34069: लः कर्मणि च भावे चाकर्मकेभ्यः¶
Padacheda: लः | S | 1 | 3 |
कर्मणि | S | 7 | 1 |
च | S | 0 | 0 |
भावे | S | 7 | 1 |
च | S | 0 | 0 |
अकर्मकेभ्यः | S | 5 | 3 |
Sutrartha¶
लकाराः सकर्मकेभ्यः धातुभ्यः कर्तरि कर्मणि च भवन्ति । अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च भवन्ति ।
लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् - एतेषां दश-प्रत्ययानाम् सामुहिकम् नाम ‘लकार’ इति । एते प्रत्ययाः धातुभ्यः भिन्नेषु अर्थेषु विधीयन्ते । एतेषां प्रयोगस्य विषये अनेन सूत्रेण एतत् उच्यते - 1. यदि धातुः सकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, कर्मणिप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च कर्मणिप्रयोगः करणीयः एतत् तु विवक्षाधीनम् एव। यथा - ‘पठ्’ इति सकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - रामः पुस्तकं पठति), तथा कर्मणिप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - रामेण पुस्तकं पठ्यते) । 2. यदि धातुः अकर्मकः अस्ति, तर्हि लकारस्य प्रयोगः कर्तरिप्रयोगे भवितुमर्हति, भावेप्रयोगेऽपि भवितुमर्हति । कुत्र कर्तरिप्रयोगः करणीयः कुत्र च भावेप्रयोगः करणीयः एतत् तु विवक्षाधीनम् । यथा - ‘पत्’ इति अकर्मकः धातुः । अस्मात् धातोः कर्तरिप्रयोगे अपि लट्-लकारः भवितुमर्हति (यथा - फलं पतति), तथा भावेप्रयोेगे अपि लट्-लकारः भवितुमर्हति (यथा - फलेन पत्यते) । ज्ञातव्यम् - 1. ‘कर्तरि प्रयोगः’ इत्युक्ते सः प्रयोगः यत्र लकारः कर्तारम् बोधयति । ‘कर्मणि प्रयोगः’ इत्युक्ते सः प्रयोगः यत्र लकारः कर्मपदम् बोधयति । ‘भावे प्रयोगः’ इत्युक्ते सः प्रयोगः यत्र लकारः क्रियायाः भावं बोधयति । 2. अस्मिन् सूत्रे ‘अकर्मकेभ्यः’ इत्येव उक्तमस्ति । परन्तु, ‘अकर्मकेभ्यः कर्तरि भावे च भवन्ति’ इत्यस्यैव अर्थः ‘शेषेभ्यः कर्तरि कर्मणि च भवन्ति’ इति जायते । शेषाः धातवः इत्युक्ते सकर्मकाः धातवः । अतएव ‘सकर्मकेभ्यः धातुभ्यः’ इति सूत्रार्थे उक्तमस्ति । 3. अस्मिन् सूत्रे ‘लः’ इति प्रथमाबहुवचनमस्ति, अतः सर्वेषाम् लकाराणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । 4. अविवक्षितकर्माणः अपि अकर्मकाः इति किञ्चन वचनमस्ति । अस्य अर्थः अयम् - यत्र सकर्मकः धातुः कर्मपदं विना प्रयुज्यते, तत्र सः अकर्मकः अस्ति इत्येव मन्यते । अतः ‘रामः पठति’ इत्यत्र ‘पठ्’ धातुमकर्मकम् स्वीकृत्य वर्तमानसूत्रेण ‘भावे प्रयोगे’ तस्य लकाराः भवितुमर्हन्ति (न हि ‘कर्मणि प्रयोगे’) । अनेन प्रकारेण ‘रामेण पठ्यते’ इति भावेप्रयोगः सिद्ध्यति । 5. अस्मिन् सूत्रे ‘च’ इत्यस्य द्विवारं प्रयोगः कृतः अस्ति । अतः ‘कर्तरि’ इति अनुवृत्तिः ‘कर्मणि’ इत्यनेन सह अपि योज्यते, ‘भावे’ इत्यनेन सह अपि योज्यते । अतएव ‘कर्मणि कर्तरि च’ तथा ‘भावे कर्तरि च’ इति अन्वयः क्रियते ।
Sutrartha (English)¶
For the सकर्मक verb roots, the लकार can be used in the कर्तरि as well as the कर्मणि sense. For the अकर्मक verb roots, the लकार can be used in कर्तरि as well as भावे sense.
Vasu English Summary¶
The tense affixes called ल are used in denoting the object and the agent and after intransitive verbs, they denote the action as well as the agent.
