34078: तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्¶
Padacheda: तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् | S | 1 | 1 |
Sutrartha¶
लकारस्य स्थाने तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् एते आदेशाः भवन्ति ।
अनेन सूत्रेण लकाराणाम् स्थाने सर्वप्रथमम् ये आदेशाः भवितुमर्हन्ति, ते पाठिताः सन्ति । एते अष्टादश-आदेशाः ‘तिङ्’ अनेन प्रत्याहारेण गृह्यन्ते । लः परस्मैपदम् (1.4.99) तथा च तङानावात्मनेपदम् (1.4.100) इत्यनेन एतेषाम् परस्मैपद-आत्मनेपद-संज्ञाः भवन्ति । अग्रे तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) इत्यनेन तेषां त्रयाणाम् त्रयाणाम् प्रथम-मध्यम-उत्तमसंज्ञाः भवन्ति, तथा च तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) इत्यनेन तेषां क्रमेण एकवचन-द्विवचन-बहुवचनसंज्ञाः भवन्ति । एते अष्टादश प्रत्ययाः तथा तेभ्यः विहिताः संज्ञाः एतादृशाः - तिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम् तस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम् झि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम् सिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम् थस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम् थ = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम् मिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम् वस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम् मस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम् त = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम् आताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम् झ = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम् थास् =आत्मनेपदम् + मध्यमपुरुषः + एकवचनम् आथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम् ध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम् इट् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम् वहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम् महिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम् अनेन विभाजनेन प्रत्येकम् तिङ्-प्रत्ययस्य विशिष्टः उल्लेखः भवितुमर्हति । ज्ञातव्यम् - 1. सर्वेषाम् लकाराणाम् तिङन्तरूपसिद्धौ प्रारम्भे एतेभ्यः एव एकः आदेशः विधीयते । तस्य आदेशस्य आवश्यकं चेत् अग्रे परिवर्तनम् भवति । 2. वर्तमानसूत्रेण ‘तिङ्’ तथा ‘तङ्’ एतयोः द्वयोः प्रत्याहारयोः निर्माणम् भवति । 3. एतेषामष्टादशप्रत्ययानाम् विभक्तिश्च (1.4.104) इत्यनेन विभक्तिसंज्ञा अपि भवति । 4. एतेषु सर्वेषु - - तिप्, सिप्, मिप् इत्यत्र पकारस्य इत्संज्ञा भवति । - इट् इत्यत्र टकारस्य इत्संज्ञा भवति । - महिङ् इत्यत्र ङकारस्य इत्संज्ञा भवति । तस्य ग्रहणम् ‘तिङ्’ तथा ‘तङ्’ प्रत्याहारस्य निर्माणार्थम् कृतमस्ति । - ‘झि’ / ‘झ’ इत्यत्र झकारस्य इत्संज्ञा भवति । - तस्, थस्, वस्, मस्, आताम्, थास्, आथाम्, ध्वम् एतेषु सर्वेषु अन्तिम मकारसकारयोः हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञायां प्राप्तायां न विभक्तौ तुस्माः (1.3.4) इत्यनेन सा निषिध्यते । अतः एतेषाम् मकारसकारयोः इत्संज्ञा न भवति ।
Sutrartha (English)¶
A लकार is initially converted to one of these 18 आदेशाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम्, ध्वम्, इड्, वहि, महिङ्.
Vasu English Summary¶
The following are the substitutes of ल - तिप् - तस् - झि - सिप् - थस् - थ - मिप् - वस् - मस् - त - आताम् - झ - थास् - आथाम् - ध्वम् - इट् - वहि - महिङ् ।
Vasu English Translation¶
The following are the substitutes of ल - तिप् - तस् - झि - सिप् - थस् - थ - मिप् - वस् - मस् - त - आताम् - झ - थास् - आथाम् - ध्वम् - इट् - वहि - महिङ् । These are the well-known Conjugational-affixes, called also Personal endings, and are ordained generally after all the ten tenses. But as a matter of fact, they undergo various additions and alterations in the different tenses. Some of these changes have already been mentioned before; see sutra (1.4.8), (3.1.33), &c. Others will be mentioned hereafter. It is only in the present tense or लट् that the affixes as above given, may be applied to the root, in some cases, without any alteration.
The प in तिप्, सिप् and मिप् is for the sake of accent (3.1.4); the ट् in इट् for distinguishing it in the sutra इटोऽत् (3.4.106); and the ङ in महिङ् for forming the Pratyahara तिङ् which is the general name of the above 18 conjugational or personal affixes. Stripped off their indicatory letters, the following table shows the conjugational affixes as added under various tenses:-
PRESENT TENSE.–लट् ।
Parasmaipada.
