34076: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः¶
Padacheda: क्तः | S | 1 | 1 |
अधिकरणे | S | 7 | 1 |
च | S | 0 | 0 |
ध्रौव्य-गति-प्रत्यवसानार्थेभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix क्त which is ordained after roots denoting fixedness (to cling to a place), motion and taking gives the sense of location as well.
Vasu English Translation¶
The affix क्त which is ordained after roots denoting fixedness (to cling to a place), motion and taking gives the sense of location as well. The verbs denoting ध्रौव्य or ‘persisting in a place’ are Intransitive verbs. The word pratyavasana means ‘eating’ also; the force of च in the sutra is that the affix kta expresses other relations also. Thus after verbs denoting ‘fixedness’ or dhrauvyartha it denotes the agent, the act and the location; after verbs denoting ‘motion’ it gives the sense of agent, object, act and location; after verbs denoting ‘taking or eating’, it has the sense of object, act and location. Thus आसितो देवदत्तः ‘Devadatta sat’; आसितं तेन ‘sitting by him’ (act); इदमेषामासितम् ‘this was their seat’ (location); यातो देवदत्तो ग्रामम् ‘Devadatta went to the village’ (active); यातो देवदत्तेन ग्रामः (passive); यातं देवदत्तेन (abstract); इदमेषां यातम् ‘this is their place of going’ (location); भुक्त ओदनो देवदत्तेन (passive); भुक्त ओदनं देवदत्तः (active); देवदत्तेन भुक्तम् (abstract); इदमेषां भुक्तम् (location); कथं भुक्ता ब्राह्मणाः । पीता गावः । The आ in भुक्ता and पीता has the force of मतुप् (4.2.85). भुक्तमेषामस्ति or पीतमेषामस्ति ।
Kashika¶
ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अभ्यवहारार्था इति स्वनिकायप्रसिद्धिः। ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः, सोऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु। ध्रौव्यार्थेभ्यस्तावत् — आसितो देवदत्तः। आसितं तेन। इदमेषामासितम्। गत्यर्थेभ्यः — यातो देवदत्तो ग्रामम्। यातो देवदत्तेन ग्रामः। यातं देवदत्तेन। इदमेषां यातम्। प्रत्यवसानार्थेभ्यः — भुक्त ओदनो देवदत्तेन। देवदत्तेन भुक्तम्। इदमेषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गाव इति? अकारो मत्वर्थीयः। भुक्तमेषामस्ति, पीतमेषामस्तीति॥
Siddhanta Kaumudi¶
एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥
Balamanorama¶
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः - क्तोऽधिकरणे च । ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ- । ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति । स्थिरीभवनम् । उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । आस्यते अस्मिन्नित्यासितम् । आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदाहरणम् । यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः । भुक्तमेतदनन्तरस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः ।अधिकरणवाचिनश्चे॑ति त्रिष्वपि कर्तरि षष्ठी । पक्षे इति । आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । आसितो मुकुन्द इति । आसितवानित्यर्थः । आसितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः,लः कर्मणि चे॑त्यत्राऽदर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्यलः कर्मणी॑त्यत्राऽदर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः । समाधत्ते — भुक्तमस्त्येषामिति । अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्,अजर्यं सङ्गत॑मिति सूत्रेअनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ।वर्तमाने ल॑डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः ‘भूते’ इति सूत्र भाष्ये उक्तत्वादित्याहुः ।