Vasu English Translation¶
The tense affixes called ल are used in denoting the object and the agent and after intransitive verbs, they denote the action as well as the agent. The term ल् means the ten affixes known as लट्, लिट्, &c; ल् is the common element of them all; and these affixes, when stripped of all indicatory letters, leave behind only the letter ल् which is thus common name for them all. The लः in the sutra, is the nominative plural of ल् । By the word च in the sutra, we draw in the word कर्ता or ‘agent’ from the last sutra into this. The force of these tense-affixes, when placed after transitive verbs is to denote the object and the agent; and when placed after intransitive verbs, is to denote either ‘action’ (भाव) or it may denote the ‘agent’.
The verb itself denotes the action; to be or to do, generally; or to be or to do, in a particular manner. In the active voice the affix marks the agent; in the passive voice of a transitive verb, it marks the object; but in the passive form of an intransitive verb, the action itself. Thus, गम्यते ग्रामो देवदत्तेन ‘the village is gone to by Devadatta’; here ते of गम्यते denotes the object and is in passive construction. गच्छति ग्रामं देवदत्तः ‘Devadatta goes to the village’; here the affix ति of गच्छति denotes the agent, and the sentence is in active construction. The verb गम् being a transitive verb, can take both the active and passive constructions or, to use the Sanskrit technical phraseology, the tense affixes, after transitive verbs, denote the agent and the object. They can never denote भाव or action after transitive verbs, that is, transitive verbs cannot be used impersonally. Let us now give examples of Intransitive verbs; आस्यते देवदत्तेन ‘it is seated by Devadatta’; the verb आस्यते here denotes merely भाव or ‘action’. In other words, we may call this an impersonal construction. आस्ते देवदत्तः ‘Devadatta sits’; here the verb आस्ते denotes the agent or is in the active voice.
Professor Bohtlingk translates the sutra thus:- “A finite verb expresses the agent as well as the object; but the Intransitive verbs denote, in addition to that, the Impersonal idea of the action”. The word भाव means action considered in the abstract.
Bhashya¶
लः कर्मणि च भावे चाकर्मकेभ्यः (1230) (606 लकारशक्तिबोधकसूत्रम्॥ 3 । 4 । 1 आ. 18) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (समाधानभाष्यम्) ल एतेषु साधनेषु यथा स्यात्। कर्तरि कर्मणि च भावे चाकर्मकेभ्य इति। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। भावकर्मणोः आत्मनेपदं विधीयते, शेषात्कर्तरिपरस्मैपदम्। एतावांश्च लकारःउयदुत परस्मैपदम्, आत्मनेपदं च। स चायमेवं विहितः॥ (समाधानवार्तिकावतरणभाष्यम्) अत उत्तरं पठति - (5056 समाधानवार्तिकम्॥ 1 ॥) - लग्रहणं सकर्मकनिवृत्त्यर्थम्- (भाष्यम्) लग्रहणं क्रियते (किं प्रयोजनम्?) सकर्मकनिवृत्त्यर्थम्। सकर्मकाणां भावे लो मा भूदिति॥ (सूत्रप्रत्याख्यानभाष्यम्) यदि पुनस्तत्रैवाकर्मकग्रहणं क्रियते॥ (सूत्रारम्भभाष्यम्) तत्तत्राकर्मकग्रहणं कर्तव्यम्॥ (सूत्रप्रत्याख्यानभाष्यम्) ननु चेहापि क्रियते भावे चाकर्मकेभ्य इति॥ (सूत्रारम्भभाष्यम्) परार्थमेतद् भविष्यति तयोरेव कृत्यक्तखलर्थाः भावे चाकर्मकेभ्य इति॥ (सूत्रप्रत्याख्यानभाष्यम्) एवमपि यावदिह लग्रहणं तावत् तत्राकर्मकग्रहणम्॥ इह वा लग्रहणं क्रियते। तत्र वाऽकर्मकग्रहणम्। कोन्वत्र विशेषः?। (सूत्रारम्भभाष्यम्) अयमस्ति विशेषः - -इह लग्रहणे क्रियमाने आनः कर्तरि सिद्धो भवति। तत्र पुनरकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति॥ (सूत्रप्रत्याख्यानभाष्यम्) तत्राप्यकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धो भवति। कथम्?। भावकर्मणोः इत्यतो यदन्यदात्मनेपदानुक्रमणम्, तत्सर्वं कर्त्रर्थम्॥ (5057 प्रत्याख्यानवादिवार्तिकम्॥ 2 ॥) - विप्रतिषेधाद्वानः कर्तरि- (भाष्यम्) विप्रतिषेधाद्वा आनः कर्तरि भविष्यति॥ तत्र भावकर्मणोः इत्येतदस्तु कर्तरि कृद् इति। कर्तरि कृद् इत्येतद्भविष्यति विप्रतिषेधेन॥ (5058 आरम्भवादिवार्तिकम्॥ 3 ॥) - सर्वप्रसङ्गस्तु- (भाष्यम्) सर्वेभ्यस्तु धातुभ्य आनः कर्तरि प्राप्नोति। परस्मैपदिभ्योपि॥ (प्रत्याख्यानभाष्यम्) नैष दोषः। अनुदात्तङित इत्येष योगो नियमार्थो भविष्यति॥ (आरम्भवादिभाष्यम्) यद्येष योगो नियमार्थः, विधिर्न प्रकल्पते - आस्ते शेते इति। अथ विध्यर्थः, आनस्य नियमो न प्राप्नोति - आसीनः शयान इति। अथ विध्यर्थः, आनस्य नियमो न प्राप्नोति - आसीनः शयान इति। तथा नेर्विश इत्येवमाद्यनुक्रमणं यदि नियमार्थम्, - विधिर्न प्रकल्पते। अथ विध्यर्थम्, - आनस्य नियमो न प्राप्नोति। (प्रत्याख्यानभाष्यम्) अस्तु तर्हि नियमार्थम्। (दूषणस्मारणभाष्यम) ननु चोक्तं विधिर्न प्रकल्पते इति। (दूषणस्मारणभाष्यम्) विधिश्च प्रकॢप्तः। कथम्?। भावकर्मणोः इत्यत्र अनुदात्तङितः इत्येतदनुवर्तिष्यते॥ (आक्षेपभाष्यम्) यद्यनुवर्तते। एवमपि अनुदात्तङितः एव भावकर्मणोरात्मनेपदं प्राप्नोति॥ (आक्षेपपरिहारभाष्यम्) एवं तर्हि योगविभागः करिष्यते - अनुदात्तङित आत्मनेपदम् भवति॥ ततो भावकर्मणोः॥ ततः कर्तरि कर्तरि चात्मनेपदं भवति। अनुदात्तङित इत्येव। आस्ते शेते। भावकर्मणोरिति निवृत्तम्। ततः कर्मव्यतिहारे कर्तरीत्येवानुवर्तते। अनुदात्तङितः इत्यपि निवृत्तम्। (आक्षेपपरिहारभाष्यम्) यदप्युच्यते - तथा नेर्विश इत्येवमाद्यनुक्रमणं यदि नियमार्थे, विधिर्न प्रकल्पने। अथ विध्यर्थमानस्य नियमो न प्राप्नोतीति॥ अस्तु विध्यर्थम्॥ (दूषणस्मारणभाष्यम्) ननु चोक्तमानस्य नियमो न प्राप्नोतीति। (दूषणवारणभाष्यम्) नैष दोषः। यथैवात्राप्राप्तास्तङो भवन्त्येवमानोपि भविष्यति। (5059 सूत्रारम्भवादिवार्तिकम्॥ 4 ॥) - सर्वत्राप्रसङ्गस्तु- (भाष्यम्) सर्वेषु च साधनेष्वानो न प्राप्नोति। विप्रतिषेधाद्वानः कर्तरि इति भावकर्मणोर्न स्यात्। कर्तर्येव स्यात्॥ इह पुनर्लग्रहणे क्रियमाणे कर्तरि कृद् इत्येतदस्तु, लः कर्मणि च भावे चाकर्मकेभ्य इति, लः कर्मणि च भावे चाकर्मकेभ्यः इत्येतद्भविष्यति विप्रतिषेधेन॥ (5060 दूषणवार्तिकम्॥ 5 ॥) - सर्वप्रसङ्गस्तु- (भाष्यम्) लादेशः सर्वेषु साधनेषु प्राप्नोति। शतृक्वसू च भावकर्मणोरपि प्राप्नुतः। (दूषणवारणभाष्यम्) नैष दोषः। शेषात्परस्मैपदं कर्तरि इत्येवं तौ कर्तारं हियेते॥ लः कर्मणि च॥ 69 ॥
Kashika¶