3rd person, ति, तस्, अन्ति
2nd person, सि, थस्, थ
1st person, मि, वस्, मस्
Atmanepada.
3rd person, ते, आते, अन्ते
2nd person, से, आथे, ध्वे
1st person, ए, वहे, महे
IMPERFECT OR FIRST PRETERITE.—लङ् ।
Parasmaipada.
3rd person, त्, ताम्, अन्
2nd person, स्, तम्, त
1st person, अम्, व, म
Atmanepada.
3rd person, त, आताम्, अन्त
2nd person, थास्, आथाम्, ध्वम्
1st person, इ, वहि, महि
POTENTIAL OR OPTATIVE.—विधिलिङ् ।
3rd person, यात्, याताम्, युस्
2nd person, यास्, यातम्, यात
1st person, याम्, याव, याम
3rd person, ईत, ईयाताम्, ईरन्
2nd person, ईथास्, ईयाथाम्, ईध्वम्
1st person, ईय, ईवहि, ईमहि
IMPERATIVE.–लोट् ।
3rd person, तु, ताम, अन्तु
2nd person, हि, तम्, त
1st person, आनि, आव, आम
3rd person, ताम्, आताम्, अन्ताम्
2nd person, स्व, आथाम्, ध्वम्
1st person, ऐ, आवहै, आमहै
PERFECT OR SECOND PRETERITE.—लिट् ।
3rd person, अ, अतुस्, उस्
2nd person, थ, अथुस्, अ
1st person, अ, व, म
3rd person, ए, आते, इरे
2nd person, से, आथे, ध्वे
1st person, ए, वहे, महे
FIRST FUTURE OR DEFINITE FUTURE.—लुट् ।
3rd person, ता, तारौ, तारस्
2nd person, तासि, तास्थस्, तास्थ
1st person, तास्मि, तास्वस्, तास्मस्
3rd person, ता, तारौ, तारस्
2nd person, तासे, तासाथे, ताध्वे
1st person, ताहे, तास्वहे, तास्महे
SECOND FUTURE OR INDEFINITE FUTURE.—लृट् ।
3rd person, स्यति, स्यतस्, स्यन्ति
2nd person, स्यसि, स्यथस्, स्यथ
1st person, स्यामि, स्यावस्, स्यामस्
3rd person, स्यते, स्येते, स्यन्ते
2nd person, स्यसे, स्यथे, स्यध्वे
1st person, स्ये, स्यावहे, स्यामहे
AORIST OR THIRD PRETERITE.—लुङ् ।
3rd person, सीत्, स्ताम्, सुस्
2nd person, सीस्, स्तम्, स्त
1st person, सम्, स्व, स्म
3rd person, स्त, साताम्, सत
2nd person, स्थास्, साथाम्, ध्वम्
1st person, सि, स्वहि, स्महि
PRECATIVE OR BENEDICTIVE.—आशीर्लिङ् ।
3rd person, यात्, यास्ताम्, यासुस्
2nd person, यास्, यास्तम्, यास्त
1st person, यासम्, यास्व, यास्म
3rd person, सीष्ठ, सीयास्ताम्, सीरन्
2nd person, सीष्ठास्, सीयास्थाम्, सीध्वम्
1st person, सीय, सीवहि, सीमहि
CONDITIONAL.—लृङ् ।
3rd person, स्यत्, स्यताम्, स्यन्
2nd person, स्यस्, स्यतम्, स्यत
1st person, स्यम्, स्याव, स्याम
3rd person, स्यत, स्येताम्, स्यन्त
2nd person, स्यथास्, स्येस्थाम्, स्यध्वम्
1st person, स्ये, स्यावहि, स्यामहि
Kashika¶
लस्य तिबादय आदेशा भवन्ति। तिप्सिप्मिपां पकारः स्वरार्थः। इटष्टकार **इटोऽत्**(३.४.१०६) इति विशेषणार्थः, तिबादिभिरादेशैस्तुल्यत्वाद् न देशविध्यर्थः। महिङो ङकारस्तिङ् इति प्रत्याहारग्रहणार्थः। पचति, पचतः, पचन्ति। पचसि, पचथः, पचथ। पचामि, पचावः, पचामः। पचते, पचेते, पचन्ते। पचसे, पचेथे, पचध्वे। पचे, पचावहे, पचामहे। एवमन्येष्वपि लकारेषूदाहार्यम्॥
Siddhanta Kaumudi¶
एतेऽष्टादशलादेशाः स्युः ॥
Laghu Siddhanta Kaumudi¶
