34067: कर्तरि कृत्

Padacheda: कर्तरि | S | 7 | 1 |

कृत् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affixes called कृत् are used in the sense of an agent.

Vasu English Translation

The affixes called कृत् are used in the sense of an agent. The words formed by krit affixes have the sense of agency; when no other special sense has been assigned to them by any rule, then this rule will apply, and fix the force of the affix. This rule will not, therefore, apply to krit affixes like ख्युन् (3.2.5) and (3.2.6) to which a special sense has been assigned, but affixes like ण्वुल् and तृच् &c, (3.1.133). Thus कारकः means a ‘doer’; कर्त्ता ‘an agent’; नन्दनः ‘one who causes happiness’; ग्राही ‘who seizes’; पचः ‘who cooks’.

Bhashya

कर्तरि कृत् (1228) (अथ कृतादीनां शक्तिबोधकप्रकरणम्) (605 कृत्प्रत्ययशक्तिबोधकसूत्रम्॥ 3 । 4 । 1 आ.17) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (5047 समाधानवार्तिकम्॥ 1 ॥) - कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानात्- (भाष्यम्) कर्तरि कृतो भवन्तीत्युच्यते। (किं कारणम्?) अनादेशे स्वार्थविज्ञानात्। अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति। तद्यथा - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन्निति। एवमिमे प्रत्ययाः कृतः स्वार्थे स्युः। स्वार्थे मा भूवन्। कर्तरि यथा स्युः॥ एवमर्थमिदमुच्यते॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्॥ यमिच्छति स्वार्थे, आह तं भावे घञ्ञ् भवतीति॥ (प्रयोजनभाष्यम्) कर्मणि तर्हि मा भूवन्निति। (प्रयोजननिरासभाष्यम्) कर्मण्यपि यमिच्छत्याह तं धः कर्मणि ष्ट्रन् इति। (प्रयोजनभाष्यम्) करणाधिकरणयोस्तर्हि मा भूवन्निति। (प्रयोजननिरासभाष्यम्) करणाधिकरणयोरपि यमिच्छत्याह तं ल्युट् करणाधिकरणयोर्भवतीति। (प्रयोजनभाष्यम्) संप्रदानापादानयोस्तर्हि मा भूवन्निति। (प्रयोजननिरासभाष्यम्) संप्रदानापादानयोरपि यमिच्छत्याह तं दाशगोघ्नौ संप्रदाने भीमादयोपादाने इति। य इदानीमतोन्यः प्रत्ययः शेषः सोन्तरेण वचनं कर्तर्येव भविष्यति॥ (प्रयोजनभाष्यम्) तदेव तर्हि प्रयोजनम्। स्वार्थे मा भूवन्निति। (प्रयोजननिरासस्मारणभाष्यम्) ननु चोक्तं स्वार्थे यमिच्छत्याह तं भावे घञ्ञ्भवतीति। (प्रयोजननिरासासंभवभाष्यम्) अन्यः स भावो बाह्यः प्रकृत्यर्थात्। अनेनेदानीमाभ्यन्तरे भावे स्युः। तत्र मा भूवन्निति कर्तृग्रहणम्॥ (आक्षेपभाष्यम्) कः पुनरेतयोर्भावयोर्विशेषः। (समाधानभाष्यम्) उक्तो भावभेदो भाष्ये। (काकुप्रश्नभाष्यम्) अस्ति प्रयोजनमेतत्। (समाधानभाष्यम्) किं तर्हीति। (5048 आक्षेपवार्तिकम्॥ 2 ॥ - तत्र ख्युनादिप्रतिषेधो नानावाक्यत्वात्- (भाष्यम्) तत्र ख्युनादीनां प्रतिषेधो वक्तव्यः। ख्युनादयः कर्तरि मा भूवन्निति॥ (आक्षेपबाधकभाष्यम्) ननु च करणे ख्युनादयो विधीयन्ते तेन कर्तरि न भविष्यन्ति॥ (आक्षेपसाधकभाष्यम्) तेन च करणे स्युरनेन च कर्तरि। (आक्षेपबाधकभाष्यम्) ननु चापवादत्वात् ख्युनादयो बाधकाः स्युः॥ (आक्षेपसाधकभाष्यम्) न स्युः॥ किं कारणम्?। नानावाक्यत्वाद्। नानावाक्यं तच्चेदं च। समाने वाक्ये चापवादैरुत्सर्गा बाध्यन्ते। नानावाक्यत्वाद्वाधनं न प्राप्नोति। (5049 समावेशवार्तिकम्॥ 3 ॥) - तद्वच्च कृत्येष्वेवकारकरणम्(तच्च भव्याद्यर्थम्)- (भाष्यम्) एवं च कृत्येष्वेवकारः क्रियते तयोरेव कृत्यक्तखलर्था इति भावे चाकर्मकेभ्य इति। किं प्रयोजनम्?। तच्च भव्याद्यर्थम्। भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नाम्॥ गेयानि माण वकेन सामानीति॥ (5050 असमावेशवार्तिकम्॥ 