ल इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते। प्रथमाबहुवचनान्तं चैतत्। लकाराः कर्मणि कारके भवन्ति, चकारात् कर्तरि च। अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात् कर्तरि च। गम्यते ग्रामो देवदत्तेन। गच्छति ग्रामं देवदत्तः। अकर्मकेभ्यः — आस्यते देवदत्तेन। आस्ते देवदत्तः। सकर्मकेभ्यो भावे न भवन्ति॥
Siddhanta Kaumudi¶
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
Laghu Siddhanta Kaumudi¶
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥
Balamanorama¶
लः कर्मणि च भावे चाकर्मकेभ्यः - लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् ।लः कर्मणि चे॑ति प्रथमं वाक्यम् । ‘ल’ इति प्रथमाबहुवचनान्तम् । चकारेणकर्तरि कृ॑दित्यतःकर्तरी॑त्यनुकृष्यते ।धातो॑रित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम्, अकर्मकेषुकर्मणी॑त्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्य इति । एवं च सकर्मकेभ्यो भावे लकारान भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तुदेवदत्तेन घटं क्रियते॑ इत्यादौ भावलकारेण कर्मणोऽनभिहितत्वाद्द्वितीया स्यादिति भावः । ‘भावे चाकर्मकेभ्यः’ इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते, न तु कर्म, असंभवात् । तदाह — अकर्मकेभ्यो भावे कर्तरि चेति । अत्राऽकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन ‘देवदत्तेन भुज्यते’ इत्यत्र सतोऽप्योदनरूपकर्मणोऽविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः ।
Tattvabodhini¶
लः कर्मणि च भावे चाकर्मकेभ्यः - लः कर्मणि च । चकारात्कर्तरि क॑दित्यतः कर्तरीत्यनुकृष्यते । सकर्मकविषयं चेदम् । अकर्मकेषु कर्मणीत्यंशस्य बाधितत्वात्,भावे चे॑त्युत्तरवाक्येन तत्र विशेषविधानाच्च । तदेतदाह - सकर्मकेभ्य इति । भावे चेति । चकारेण कर्तैवाऽनुकृष्यते न तु कर्म, असंभवात् । तदाह — भावे कर्तरि चेति । ननु भावकर्मणोरात्मनेपदविधानात्,शेषात्कर्तरी॑ति परस्मैपदविधानाच्च ज्ञापकाल्लकाराणां भावकर्मकर्तारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण मैवम् । असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घञादिवद्भावे लकारापत्तौघटं क्रियते देवदत्तेने॑त्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात् । न चैवम्अककर्मकेभ्यो भावे लः॑ इत्येव सूत्र्यतां,भावे अकर्मकेभ्य एवे॑ति नियमार्थमिति वाच्यम्,अकर्मकेभ्यो भाव एवे॑ति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकाराऽनापत्त्या कर्तरि तेभ्यो लकाराऽनापत्तेः । तस्माद्भावे चेति चकार आवश्यकः । न चैवंभावे चाकर्मकेभ्यः॑ इत्येवाऽस्त्विति वाच्यं, भावे इव कर्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः । नन्वेवमपिलश्च भावे चाऽकर्मकेभ्यः॑ इत्येवास्तु, चकारेण कत्र्रीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकर्मकेभ्यो भावे कर्तरि च स्युरित्यर्थे पर्यवसिते, कर्मणि तूक्तज्ञापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेन्मैवम्, उत्तरसूत्रेतयो॑रित्यनेन कर्मणोऽपि परामर्शार्थं तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयथ्र्यात् । तस्माद्यथान्यासमेव रमणीयम् । अत्र नैयायिका — लकाराणां कृतावेव शक्तिर्लाघवान्न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात्,देवदत्त॑ इत्यादिप्रथमान्तपदेन तल्लाभाच्च ।