34075: ताभ्यामन्यत्रोणादयः¶
Padacheda: ताभ्याम् | S | 5 | 2 |
अन्यत्र | S | 0 | 0 |
उणादयः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The words formed by उणादि affixes denote other ideas other than these two - 1. Reciepient 2. Ablation.
Vasu English Translation¶
The words formed by उणादि affixes denote other ideas other than these two - 1. Reciepient 2. Ablation. The Unadi affixes being a subdivision of krit affixes, would have, by rule (3.4.67), denoted the agent. By the present sutra they are made to denote the object, the instrument and the location also. The word ताभ्यां has been used in the sutra in order to include the word sampradana also. For, had the sutra been अन्यत्रोणादयः, only the Apadana karaka would have been excluded, as being the nearest; but not so the Sampradana karaka. Thus कृषितोऽसौ = कृषिः (Un. IV. 120) ‘agriculture i.e. what is ploughed’ (object); तन्यत इति = तन्तुः (Un. 1.69) ‘a thread i.e. what is drawn out’; वृत्तमिति वर्त्म (Un. IV. 145) ‘a way i.e. what is established’; चरितं = चर्म (Un. IV. 145) ‘skin’ (in which they live).
Kashika¶
उणादयः शब्दास्ताभ्यामपादानसंप्रदानाभ्यामन्यत्र कारके भवन्ति। कृत्त्वात् कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते। ताभ्यामिति संप्रदानप्रत्यवमर्शार्थम्। अन्यथा ह्यपादानमेव पर्युदस्येत, अनन्तरत्वात्। कृषितोऽसौ कृषिः। तनित इति तन्तुः। वृत्तमिति वर्त्म। चरितं चर्म॥
Siddhanta Kaumudi¶
सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥
Padamanjari¶
ननु च ठन्यत्रोणादयःऽ इत्यप्युक्ते प्रकृतत्वादेव ताभ्यामन्यत्रेति विज्ञास्यते ? अत आह - सम्प्रदानार्थ इति । कृषित इत्यादिना कर्मणि वृत्तिं दर्शयति । अत्रेडागमश्चिन्त्यः । एवं तनित इत्यत्राअपि । केचिदाहुः -‘यस्य विभाषा’ इतीट्प्रतिषेधोऽनित्यः, कृतिनृत्योरीदित्करणात् । तद्धि’श्वीदितो निष्ठायाम्’ इतिट्प्रतिषेधार्थं क्रियते तत्र’से’ सिचि कृतिऽ इति विभाअषितेट्त्वादेव’यस्य विभाषा’ इतीट्प्रतिषेधो भविष्यतीति किमीदित्करणेन । अपर आह - चुरादावदन्तौ कृपितनी पठितव्याविति ॥
Nyaas¶
अथ किमर्थं ताभ्यामित्यनेन सम्प्रदानापादानप्रत्यवमर्शः क्रियते, एतावदेव वक्तव्यम् - अव्यत्रोणादय इति, प्रकृतत्वादेव हि तयोस्ताभ्यामन्यत्रोणादयो विज्ञास्यन्ते? अत आह - सम्प्रदानप्रत्यवमर्शार्थम् इत्यादि। अन्यथा हि इत्यादि। यदि ताभ्याम् इत्यनेन तयोः प्रत्यवमर्शो न क्रियते इत्यर्थः। अनन्तरत्वात् इत्यादि। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इति न्यायादपादानस्यैव पर्युदासः स्यात्, यदि ताभ्यामिति निर्देशो न क्रियेत। कृषिः इति। इक् कृष्यादिभ्यः (वा।324) इतीक्। तन्तुः इति। सितनिगमिमसिसच्याविधाञ्क्रुशिभ्यस्तुन् (द।उ।1।122) इति तुन्। चर्म इति। मनिन्॥
Prakriyasarvasvam¶
उणादयः सम्प्रदानापादानाभ्यामन्येषु सर्वेषु कारकेषु स्युः । कारुरिति कर्तरि, तन्यत इति तन्तुरिति कर्मणीत्याद्यूह्यम् ॥
Sutra Prayogas¶
गन्तुमुत्सहसे (भट्टिकाव्यम्): शक-धृष इति तुमुन् ।