4 ॥) - ऋषिदेवतयोस्तु कृदि्भः समावेशवचनं ज्ञापकमसमावेशस्य- (भाष्यम्) यदयं कर्तरि चर्षिदेवतयोः इति सिद्धे सति समावेशार्थे चकारं शास्ति तज्ज्ञापयत्याचार्यः - न भवति समावेशः इति॥ (आक्षेपभाष्यम्) किमर्थे तर्हि कृत्येष्वेवकारः क्रियते? (5051 वार्तिकम्॥ 5 ॥) - एवकारकरणं च चार्थे तच्च भव्याद्यर्थम्- (भाष्यम्) एवकारकरणं च चार्थे द्रष्टव्यम्। तयोर्भावकर्मणोः कृत्या भवन्ति भव्यादीनां कर्तरि च॥ किं प्रयोजनम्। तच्च भव्याद्यर्थं, भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नां गेयानि माणवकेन सामानीति। (असमावेशवार्तिकनिरासभाष्यम्) यत्तावदुच्यते - ऋषिदेवतयोः कृदि्भः समावेशवचनं ज्ञापकमसमावेशस्य इति॥ नैतज्ज्ञापकसाध्यम् - -अपवादैरुत्सर्गा बाध्यन्ते इति॥ एष एव न्यायः - यदुतापवादैरुत्सर्गा बाध्येरन्॥ (दूषणस्मारकभाष्यम्) ननु चोक्तम्। नानावाक्यत्वाद् बाधनं न प्राप्नोतीति॥ न विदेशस्थमिति कृत्वातो नानावाक्यं भवति। (समाधानभाष्यम्) विदेशस्थमपि सदेकं वाक्यं भवति। तद्यथा द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठ्योरलुगुच्यतेऽपवादः॥ (पूर्ववार्तिकदूषणभाष्यम्) यदप्युच्यते एवकारकरणं च चार्थे इति॥ कथं पुनरन्यो नामान्यस्यार्थे विद्यते। कथमेवकारश्चार्थे वर्तते। स एष एवकारः स्वार्थे वर्तते। (आक्षेपभाष्यम्) किं प्रयोजनम्। (समाधानभाष्यम्) ज्ञापकार्थम्। (अनुयोगभाष्यम्) किं ज्ञाप्यते? (समाधानभाष्यम्) एतज् ज्ञापयत्याचार्यः इत उत्तरं समावेशो भवतीति॥ (अनुयोगभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्। (समाधानभाष्यम्) तच्च भव्याद्यर्थम्। भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नां गेयानि माणवकेन सामानीति॥ (आक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते इहापि समावेशः प्राप्नोति - दाशगोघ्नौ संप्रदाने भीमादयोपादान इति। (समाधानभाष्यम्) अत्रापि सिद्धं भवति। यदयमादिकर्मणि क्तः कर्तरि चेति सिद्धे समावेशे, समावेशार्थं चकारं शास्ति तज्ज्ञापयत्याचार्यः प्रागमुतः समावेशो भवतीति॥ (अनुयोगभाष्यम्) किं पुनरयं प्रत्ययनियमः धातोः परः अकारः अकशब्दो वा नियोगतः कर्तारं ब्रुवन् कृत्संज्ञश्च प्रत्ययसंज्ञश्चेति॥ (भाष्यम्) आहोस्वित्संज्ञानियमो धातोः परः अकारः अकशब्दो वा स्वभावतः कर्तारं ब्रुवन् कृत्संज्ञश्च भवति प्रत्ययसंज्ञश्चेति॥ (तटस्थस्य विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः। (5052 संज्ञानियमवादिनः प्रत्ययनियमे दूषणवार्तिकम्॥ 6 ॥ - तत्र प्रत्ययनियमेऽनिष्टप्रसङ्गः- (भाष्यम्) तत्र प्रत्ययनियमे सति अनिष्टं प्राप्नोति। काष्ठभिदब्राह्मणः। वलभिदब्राह्मणः एषोपि नियोगतः कर्तारं ब्रुवन् कृत्संज्ञश्च स्यात् प्रत्ययसंज्ञश्चेति। (5053 वार्तिकम्॥ 7 ॥) - संज्ञानियमे सिद्धम्- (भाष्यम्) संज्ञानियमे सति सिद्धं भवति। (प्रत्ययनियमवादिभाष्यम्) यदि संज्ञानियमः। (5054 दूषणवार्तिकम्॥ 8 ॥) - विभक्तादिषु दोषः- (भाष्यम्) विभक्ता भ्रातरः पीता गाव इति न सिध्यति॥ प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तो नियोगतः कर्तारमाह। न चेमास्तत्र परिगण्यन्ते प्रकृतयः॥ (5055 संज्ञानियमवादिवार्तिकम्॥ 9 ॥) - विभक्तादिषु चाप्राप्तिः प्रकृतेः प्रत्ययपरवचनात्- (भाष्यम्) विभक्तादिषु च प्रत्ययनियमस्याप्राप्तिः। किं कारणम्?। प्रकृतेः प्रत्ययपरवचनात्। परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारमाह। न चेमास्तत्र परिगण्यन्ते॥ (आक्षेपभाष्यम्) न तर्हीदानीमयं साधुर्भवति?। (समाधानभाष्यम्) भवति साधुर्न तु कर्तरि। (प्रश्नभाष्यम्) कथं तर्हि कर्तृत्वं गम्यते। (समाधानभाष्यम्) अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः पीतमेषामस्तीति पीता इति॥ (समाधानान्तरभाष्यम्) अथ वा उत्तरपदलोपोत्र द्रष्टव्यः - विभक्तधनाः विभक्ताः पीतोदकाः पीता इति॥ कर्तरि कृत्॥ 67 ॥