देवदत्तः पचती॑त्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम् , आश्रयत्वं तु संसर्गः । रतथा च पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सूष्ठूपपद्यते॑ इति । तन्न । पचतीत्युक्ते पाककर्ता कस्मिन्नित्याकाङ्क्षा स्यात्, कस्येति वा । न चैककर्तृका पचिक्रियेति शाब्दबोधाब्युपगमेऽपि क इत्याकाङ्क्षा नोपपद्यत एवेति शङ्क्यं, कर्तृसामान्यबोदे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाऽभावात् । नापि देवदत्तकर्तृका पचिक्रियेत्युक्तेऽपि कस्मिन्नस्ति कस्य वेत्याकाङ्क्षा दुर्वारेवेति शङ्क्यं, विक्लित्त्यनुकूलव्यापारस्यैव पचिक्रियात्वात्, तदाश्रयस्य देवदत्तस्य कर्तृत्वात्, क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याद्याकाङ्क्षाया अप्रवृत्तेः । किंचपचन्तं देवदत्तं पश्य॑,पचते देवदत्ताय देहि॑,पचमानस्य देवदत्तस्य द्रव्य॑मित्यादौ शतृशानजादीनामपि तिबादिवल्लादेशत्वाऽविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः । न चेष्टापत्तिराश्रयत्वं संसर्ग इत्युक्तत्वेन पाकानुकूलकृत्याश्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाऽभावदिति वाच्यं, नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात् । न चैवं नामार्थयोरमेदसंसर्गव्युत्पत्त्यनुरोधेन, शतृशानजाजीनां कर्तरि शक्तिस्तिबादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्याऽदोषत्वादिति वाच्यं,स्थान्येव वाचको लाघवान्न त्वादेशो गौरवा॑दिति स्वसिद्धातन्तस्य परित्यागापत्तेः ।रामः॑,ज्ञानं॑,कतर॑दित्यादौ सोर्विसर्गे सोरमि सोरदडि च कृते लाघवात्सुत्वनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्याऽसाङ्गत्यापत्तेश्च । एवं च तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वं, बोधकस्तु लकार एवेति स्थितम् । स च शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृतिं बोधयेत् ।अन्यायश्चाऽनेकार्थत्व॑मिति न्यायात् । यदि त#उ वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्यभ्युपगम्यते तर्हि — घटं, घटेन, हरेऽव, विष्णोऽवेत्यादिषुसर्वे सर्वपदादेशाः॑ इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिध्येदिति भवतां तन्महदनिष्टम् । किं चकर्तरि कृ॑दिति यत्कर्तृग्रहणं तदेवलः कर्मणी॑ति सूत्रे चकारेणानुकृष्यत इति कथं ण्वुलादीनां लकाराणां च शक्तौ वैलक्षण्यम् । न च नामार्थयोरभेदान्वयसंसर्गाभ्यपगम एव ण्वुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यं,पचतिरूपं पचतिकल्पं देवदत्त॑ इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुरेव वाच्यतौचित्यात् । ननु समुदायस्य नामत्वेऽपि तिङ्प्रत्ययो न नामेति चेत्, पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम् । अकान्तं नामेति चेद्रूपबाद्यन्तमपि नामेति तुल्यम् । ततश्चात्र प्रशस्तपाककर्ता देवदत्त इत्याद्यभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिङ्क्ष्वपि कर्तुर्वाच्यता स्वीकत्र्वयैव । किं च कर्तुर्वाच्यत्वाऽनभ्युपगमेयुष्मदि समानाधिकरणे मध्यमः॑अस्मद्युत्तमः॑ इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था,अभिहिते कर्तरि प्रथमे॑त्यादिकं च बवन्मते कथं सङ्गच्छताम् । यत्तु अनभिहित इत्यस्यानभिहितसङ्ख्याक इत्यर्थवर्णनेनदेवदत्तः पचत्योदनम्,ओदनः पच्यते देवदत्तेने॑त्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तं, तन्न, कृत्तद्धितसमासेषु सङ्ख्याभिधानस्याऽप्रसिद्धत्वात् । ततश्चपक्तकव्यस्तण्डुलः॑,शत्यः शतिकोऽआः॑,प्राप्तोदको ग्रामः॑ इत्यादिषुकर्मणि द्वितीये॑त्यस्य प्रवृत्तौ प्रथमा न स्यात् । न चतिष्ठती॑त्यध्याहारेण सङ्ख्याबिधानमिहाप्यस्तीति वाच्यं,स्थित॑ इत्याद्यध्याहारे तदभावात् ।