Tattvabodhini¶
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः - मुकुन्दस्येति । आस्यतेऽस्मिन्नित्यासितम् । आसनमित्यर्थः । यायतेऽस्मिन्निति यानं मार्गः । भुज्यतेऽस्मिन्निति भुक्तं । भोजनमित्यर्थः । त्रिष्वपिअधिकरणवाचिनश्चे॑ति कर्तरि षष्ठी ।
Padamanjari¶
स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुअषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । ठधिकरणवाचिनश्चऽ इति षष्ठी । कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शाअदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः । इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि -‘क्त्वो’ धिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ॥
Nyaas¶
ननु च नेयं लोके प्रसिद्धिः - ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अब्यवहार्था इति, तत्कथमयमर्थो लभ्यते? इत्यत आह - स्वनिकायप्रसिद्धिः इति। स्वनिकायः = वैयाकरणसङ्घः, तत्रेयं प्रसिद्धिः। कर्त्तृभावाधिकरणेषु इति। भावकर्मणोः तयोरेव (3.4.70) इत्यादिना। इदमेषाम् इति। अधिकरणवाचिनाम् (2.3.68) इति षष्ठी।कथम् इत्यादि। भुक्ता ब्राआहृणाः, पीता गावः इति। कर्तरि निष्ठा, अन्यथाऽनभिहितत्वात् कर्त्तुब्र्राआहृणशब्दाद्गोशब्दच्च कर्तरि तृतीया स्यात्। न प्रत्यवसानार्थेभ्यः केनचित् कर्तरि क्तो विहितः, तत्कथमेतौ सूत्रादनन्तरमिदं कस्मान्न पठते, एकः एवं सति गुणो भवति, द्विः क्तग्रहणं न कर्तव्यं भवति। तदेवं वक्तव्यम् - आदिर्मणि क्तः कर्तरि च, ततः श्लिषशीङस्थासवजनरुहजीर्यतिभ्यश्च, ततोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इति, एवञ्च द्विः क्तग्रहणं गत्यर्थाकर्मकग्रहणञ्च न कर्तव्यं भवति? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यथा ध्रौव्यार्थेभ्यः कर्तरि क्तो भवति, तथा प्रत्यवसानार्थेभ्योऽपि स्यात्, स च नेष्यते। तस्माद्यथान्यासमेवास्तु॥अकार उच्चारणार्थः इति। एतेनानुबन्धशङ्कां निराकरोति। अनुबन्धे ह्रस्मिन्नकारानुबन्धविशिष्टयोरेव लङलटोग्र्रहणं स्यात्, नान्येषां लिडादीनाम्। अर्थविशेषे`इति। कर्त्तृकर्मादौ। कालविशेषे इति। वर्तमानादौ। अक्षरसमाम्नायवत् इति। यथाऽक्षरसमाम्नाये प्रत्याहारेऽकारादयो वर्णा आनुपूर्व्या कथ्यन्ते, तद्वदित्यर्थः।अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति इति। विशेषानुपादानामिति भावः। चूडालः इति। प्राणिस्थादातो लजन्यतरस्याम् (5.2.96) इति लच्। धात्वधिकारः इति। धातोः (3.1.91) इति पञ्चम्यन्तमनुवर्तते, तेन च लकारो विशिष्यते - धातोर्विहितस् लस्येति। लः कर्मणि च भावे चाकर्मकेभ्यः (3.4.69) इत्यादौ प्रकारणे येऽर्थाः कर्त्तृकर्मभावा निर्दिष्टास्त इहानुवर्तन्ते, तैश्च लकारो विशिष्यते - कत्र्रादिषु विहितस्य लस्येति। तेन विसिष्टस्यैव लकारस्य ग्रहणं भवति, न सर्वस्येति भावः॥
Prakriyasarvasvam¶
ध्रौव्यार्थाः अकर्मकाः । तेभ्यो गतिभुक्त्यर्थेभ्यश्चाधिकरणे क्तः स्यात् । चकाराद् यथाप्राप्तं च । <karika>कृष्णस्य क्रीडितां भूमिं नृत्तं च शयितं स्थलम् । यातानप्यशितान् देशान् मृगयन्ते स्म गोपिकाः ॥ १०१ ॥</karika> भुक्ताः पीता अतिथय इत्यादौ तु कर्माविवक्षयाकर्मकत्वात् कर्तरि क्त इति सुभद्राहरणे ॥
Sutra Prayogas¶
मणि-रत्नाऽधिशयितं (भट्टिकाव्यम्): क्तो ऽधिकरणे च इति क्तः पूर्ववत्कित्त्वप्रतिषेधः।
शयितं (भट्टिकाव्यम्): क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः इत्यधिकरणे क्तः।