Kashika

कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति। कृदुत्पत्तिवाक्यानामयं शेषः। तत्र येष्वर्थादेशो नास्ति तत्रेदमुपतिष्ठते, अर्थाकाङ्क्षत्वात्। न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात्। कारकः। कर्ता। नन्दनः। ग्राही। पचः॥

Siddhanta Kaumudi

कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥

Laghu Siddhanta Kaumudi

कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते -

Balamanorama

कर्तरि कृत् - कर्तरि कृत् । अर्थनिर्देशोऽयम् । इति प्राप्ते इति । वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः ।

Padamanjari

किमर्थमिदमुच्यते ? कर्तरिकृद्वचनमनोदेशे स्वार्थविज्ञानात् । यत्र वचनेनार्थो निर्दिश्यते तत्र प्रत्यासत्या प्रकृत्यर्थ एव प्रत्ययो भवति, तद्यथा -‘गुप्तिज्किद्भ्यः सन्’ ,’यावादिभ्यः कन्’ इति, एवमिमेकृतः स्वार्थे स्युः, स्वार्थे मा भूवन् कर्तरि स्युरिति । ननु च यमिच्छति स्वार्थे, आह तं भावे घञ् भवतीति ? तन्नियमार्थं भविष्यति - घञेव भावे नान्यः कृदिति । असति ह्यतेतस्मिन्सूत्रे घञित्येतावत्सूत्रं कर्तव्यम् - धातोर्घञ् भवतीति, तत्रानिर्दिष्टार्थत्वाद्भाव एव घञ भविष्यतीति; ततः’पदरुजविश’ इति द्वितीयं सूत्रं कर्तव्यम्, ततश्च’भावे’ इति न कर्तव्यम्, क्रियमाणं तु नियमार्थं भविष्यति - घञेव भावे नान्यः कृदिति, ततश्चान्यः कृद्धात्वर्थाक्षिप्ते कर्तरि भविष्यति । स्यादेतत् - कर्मादीनामपि धात्वर्थेनाक्षेपातेष्वपि कृतः स्युरिति ? न;’धः कर्मणि ष्ट्रन्’ ,’करणाधिकरणयोर्ल्युट्’ ,’दाशगाघ्नौ सम्प्रदाने’ ,’भीमादयो’ पादानेऽ इत्यत्र’ष्ट्रनेव कर्मणि नान्यः’ इत्यादिको नियमो विज्ञास्यते । यद्येकं कर्मादि नियतं प्रत्ययास्त्वनियता इति कारकान्तरेऽपि ष्ठरनादयः स्युः ? नैष दोषः; एकमिदं वअक्यम् - धः कर्मणि ष्ट्रनिति, तेन च कर्मणि विधीयमानः कथं कारकान्तरेऽपि स्यात् ! द्वितीयोऽपि वा नियमो विज्ञास्यते - कर्मण्येव ष्ट्रनिति, एवं सर्वत्र । य इदानीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणापि वचनं कर्तर्येव भविष्यति ।’कर्तरि भुवः खिष्णुच्खुकञौ’ ‘कर्तरि चर्षिदेवतयोः’ इत्युभयत्रापि करणनिवृत्यर्था कर्तृश्रुतिर्विध्यर्थैवेति खिष्णुजादिषु कर्तृनियमो न भविष्यति । तदेव तर्हि प्रयोजनम् - स्वार्थे मा भूवन्निति ? ननु चोक्तम् -‘भावे इति नियमो विज्ञास्यते’ इति ? स्वार्थादन्यः स भावो धात्वर्थस्य सिद्धता नाम । शुद्धे स्वार्थे कृतः स्युः, लः कर्मणि च भावे चेति । अयं तर्हि नियमो भविष्यति - ल एव