शाब्दिकोऽयं देवदत्तो न तु नैयायिक॑ इत्यादिषुनीलमिदं न तु रक्त॑मित्यत्रेव क्रियापदा[द्य]ध्याहारस्याऽनावश्यकतया आख्यातेन,शब्ददर्दुरं करोती॑ति ठक्प्रत्ययेन वा कर्तृसङ्ख्याया अनुक्तत्वाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च । तस्मादनभिहिते कर्तरीत्यादि व्याख्यानमेवाभ्युपेतव्यम् । अपि च धातूपात्तव्यापाराश्रयः कर्ता, तत्राश्रयमात्रं कृतां लकाराणां चार्थो न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात् । अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयोर्नाऽनन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारएमान्वयः क्लिष्टः स्यात् । यस्तु वदति — कृदातोः कृतिरर्थः, कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि ।कर्तरि कृ॑दित्यत्रं हि कर्तरीति भावप्रधानो निर्देशः । कर्तृत्वं कृतिमत्त्वम् । तच्च कृतिरेवायत्र तु देवदत्तादिपदसमभिव्याहारस्तत्र तृजादौ कृतिमति लक्षणे॑ इत्यादि, तन्मते पूर्वोक्तकर्तेत्यादौ सुतरामनन्वयः ।कर्मवत्कर्मणे॑ति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यत्नार्थकत्वे तुकरिष्यते घट॑ इत्यादि न सिद्ध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम् । आश्रयमात्रस्य प्रत्ययार्थत्वे तुरथो गच्छती॑त्यत्र रथस्याचेतनस्य यत्नाभावेऽपि गमनानुकूलचक्रभ्रमणादिव्यापाराश्रयत्वान्न काचिदनुपपत्तिः । एवं स्थिते कृतौ शक्तिरित्यास्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात् । जानातीत्यादावाश्रयत्वं प्रत्ययस्यार्थ इति स्वीकृत्य यत्नार्थत्वस्य त्वयापि वक्तव्यत्वात् । नहि यत्नमन्तरेण ज्ञानं नोदेतीति कश्चिदभ्युपैति । तस्मात्कृतां तिङां च वैलक्षण्यं दुर्लभमिति कत्र्रर्थकत्वमभ्युपेयम् । एतेन कत्र्रधिकरणे आख्यातवाच्यत्वं कर्तुर्निरस्य जञ्जभ्यमानाधिकरणे यङन्ताद्विहितस्य जञ्जमान इति सानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रयुक्ताः । यत्तु तैरुक्तं-शानजंशे॒कर्तरि कृ॑दिति व्याकरणं शक्तिग्राहकमस्ती॑ति । तन्न । कृद्वाक्यशेषो ह्रयमर्थाकाङ्क्षायामनिर्दिष्टार्थेषु ण्वुलादिष्वेवोपतिष्ठतेआकाङ्क्षितविधानं ज्यायः॑ इति न्यायात्, न तु शत्रादिषु । स्थानिबूतलाकारार्थेनैव तेषां निराकाङ्क्षत्वात्, अन्यथा भावे कर्मणि च शानचो दौर्लभ्यापत्तेः । ततश्चशय्यमाने आस्यमाने चायं गत॑ इत्यादिप्रयोगो भावे न स्यात् । कर्मणि तुक्रियमाण॑ इत्यादिप्रयोगो न स्यात् । यत्तु भट्टपादा आहुः -कर्तरि यदेकत्वं तत्र तिप्, कर्तरि यद्द्वित्वं तत्र तसित्यादिक्रमेणलः कर्मणी॑त्यस्यद्व्येकयो॑रित्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तृवाच्यता सूत्रादायाती॑ति । तञ्चिन्त्यम् ।