एतेऽष्टादश लादेशाः स्युः॥
Balamanorama¶
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् - तिप्तस् । तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ् । एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । लस्येति स्थानषष्ठन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह — एत इति । तसादौ रुत्वाऽभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति ।
Tattvabodhini¶
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् - समाहारे द्वन्द्वः । इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात् । किंतुइटोऽ॑दिति विशेषणार्थः ।एर॑दित्युच्यमाने एधेवहि एधेमहीत्यत्रापि स्यात्, वर्णग्रहणे प्रत्ययग्रहणाऽर्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः । केचित्तु — इटोऽ॑दित्यत्र लिङ इत्यनुवर्तनाल्लिङ्गादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र इकामात्रमादेशो भवति । तेनइटोऽ॑दित्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः । तच्चिन्त्यम् । वहि — महीत्यस्यापि स्थानिवत्त्वेन लिङ्त्वात् । महिङो ङकारस्तिङ् तङिति प्रत्यानिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि रलिटि वव्रश्चिमहे पप्रच्छिमहे इत्यत्रग्रहिज्ये॑ति संप्रसारणं न ।
Padamanjari¶
तिबादीनां समाहारद्वन्द्वः । पकारः स्वरार्थ इति । प्रदर्शनमेतत्,’सार्वधातुकमपित्’ इत्याद्यपि प्रयोजनम् । इटष्टकार इत्यादि । ननु ठिटोऽत्ऽ इत्यत्र लिङ्त्यिनुवर्तते, तेनेकारस्यात्वविधानेऽपि नास्त्यतिप्रसङ्गः ? एवमपि तिबाद्यवयवस्य प्राप्नोति, यथा ठेरुःऽ इत्येतल्लोट इत्यनुवृतावपि तिबाद्यवयस्य भवति । न हि तत्रावयवषष्ठी, लिङ् इति तु स्थानषष्ठीत्यत्र प्रमाणमस्ति । अथ ठाद्यन्तौ टकितौऽ इति देशविध्यर्थष्टकारः कस्मान्न भवतीत्याह - तिबादिमिरित्यादि । तुल्यत्वमुसदृशत्वम्, तच्चैकयोगनिर्दिष्टत्वेन लस्येत्येका षष्ठी, तत्र तिबादयः सप्तदशादेशाः स्थाने योगं प्रयोजयन्ति, तानेको नोत्सहते विहन्तुमित्यर्थः । महिङे ङ्कार इत्यादि । तिङ्त्युपिलक्षणम् । तङ्त्यिपि प्रत्याहारो भवति । चिनुमहे इत्यादौ तु गुणप्रतिषेधार्थो न भवति ; सार्वधातुकमपित्ऽ इत्यनेनैव सिद्धत्वात् । यत्र ह्यार्धधातुकमेषिषिमहीति, तत्र ङ्त्वार्थिः कस्मान्न भवति ? प्रत्याहारे चरितार्थस्य समुदायानुबन्धस्यावयवानुबन्धत्वे प्रमाणाभावात् । तृनि कथम् ? तस्यापि हि नकार’न लोकाव्यय’ इत्यत्र प्रत्याहारे चरितार्थः, ठौङ् आपःऽ इत्यत्र च वक्ष्यते -‘सामान्यग्रहणार्थो ङ्कारः, अन्यथा निरनुबन्धकस्य प्रथमाद्विवचनस्यैव ग्रहणं स्याद्, न सानुबन्धकस्यौटः’ इति, तच्च विरुध्यते; तस्यापि टकारस्य सुडिति प्रत्याहारे चरितार्थतया औकारस्य निरनुबन्धकत्वात् । तस्मान्महिङे ङ्कारः प्रत्याहारार्थः, न त्ववयवानुबन्ध इत्याचार्याणां स्मृतिपरम्परैवात्र शरणम् ॥
Nyaas¶