भावे इति ? नायं नियमः शक्यो विज्ञातुम्, कर्तृकर्मणोर्निर्देशेन निर्दिष्टार्थत्वात् लकाराः स्वार्थे न स्युः, ठकर्म्केभ्यःऽ इति च वक्ष्यामीत्येवमर्थमेतत्स्यात् । अतः सुष्ठूअक्तम् - कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानादिति । अत्र च द्वैधम् - एतद्वाक्यनिरपेक्षैः स्वैर्विधायकैर्वाक्यैर्विहितानां कृतां पश्चादेनेनार्थ आदिश्येत ? कृदुत्पत्तिवाक्यानां वायं शेषः स्यात् ण्वुल्तृचौ कर्तरि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति ? तत्राद्ये पक्षे यथानेन तृजादीनामर्थ आदिश्यते, तथा ख्युनादीनामप्यादिश्येत; विशेषानुपादानात् । ततश्चैतेऽप्यनेन कर्तरि च स्युः, स्वेषु स्वेषु विधिवाक्येषु करणादीनामप्युपादानात्करणादिषु च । ननु च ख्युनादिषु करणादिरर्थो विशेषविहितत्वात् कर्तुश्च बाधको भविष्यति ? न; नानावाक्यत्वात् । इह’दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय’ इति अभिन्नकालत्वादेकं वाक्यं विशिष्टदानस्य प्रतिपादकमिति तक्रेण दधि बाध्यते । यदा तु पूर्वाह्णे ब्राह्मणभोजनप्रकरणे’दधि ब्राह्मणेभ्यो दीयताम्’ इत्युच्यते, अपराह्णे तु’तक्रं कौण्डिन्याय दीयताम्’ इति, न तदा बाध्यबाधकभावः । तथास्मिन्पक्षेऽपि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो न लभ्यते । तस्माद् दुष्ट एवायं पक्ष इति द्वितीयं पक्षमाश्रित्याह - कृदुत्पत्तिवाक्यानामयं शेषः स्यादिति । प्रागुक्तो दोषस्तदवस्थ एव ? तत्राह - येष्वित्यादि । कुत एतदित्याह - अर्थाकाङ्क्षत्वादिति । येषु वाक्येष्वर्थो न निर्दिश्यते तान्यर्थाकाङ्क्षाणि । तथा हि -‘ण्वुल्तृचौ भवतः’ इत्युक्तेऽर्थविषया आकाङ्क्षा जायते - क्वैतौ भवतीति ?’कर्तरि कृत्’ इत्यस्याकाङ्क्षा भवति - कः कृत् कर्तरि भवतीति ? अतस्तृजादिविध्यनुपस्थाने शेषशेषिणोरुभयोरप्याकाङ्क्षापूतये ततस्तत्रैवोपतिष्ठत इत्यर्थः । ख्युनादिवाक्येष्विति । उपतिष्ठत इत्यनुषङ्गः । कारणमाह - साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वादिति । न च रक्तपटन्यायेनाकाङ्क्षोत्थापनेनोप्रस्थानं युज्यते; स्वत एव साकाङ्क्षे तृजादिविध्यनुपस्थानेन शेषस्यापि चरितार्थत्वात् । रक्तः पटो भवतीत्यत्र तु पटो भवतीत्यस्य निराकाङ्क्षत्वेऽपि रक्तपदार्थस्य साकाङ्क्षत्वादाङ्क्षोत्थापनेनान्वयः । न च विदेशस्थानां कथमेकवाक्यत्वमिति वाच्यम्; शास्त्रे विदेशस्थानामप्यवान्तरवाक्यानामाकाङ्क्षावशादेकवाक्यत्वदर्शनात् । यथा - द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठयोरलुगपवादः’गोत्रे’ लुगचिऽ, ठलुगुतरपदेऽ इति ॥