तान्येकवचनद्विवचने॑ति विहितद्विवचनादिसंज्ञा हि तिबाद्यादेशनिष्ठा । ततश्च द्विवचनादिसंज्ञाकतिबादिविधिनाद्वेयकयो॑रित्यस्यैकवाक्यताऽस्तु । न च तिबादिविधौ कर्तरीत्यस्ति यद्द्वित्वैकत्वादिविशेषणतयाक कथंचिन्नीयेत । ननुलः कर्मणी॑ति सूत्रे कर्तरि कृ॑दित्यतोऽनुवृत्तं कर्तृग्रहणं तिबादिविधावस्त्येव, लविधि-तिबादिविध्योरप्येकवाक्यतास्वीकारादिति चेत् । सत्यम् । वाक्यैकवाक्यता हि सा, न तु पदैकवाक्यता,लः कर्मणी॑ति विहितलकारानुवादेन तिबाद्यादेशविधेः प्रवृत्तत्वात् । तथा च लविधौ श्रूयमाणं कर्तृग्रहणं कथं सङ्ख्यां विशिनष्टु । न हि यत्र कर्तृग्रहणं तत्र सङ्ख्योपस्थापकमस्ति, लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात् । ततश्चकर्तरि यदेकत्व॑मिति व्याख्या कथमपि न संभवत्येव । स्यादेतत् — लः कर्मणी॑ति सूत्रेल॑ इत्यकारानुबन्धकयोर्लङ्लटोः सामान्यग्रहणं न भवति, किन्तूत्सृष्टानुबन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम् । तत्रल॑ इति जसन्तं माभूत् । किं तु ङसन्तमस्तुलः परस्मैपद॑मितिवत् । आदेशापेक्षा चेयं षष्ठी — लस्य य आदेशः स कर्मणि चेत्यादि । न चाऽविहितस्य लस्यानुवादोन संभवतीति वाच्यं,वर्तमाने ल॑डित्यादिभिरेव लविधानात् । तथा च लस्य स्थानेय आदेशः स सकर्मकात्कर्मणि कर्तरि च [यदेकत्वं तत्र] स्यादकर्मकाद्भावे कर्तरि चेत्याद्यर्थः सुलभ इति भट्टपादोक्त्योजनिकानिर्बाधैवेति चेत् । अत्राहुः — ल इत्यस्य षष्ठन्तत्वे आदेशानामेवाऽर्थ उक्तः स्यात् । सोऽपि तिबादिनामेव, न तु शवादीनां , तेषां द्विवचनादिसंज्ञाविरहात् ।द्व्येकयो॑रित्यादिनाऽस्यैकवाक्यतायाभवद्भिरुक्तत्वात् । न च भवदुक्तरीत्याकर्तरि कृ॑दित्यनेन निर्वाहः । भावे कर्मणि च शानचो दौर्लभ्यापत्तेर#उक्तत्वात् । न च शानज्विधिना सहाऽऽत्मनेपदव्यवस्थाकपकानामेकवाक्यतयाभावकर्मणो॑रित्यनेनेष्टसिद्धिः । सकर्मकादपि भावे शानजापत्तेः । किं च जसन्तत्वे श्रुतेनैव संबन्धः, षष्टन्तत्वे त्वादेश इत्यध्याहाराद्गौरवमित्यादि । अत्रेदं बोध्यम् — भावे चाकर्मकेभ्यः॑ इत्यकर्मकग्रहणेनाऽविवक्षितकर्माणोऽपि गृह्यन्ते । अत एवणेरणौ॑ इति सूत्रे — नेह पच्यते नेह भज्यते इति भावे लकार इति हरदत्तः ।अत्यन्ताऽविद्यमानकर्मकामामेव ग्रहणं,नेह, पच्यते॑ इत्यादौ तु कर्मण्येव लकारः । गम्यमानत्वाच्च कर्म न प्रयुज्यते॑ इति मतान्तरम् । एतच्चगतिबुद्धी॑त्यादिसूत्रे हरदत्तग्रन्ते स्पष्टम् । यत्तु कैश्चिदुक्तम् — इहअविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्त॑ मिति, तच्चिन्त्यम्, पक्षद्व्यस्यापि भाष्यकैयकटादिग्रन्थारूढत्वात् । प्रत्युताऽविवक्षितकर्माणोऽप्यकर्मका इति पक्ष एव प्रबलः । तथाहिसमानकर्तृकेषु तुमु॑न्निति सूत्रे इच्छता क्रियत इति भावे लडुक्तो हरदत्तेन ।णेरध्ययने वृत्त॑मितिसूत्रे कैयट हरदत्तादिभिरपिनपुंसके भावे क्तोऽकर्मकेभ्य एव,तयोरेव कृत्यक्ते॑त्यत्र कृन्मात्रस्य ग्रहणात्, तत्र भावेचाऽकर्मकेभ्य इत्यनुवर्तनात्, अन्यथा घटं कृतमिति प्रसज्येते॑ति सिद्धान्तितम् । एवं स्थिते यद्यविवक्षितकर्मणोऽपीह सूत्रेऽकर्मकग्रहणेन न गृह्रेरन्, तर्हि पीता गावो भुक्ता ब्राआहृणा इत्यादौ भावे क्तान्तादर्श आद्यजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम्,आदिकर्मणि क्तः॑ इति सूत्रे हरदत्तेन वक्ष्यमाणं, कृतपूर्वीत्यत्र भावे क्त इति कैयटाद्युक्तं च कथं सङ्गच्छेत् । कथं चगतं तिरश्चीन॑ मित्यादिप्रयोगाः सङ्गच्छेरन् ।गतिबुद्धी॑ति सूत्रे त्वकर्मकग्रहणेनाऽविवक्षितकर्मके॑ति सूत्रेऽपि न गृह्यन्ते,तेन हि सूत्रेण कर्तर्यपि क्तो विधीयत इति दत्तवान्पक्ववानित्याद्यर्थे दत्तः पक्व इत्याद्यापत्तेः । इह सूत्रे त्विवक्षितकर्मणाकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत् ।
Padamanjari¶
