत्याह - ना पुनरेक एव इति। अर्थग्रहणं हि तत्र क्रियते यत्र बहवो ग्राह्राः सम्भवन्ति, नाप्रत्ययस्त्वेक एव,तस्य चार्थग्रहणमन्तरेण सिध्यतीति न तदर्थमर्थग्रहणम्। ननु च घमुञादीनामपि स्थानिवद्भावादेव धाग्रहणेन ग्रहणं भविष्यति, अतोधार्थमप्यर्थग्रहणमयुक्तम्? नैष दोषः; अघादेशोऽपि धार्थप्रत्ययोऽस्ति, घमुञन्तात् स्वार्थे डदर्शनम् (व्या।प।610) इति वचनात्। तस्माद्धार्थमर्थग्रहणं कर्त्तव्यम्।वयं तु ब्राऊमः - नार्थमप्यर्थग्रहणं कर्तव्यमेव। तथा हि - द्वौ नाप्रत्ययौ; एको निरनुबन्धकः, द्वितीयः सानुबन्धकः। तत्रासत्यर्थग्रहणे निरनुबन्धग्रहणे न सानुबन्धकस्य (व्या।प।53) इति नाप्रत्ययस्यैव ग्रहणं स्यात्, न सानुबन्धकस्य नाञः। अर्थग्रहणे तु सति तस्यापि ग्रहणं भवति॥

Prakriyasarvasvam

च्व्यर्थवति नाधार्थप्रत्ययान्ते उपपदे कृष्वोरुभौ स्तः । विनाकारम् । विनाकृत्य । विनाभावम् । विनाभूय । द्वयोरसमासे ऊह्य: । अविनाभूतं विना कृत्वेति च्व्यर्थ: । एवं नानाकारं नानाभावमित्यादि । धार्थे द्विधाकारम् । द्विधाकृत्य । द्विधाभावम् । द्विधाभूय । असमासश्च । एवं द्वेधाकारम् द्वैधङ्कारम् ऐकध्यङ्कारमिति । धमुञ्नो डे कृतेऽप्येवं भवेदिति हरादयः । द्वैतङ्कारं द्वैधङ्कृत्य द्वैधम्भावमितीक्ष्यताम् ।। १८८ ।। द्विधा भूता द्वैधा: असमासे द्वैधान् कारं द्वैधानि कृत्वा द्वैधानि भावमिति ।।