Nyaas

किमर्थमिदम्? कर्तरि तृजादयो यथा स्युः। क्व तर्हि स्युः? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे (पु।प।पा।90)। ननु च स्वार्थे यत्र प्रत्ययमिच्छति तत्र भावग्रहणं करोति, यथा - घञादिविधौ भाव इति, न चैते घञादयः स्वार्थे भवन्ति, किं तर्हि? तस्य धर्मे सिद्धताख्ये; तथा लकारादिविधौ लः कर्मणि च भावे चाकर्मकेभ्यः (3.4.69) इत्यत्र सूत्रे लकारा अपि नैव स्वार्थे विधीयन्ते, किं तर्हि? तस्य धर्मे साध्यताख्ये? यद्यपि घञादीनां लकाराणाञ्च भावे विधानम्, तथापि शब्दशक्तिस्त्वाभाव्यादेष विषयविभागो लभ्यते। घञादीनां हि धात्वर्थस्य सिद्धतामेवाभिधातुं सामर्थ्यम्, लकाराणां साध्यतामेव। तदेवं यदनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, तस्मात् तृजादयोऽपि तत्रैव भवेयुः, अतः कर्तर्येव ते यथा स्युरित्येवमर्थमिदमारभ्यते।अत्र च द्वेधम् - कृदुत्पत्तिवाक्यानामयं शेषो वा स्यात् - ण्वुल्तृचौ कर्तरि, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति? अर्थादेशो वा? निरपेक्षैः स्वैः स्वैर्विधायकैवर्वाक्यैर्विहितानां कृतां पश्चादनेनार्थ आदिश्येत - ये न लक्षणान्तरैः कृतो विहितास्ते कर्तरि वाच्ये भवन्तीति। तत्र यदि द्वितीयः पक्ष आश्रीयेत ततो यथा तृजादीनामनेनर्थ आख्यायते, तथा ख्युन्नादीनामपि; विशेषानुपादानात्, ततस्तेऽपि कर्तरि स्युः। स्वेषु विधिवाक्येषु करणादीनामुपादानात् कणादिष्वपि। यद्यप्येकस्य प्रत्ययस्य कर्तरि करणे च यगुपद्वृत्तिर्न सम्भवति, तथापि वचनसामर्थ्यात् पर्यायेण कर्तरि करणे च स्युरिति। तस्माद्दुष्टोऽयं पक्ष इति प्रथमं पक्षमाश्रित्याह - कृदुत्पत्तिवाक्यानाम् इत्यादि। अनेन तेषामस्य चैकवाक्यतामाह। यद्येवम्, ख्युन्नादिवाक्येष्वप्यनेनोपस्थातव्यम् - तेषामप्ययं शेष इति कृत्वा, ततश्चास्मिन्नपि पक्षे द्वितीये पक्षे भावी दोषः स्यात्? इत्यत आह - तत्र येषु इत्यादि। तत्रैव हे#उतमाह - अर्थाकाङ्क्षत्वात् इति। शेषो हि तेषां भवति यान्यपरिसमाप्तत्वादर्थमाकाङ्क्षन्ति, नान्येषाम्। अतो येषु वाक्येष्वर्थो न#आदिश्यते तेषामेव साकाङ्क्षत्वात् शेषोऽयं युक्तः। तृजादीनामेव विधायकानि वाक्यान्यर्थानादशादर्थाकाङ्क्षाणि। तथा हि - ण्वुल्तृचौ भवतः इत्युक्तेऽर्थविशेषाकाङ्क्षा भवति - क्वेमौ भवत इति। तस्मात् तेषामेवायं शेष इति तेष्वेवोपतिष्ठते। न ख्युन्नादिवाक्येषु इति। उपतिष्ठते इति। प्रकृतेनैव सम्बन्धः। साक्षात् इत्यादि। अनुपस्थाने कारणम्। ख्युन्नादिवाक्यान्यर्थाकाङ्क्षाणि न भवन्ति, तेषु करणादीनामर्थानां साक्षान्निर्देशात्। तस्यान्न तेषामयं शेष इति न तेषूपतिष्ठते,अतो न भवत्येष दोषप्रसङ्गः॥

Prakriyasarvasvam

कृत्प्रत्ययः सर्वः कर्तरि स्यात् । पाचक इति पचनस्य कर्ता ।