‘लः’ इति लङ्लटोरकारानुबन्धयोः सामान्येन ग्रहणमेकवचनं चेति शङ्कामपाकरोति - ल इत्युत्सृष्टानुबन्धसामान्यमेकं गृह्यत इति । प्रथमाबहुवचनं चैतदिति । सामान्यस्यैकत्वेऽपि’जात्याख्यायामेकस्मिन् बहुवचनम्’ । अथादेशापेक्षया षष्ठ।लेकवचनं कस्मान्नाश्रीयते - लः लस्य य आदेश इति, यथा -‘लः परस्मैपदम्’ इति ? उच्यते; एवं विज्ञायमाने लादेशानामनेनार्थो निदिश्येत, ततश्चाम्विषयस्य लकारस्यार्थो न निर्दिष्टः स्यात्, लुगत्रादेशः । न चाबावरूपस्य तस्यार्थादेशनं युज्यते, ततश्चासौ’कर्तरि कृत्’ इति कर्तर्येव स्यात् । ननु च तस्य आमःऽ इति लुकापहारे सत्यनुप्रयोगे ये लादेशास्तैरेव भावादीनामभिव्यक्तिर्भविष्यति ? नैतदस्ति; यदा ह्यम्विषयो लकारः कर्तर्येवेति स्थितम्, तदा विरोधाद्भावकर्मवाचिप्रत्ययपरोऽनुप्रयोगो नैव प्राप्नोति, श्रुतस्यैव च संबन्धोपपतावादेश इत्यध्याहारो न युक्तः । तस्मात्प्रथमाबहुवचननान्तमेव युक्तम् । तत्र द्विविधो लकारः - तिङ्भावी, अतिङ्भावी च । तत्र तिङ्भावनिनः कृत्संज्ञानिषेधात्’कर्तरि कृत्’ इत्यस्यानुपस्थानात्स्वार्थे भावे विधानं प्राप्नोति, अतिङ्भाविनस्तु’कर्तरि कृत्’ इति वचनात्कर्तर्येव साधुत्वं प्राप्नोति, न भावकर्मणोः - आस्यमानं शय्यमानमित्यादाविति वचनमिदमारभ्यते । ननु च भावकर्मणोरात्मनेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, ततश्च लकारस्य भावकर्मकर्तारोऽर्था अनुमास्यन्ते । यद्वा लकारस्य प्रयोगेऽसमवायादादेशानामेव तेऽर्था भविष्यन्ति, नार्थ एतेन ? इत्याशङ्क्याह - सकर्मकेभ्यो भावे न भवन्तीति । अनारभ्यमाण एतस्मिन्यथा भावे विधीयमाना घञादयः सकर्मकेभ्योऽपि भावे भवन्ति - ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा’भावकर्मणोः, इत्यनेन भावे आत्मनेपदं सकर्मकेभ्यो’ पि स्यात्, ततश्तच पच्यते यवगूं देवदतेनेति प्रयोगः प्राप्नोति, अतः’भावे चाकर्मकेभ्यः’ इति वक्ष्यामीत्ययमारब्धः । अथ तत्रैव’भावकर्मणोरकर्मकात्’ इत्युच्यते, तत्राकर्मकग्रहणं कर्तव्यं स्यात्, ननु चेहापि क्रियते ? इहावश्यं कर्तव्यम् -‘तयोरेव कृत्यक्तखलर्था भावे चाकर्मकेभ्यः’ इति, तस्मात्सकर्मकेभ्यो भावे मा भूदित्यवमर्थमयमारम्भ इति स्थितम् । किं चाम्विषयस्य लकारस्यार्थादेशनार्थमपीदं वक्तव्यम्; इतरथा पूर्वोक्तदोषप्रसङ्गादित्यलमियता ॥
Nyaas¶
पूर्वसूत्रेण कृत्संज्ञकत्वाल्लकारः कर्तर्येव प्राप्नोति न भावकर्मणोः, अतस्तयोरपि यथा स्यादित्येवमर्थमिदमारब्धम्। ल इत्युत्सृष्टानुबन्धकम् इत्यादि। लडादीनां दशानां लकारानां विशेषकराननुबन्धानुत्सृज्य `लः इति सामान्यं गृह्रते। प्रथमाबहुवचनान्तञ्चैतत् इति। पञ्चमीषष्ठेकवचनाशङ्कां निराकरोति। पञ्चम्यां ह्रस्यां लकारात् परो यस्तस्यैवार्थो निर्दिष्टः स्यात्, ततश्च कर्तर्येव लकारः स्यात्, षष्ठआमेवास्यामनन्तर्यलक्षणा विज्ञायेत। तथा च लकारस्य योऽनन्तरस्तस्यैवार्थनिर्देशः स्यात्, ततश्च स एव दोषो यः पञ्चम्याम्। अत्राप्यादेशापेक्षया षष्ठी विज्ञायते?एवमपि लकारादेशानामनेनामर्थो निर्दिश्यत इत्ययमेव विषयार्थो न निर्दिष्टः स्यात्। ननु च लकारस्य प्रयोग एव नास्ति, तत्कथं तस्यैव कर्मादयोऽर्थाः? सामर्थ्यात् तदादेशानामेतेऽर्था विज्ञास्यन्त इत्यदोषः। सकर्मकेभ्यो भावे न भवन्ति इति। अकर्मकेभ्य इति वचनात्; अन्यथा हि तदनर्थकं स्यात्॥
Prakriyasarvasvam¶
वर्तमाने लट् (३-२-१२३) । इति धातोर्लट् । लकाराः सकर्मकेभ्यः कर्मणि, अकर्मकेभ्यो भावे स्यु,। उभयत्र चकारात् कर्तर्यपि । इति कर्तरि लट् । भू लट् । अटावितौ । भू ल् ।