पकारः स्वरार्थः इति। अनुदात्तौ सुप्तितौ (3.1.4) इत्यनुदात्तो यथा स्यात्। इटष्टकारः इत्यादि। ननु चासत्यप्येतस्मिन् विशेषणार्थे नैवं किञ्चिदनिष्टं प्राप्नोति, इटोऽत् (3.4.106) इत्यत्र सूत्रे लिङादेशस्येटोऽद्विधानात्, ततोऽन्यस्य लिङ्गादेशस्येकारस्यासम्भवात्। तिवाद्यवयवोऽस्तीति चेत्? न; तस्यालादेशत्वात्। तिबादयो हि समुदाया लादेशाः, न च तदवयवा इकारादयः। अर्थवद्ग्रहणे (व्या।प।1) परिभाषयार्थवदिकारस्य ग्रहणे सति कृतस्तबाद्यवयवस्य प्रसङ्गः ! न हि तेऽर्थवन्तः; तिबादीनामेव समुदायानामर्थवत्वात्। तस्मान्न कर्तव्य एव टकारः? सत्यं न कर्तव्यं, य एवं प्रतिपत्तुं समर्थस्तं प्रति; यस्त्वसमर्थस्तं प्रति कर्तव्य एव। अथ आद्यन्तौ टकितौ (1.1.46) इति विशिष्टदेश आगमभूतस्यास्य विधानं यथा स्यादित्येवमर्थष्टकारः कस्मान्न विज्ञायते? इत्याह - तिबादिभिः इत्यादि। तुल्यत्वम् = सदृशत्वम्, तत्ुपनरेकयोगनिर्दिष्टत्वेन। तस्मिन् सति लस्य (3.4.77) इत्यनया षष्ठआ सर्वेषं तिबादीनां सम्बन्धो भवति। द्वितीये त्विट एव। तत्र यस्मिन्पक्ष आश्रीयमाणे सर्वेषामनुग्रहो भवति स एवाश्रयितुं युक्त इति स्थानषष्ठीयमङ्गीकर्तव्या। इटोऽप्यादेशत्वं तेन भवतीति न भवति देशवनिध्यर्थष्टकारः। अथ वा - तिबादिभिरेकयोगनिर्दिष्टत्वेन यत् तिबादिभिस्तुल्यत्वं तत् साहचर्योपलक्षमम्। तिबादिभिस्तुल्यत्वात् तत्साहचर्यादित्यर्थः। साहचर्येण सन्दिग्धार्थनिश्चयो भवति, यथा - सवत्सा धेनुरिति। तथेहापि सन्देहो जायते - किमयमादेशः? उतागमः? इति, तथापि तिबादिभिरसन्दिग्धादेशभावैः साहचर्यादादेशोऽयमिति निश्चीयते। तेन देशविध्यर्थता टकारस्य न भवति। यद्येवम्, फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च (द।उ।1।103) इत्यत्रापि पटआदिभिरादेशैस्तुल्यत्वाद्गुगागमोऽप्यादेशः स्यात्? नैष दोषः; संज्ञायाम् (8.2.11) इति तत्रानुवर्तते,न चादेशेन संज्ञा गम्यते, किन्त्वागमेन। तस्माद्गुक आगमत्वं वेदितव्यम्। तत्रैकापि षष्ठी यदाऽदेशन सम्बध्यते तदा स्थानषष्ठी भवति, यदा त्वागमेन तदावयवषष्ठी। महिङो ङकारः इत्यादि। अथ ङित्वार्थो ङकारः कस्मान्न भवति? तस्य सार्वधातुकमपित् (1.2.4) इत्यनेनैव सिद्धत्वात्॥7र9। टित आत्मनेपदानां टेरे। (3.4.79) इह कस्मान्न भवति इत्यादि। शानजपि टितो लकारस्य सम्बन्ध्यात्मनेपदसंज्ञकश्च, तस्मात् तस्यापि टेरेत्वेन भवितव्यमित्यभिप्रायः। प्रकृतैः इत्यादि। प्रकृतानां तिबादीनां मध्ये यान्यात्मनेपदानि - इत्येवमिहात्मनेपदानि विशिष्यन्ते, तेन न भवत्येष दोषः। न हि शानच् तिबादिषु सन्निविष्टः। लाघवार्थं टितस्तङाम् इति वाच्ये आत्मनेपदानाम् इति वचनं वैचित्र्यार्थम्। ननु च तङाम् इत्युच्यमाने तसस्तकारेण प्रत्याहारग्रहणं स्यात्? अर्थवद्ग्रहणपरिभाषया (व्या।प।1) न भविष्यति। यस्तर्हि थस्य स्थान आदिश्यते तेन स्यात्? न; तिबादिषु सन्निविष्टा ये तेषां तिङां ग्रहणं विज्ञास्यते। प्रत्यासत्तेर्वा आत्मपदीयेन तशब्देन प्रत्याहारग्रहणं विज्ञास्यते। व्याप्तेस्त्वनाश्रयः; लक्ष्यस्थित्यनुरोधात्॥
Prakriyasarvasvam¶
लकाराणां तिवादयोऽष्टादशादेशाः स्युः । तत्र पूर्वनवकं ‘लः परस्मैपदम् (१-४-९९) इति परस्मैपदाख्यम् । परनवकं ‘तङानावात्मतेपदम् (१-४-१००) इत्यात्मनेपदाख्यम् ।